लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०३१

विकिस्रोतः तः
← अध्यायः ३० लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ३१
[[लेखकः :|]]
अध्यायः ३२ →

श्रीनरनारायण उवाच—
शृणु बद्रीप्रिये देवि कटकर्त्र्याः कथामपि ।
ओजस्वतीतटे ग्रामे कालंजरे द्रुमान्विते ॥१॥
कटकर्त्र्यभवच्छूद्री नाम्ना गंगाञ्जनीति वै ।
सा सौराष्ट्रे कटान् श्रेष्ठान् ग्रथित्वा वंशपात्रिकाः ॥ २ ॥
बृसीर्निर्माय च याति पत्तनं विक्रयार्थिनी।
धर्मांगदपुरं गत्वा विक्रीणाति यथार्हणम ॥ ३ ॥
सायं दामोदरं नत्वा प्रयाति निजपत्तनम् ।
प्राप्य धनं चान्नमपि वस्त्रं यद्वा ह्यपार्जितम् ॥ ४॥
नीत्वा याति निजं ग्रामं कालंजरं तु वै द्रुतम् ।
गत्वा गृहेऽन्नवस्त्रादि मञ्जुषायां निधाय सा ॥ ५ ॥
यथापेक्षं भोजनादि पाचयत्येव भामिनी ।
तस्याः पुत्र्यभवत्त्वेका दशवर्षा कुमारिका ॥६॥
पतिस्तु निधनं प्राप्तः कुटुम्बं विद्यतेऽपि न ।
विधवा कटकर्त्री सा गंगाजनी सुधार्मिकी ॥ ७ ॥
रात्रौ भुक्त्वा करे कृत्वा मालामावर्त्तयत्यपि ।
कन्यका कुरुते गीतिं श्रीकृष्णरासरञ्जनीम् ॥ ८ ॥
विधवा शृणुते सम्यक् कृष्णसंलग्नमानसा ।
एवं गीत्युत्तरं निद्रां गृह्णीतो मातृपुत्रिके ॥ ९ ॥
नित्यमेवं हि कुरुतो भजनं श्रीहरेर्निशि ।
कदाचिद् रैवततीर्थं यातः कार्तिकमासि ते ॥4.31.१०॥
सतां च साध्विकानां च कुर्वाते सेवनं परम् ।
चमत्करान् गीयमानान् कृष्णनारायणस्य वै ॥११॥
शृणुतस्तेऽतिभावेन कुंकुमवापिकेशितुः।
असंख्यानां तु भक्तानां स्त्रीणां दिव्यचमत्कृतीः ॥१२॥
शृणुतः श्रीरमाराधाकमलानां चमत्कृतीः।
साधुसाध्वीभक्तवर्यगीतसद्गणसत्क्रियाः ॥१३॥
चमत्कारान् परचाँश्च शृणुतो भक्तिभावतः ।
विक्रमान् दयया दीनानाथोद्धारादिकानपि ॥१४॥
शृणुतो बहुधा तत्र प्रदक्षिणपथे मुहुः ।
पुत्री रमाञ्जनी हर्षं प्राप्य पप्रच्छ मातरम् ॥१५॥
मातर्गुणान् प्रगायन्ति सहस्रशोऽपि साधवः ।
अनादिश्रीकृष्णनारायणस्य परमात्मनः ॥१६॥
स भवेत् क्व मिलेद् वा न प्रभुः राधारमापतिः ।
दर्शनार्थं मनो मेऽत्र तीर्थे तमनुधावति ॥१७॥
यत्र वा स्यात् प्रगन्तव्यं कुंकुमवापिकास्थलीम् ।
सार्थक्यं तु तदा मे स्याद् दर्शनं मे प्रकारय ॥१८॥
अथ माता मुक्ततुल्या सद्विचारं विभाव्य वै ।
सन्तं नाम्ना सुरदेवायनं पप्रच्छ सर्वथा ॥१९॥
क्वाऽऽस्ते श्रीभगवान् कृष्णनारायणोऽत्र गीयते ।
साधुभिः साध्विकाभिश्च यात्रिकैर्यः प्रकीर्त्यते ॥4.31.२०॥
यच्चरित्राणि शृण्वन्त्याः कन्याया मे मनो गतम् ।
तत्प्रभुं प्रति यात्रार्थं मया गन्तव्यमित्यपि ॥२१॥
वद मे तन्महिमानं कीदृशो भगवान् स वै ।
कथं देवैः साधुवर्यैर्गीयतेऽयं स्थले स्थले ॥२२॥
राधापतिं कमलेशं विहाय माणिकीपतिम् ।
कीर्तयन्ति कथं साध्व्यस्तैर्थिक्यश्चाऽप्यसंख्यकाः ॥२३॥
विष्णुं रुद्रं वामनं वा दत्तात्रेयं नृसिंहकम् ।
विहाय रामं तं कृष्णंवल्लभाऽऽर्यं रटन्ति ताः ॥२४॥
मन्ये वैशेष्यमेवाऽस्मिन् भवेत्तन्मे निवेदय ।
इत्युक्तो बद्रिके साधुः सुरदेवायनस्तु ताम् ॥२५॥
जगादोपासनासिद्ध्यै वस्तुस्थितिं गरीयसीम् ।
शृणु त्वं तस्य माहात्म्यं गंगाञ्जनि ! वदामि ते ॥२६॥
अत्र दामोदरो देवो राजते रैवताचले।
वामनस्त्रिविक्रमः स बलिराजनिषेवितः ॥२७॥
भगवान् वर्तते तस्माच्छ्रेष्ठौ नरनरायणौ।
बद्रिकाश्रमवासौ तौ बद्र्या साकं विराजितौ ॥२८॥
हिमालये सुरगंगातीरावासौ तु तापसौ।
भगवन्तौ प्रजानां तु कल्याणार्थं विराजितौ ॥२९॥
ततोऽपि भगवान् श्रेष्ठः श्वेतद्वीपनिवासकृत् ।
नारायणः कमलायाः कान्तः श्रीदेवताधिपः ॥4.31.३०॥
ततोऽपि च प्रभुः श्रेष्ठः क्षीरसागरवासकृत।
शेषनारायणः श्रीशो वर्तते सिद्धसेवितः ॥३१॥
ततोऽपि भगवानास्ते श्रेष्ठो विष्णुः प्रभुः परः।
जलावरणतश्चोर्ध्वे वैकुण्ठे तु तृतीयके ॥३२॥
ब्रह्माण्डानां रक्षकः स सर्वेषां दैत्यनाशकृत् ।
ततोऽपि च महाविष्णुर्वर्तते भगवान् महान् ॥३३॥
वैराजस्य पिता वृद्धो श्रीपुराधीश्वरो हरिः।
महालक्ष्मीपतिर्हिरण्मयो राजाधिराजकः ॥३४॥
या सा तत्र महालक्ष्मीः सा क्षितौ कंभरासती।
वर्तते कुंकुमवाप्यां माता श्रीपरमात्मनः ॥३५॥
महाविष्णुः पिता चास्ते गोपालकृष्णनामवान् ।
तद्गृहे श्रीहरिश्चास्तेऽवतारी परमेश्वरः ॥३६॥
महाविष्णोः परश्चास्ते भूमाख्यः पुरुषः परः ।
'अव्याकृते शुभे धाम्नीश्वराणां न्यायदः प्रभुः ॥३७॥
ततः श्रेष्ठोऽस्ति भगवान् वासुदेवाऽभिधः प्रभुः।
अमृताख्ये निजे धाम्नि रमानाथो विराजते ॥३८॥
ततः श्रेष्ठतमः श्रेष्ठे वैकुण्ठे भगवान् प्रभुः।
लक्ष्मीनारायणश्चास्ते यन्नाम्ना संहिताऽस्ति च ॥३९॥
लक्ष्मीपतिः प्रभुः सोऽयं वर्तते भगवान् सदा ।
ततोऽपि च महानास्ते राधाकृष्णः परः प्रभुः ॥4.31.४०॥
असंख्यगोपिकाकान्तो गवां सेवापरायणः ।
गोलोके वंशिकाधृक् स भक्तकल्याणकृत् प्रभुः ।।४१
एवमन्यानि धामानि राजन्ते तत्र विंशतिः।
द्वे चान्ये कोटिशश्चापि साकेतादीनि सन्त्यपि ॥४२॥
तत्र तत्र कृतवासा अवतारास्तु मे मताः।
ततोऽप्यनन्ते चाऽपारे ब्रह्मलोकेऽक्षराभिधे ॥४३॥
धाम्नि संराजते व्याप्ते परब्रह्म स्वयं हरिः।
अवतारी परमेशः सर्वेशः पुरुषोत्तमः ॥४४॥
अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः।
सर्वावतारधर्ताऽसौ सर्वैश्वर्यसमन्वितः ॥४५।।
सर्वेषामवताराणां पतिर्मुक्तपतिः प्रभुः ।
मुक्तानिकापतिः सर्वश्रीपतिर्माणिकीपतिः ॥४६॥
सर्वस्वामी परब्रह्म यत्समो नाऽधिकोऽपरः ।
तस्याऽऽज्ञापालकाः सर्वेऽवताराः सन्ति धामसु ॥४७||
ईश्वराणामीश्वरः सः प्रभूणां स प्रभूत्तमः ।
भगवतां स भगवान् हरीणां परमो हरिः ॥४८॥
कृष्णानां परमः कृष्णो रामाणां राम उत्तमः।
नृसिंहानां नरसिंहः परमः स परेश्वरः ॥४९॥
सर्वात्मनां परमात्मा श्रीशानां श्रीश्वरेश्वरः।
परमात्मा स सर्वेषां त्रिसृष्टिपरमात्मनाम् ॥4.31.५०॥
ब्रह्मणां स परब्रह्म परेषां ब्रह्मणामपि ।
परमो ब्रह्मराट् श्रीमत्कृष्णनारायणः स वै ॥५१॥
अनन्ताः सृष्टयस्तस्याऽवताराश्चाप्यनन्तकाः ।
अनन्ताः शक्तयस्तस्याऽसंख्यपत्न्यश्च तस्य वै ॥५२॥
सर्वं यस्य शरीरं वै भोग्यं जडं च चेतनम् ।
तस्याऽक्षरब्रह्मणः स भोक्ता नेता प्रभुः पतिः ॥५३॥
अक्षरातीत एवाऽसौ कार्ष्णीनां कान्त एकलः ।
जीवसृष्टिरीशसृष्टिर्ब्रह्मसृष्टिस्तु यत्कृता ॥५४॥
यन्निमिषे भवन्त्येव लीयन्ते निमिषाच्च वै।
धामसृष्टय एवाऽस्य संकल्पाधीनविग्रहाः ॥५५॥
अवतारा भगवन्तश्चास्य संकल्पमूर्तयः ।
साध्व्यश्चास्य शक्तयश्च सर्वा वै पावनीस्त्रियः ॥५६॥
साधवस्तु समस्तान्यैश्वर्याण्यस्य भवन्ति वै।
एतादृशोऽयं भगवान् सर्वेषां ब्रह्मणां पतिः ॥५७॥
अनादिश्रीकृष्णनारायणः श्रीकान्तवल्लभः ।
सौराष्ट्रे बालको भूत्वा बालकृष्णो हि वर्तते ॥५८॥
श्रीमद्गोपालकृष्णस्य गृहे श्रीकंभरात्मजः।
यन्मूर्तेर्नेत्रजात्तेजःकिरणात् सर्वसृष्टयः ॥५९॥
तेजस्विन्यः प्रवर्तन्ते सूर्यचन्द्राग्निविद्यतः।
यच्छ्वासाद् देहिनः सर्वे वर्तन्ते प्राणधारिणः ॥4.31.६०॥
यद्विधारणशक्त्या वै ब्रह्माण्डगोलकान्यपि ।
अम्बरे सम्प्रवर्तन्ते व्यवस्थितानि सर्वदा ॥६१॥
यदाज्ञप्ता महामाया त्रिगुणा सृष्टिवर्धिनी ।
सर्वेषां पूरिका सौख्यकर्त्री सदा प्रवर्तते ॥६२॥
यदिच्छया समुद्राश्च मेघा जलं ददत्यपि ।
यदिच्छया तु पृथिवी भूताधारा सदा मता ॥६३॥
यः स कृष्णपतिः कृष्णनारायणो हृदन्तरे ।
अन्तर्यामी तु सर्वेषां वर्तते साक्षिदर्शकः ॥६४॥
इन्द्रियेषु हरिश्चास्ते तथाऽन्तःकरणेष्वपि ।
देहेषु : पञ्चभूतेषु स आस्ते पुरुषोत्तमः ॥६५॥
आत्मसु चेतनेष्वेव गुणेषु – कर्मकोटिषु ।
भावनासु हरिः सोऽयमास्ते श्रीपुरुषोत्तमः ॥६६॥
नारीषु नरवर्गेषु नपुंसकेषु स प्रभुः।
कन्यासु . साधुसाध्वीषु वृद्धासु युवतीष्वपि ॥६७॥
विज्ञेषु च विचित्तेषु पशुपक्षिद्रुमादिषु ।
देवदैत्यासुरवृन्दे चास्ते स पुरुषोत्तमः ॥६८॥
रैवताद्रौ स एवास्ते जनसंघेषु चापि सः ।
कुंकुमवापिकाक्षेत्रे चाश्वपट्टसरोवरे ॥६९।।
स एवास्ते परब्रह्म कोट्यर्बुदाब्जशक्तिपः।
कृत्वा प्रदक्षिणं तत्र गमिष्यामो वयं तदा ॥4.31.७०॥
आगन्तव्यं त्वया मातः सहाऽस्माभिः सकन्यया ।
अनादिश्रीकृष्णनारायणस्य परमेशितुः ॥७१॥
प्रत्यक्षं दर्शनं सेवां करिष्यामः स्वयंप्रभोः।
इत्युक्ता सा भागवती गंगाञ्जनी सतां पुरः ॥७२॥
दासीव वर्तमाना च किंकरीव व्यवर्तत ।
कार्तिकस्य पूर्णिमाया उत्तरं साधवश्व ते ॥७३॥
साध्व्यश्च जनसंघाश्च भक्ताश्च कोटिशोऽपि च ।
ययुश्चाश्वपट्टसरोऽक्षरक्षेत्रं तु पावनम् ॥७४॥
कुंकुमवापिकातीर्थं लोमशस्याश्रमं प्रति ।
अश्वपट्टसरोवारि पपुस्ते स्नानमाचरन् ॥७५॥
कृत्वा तीरस्थतीर्थानि लोमशस्याश्रमं ययुः।
महर्षेर्दर्शनं कृत्वा पूजयित्वा ऋषीन् मुनीन् ॥७६॥
आपुर्विश्रान्तिमपि ते विशालवनराजिषु ।
लोमशेन प्रदत्तो वै मन्त्रस्तेभ्यो हि पावनः ॥७७॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा।
साधुभ्यश्चापि साध्वीभ्यः सेविकाभ्यस्तथा तदा ||७८॥
पुंभ्यश्च यात्रिकेभ्यश्च ददौ मन्त्रं तु लोमशः ।
गंगाञ्जन्यै रमाञ्जन्यै ददौ मन्त्रं तदा ऋषिः ॥७९॥
ययुस्तेऽथ ततः श्रीमत्कृष्णनारायणालयम् ।
पूजनं दर्शनं चक्रुर्न्यधुश्च विविधोपदाः ॥4.31.८०॥
पुष्पचन्दनपत्राद्यैः फलैरम्बरभूषणैः ।
अक्षतैर्मणिरत्नाद्यैरर्हयामासुरच्युतम् ॥८१॥
बालकृष्णं रूपवन्तं परमेशं परात्परम् ।
विलोक्य मुमुहस्तत्र ध्यानमग्नास्तदाऽभवन् ।।८२॥
आसक्तचित्ता नार्यश्च नरास्तु लग्नमानसाः ।
अभवन् श्रीपरमेशे जन्मसाफल्यमाप्नुवन् ।।८३॥
बहवस्तत्र देहाँश्च विवृत्त्य दिव्यविग्रहान् ।
  लब्ध्वा दिव्यविमानैश्च ययुः स्वर्गं तु शाश्वतम् ॥८४॥
परे ययुश्चाऽक्षरं च धाम मुक्ताः परात्परम् ।
नार्यः कृष्णे लग्नचित्ताः साध्व्यश्च दिव्यविग्रहाः ॥८५॥
आषोडशवत्सराढ्या ययुर्धामाऽक्षरं हरेः।
गंगाञ्जनी दिव्यदेहा लीनजर्जरविग्रहा ॥८६॥
भूत्वा षोडशवर्षाढ्या ययौ धामाऽक्षरं प्रभोः ।
रमाञ्जनी सुता तस्या मात्राज्ञया हरेः पुरः ॥८७||
कुंकुमवापिकाक्षेत्रे कृष्णनारायणगृहे ।
दासीव वर्तमाना सा किंकरीव सदाऽवसत् ।।८८॥
एवं बद्रीप्रिये : कृष्णनारायणेन वै तदा ।
चमत्कारो दर्शितो वै नीताः सहस्रशोऽक्षरम् ॥८९॥
अपि साध्व्यः साधवश्च तथा कर्तुं हि पारगाः ।
तर्हि नारायणे कृष्णे किमु वक्तव्यमच्युते ॥4.31.९०॥
यत्र सन्तश्च साध्व्यश्च यत्र सर्वेश्वरः प्रभुः ।
तत्र माया समर्था न न कालो न च कर्म च ॥९१॥
नैव प्रभवो नियमा न शास्त्रं न नृपादयः ।
न देवा नाऽवताराश्च समर्थाः श्रीहरेः पुरः ॥९२॥
कर्तुं तथाप्यकर्तुं चान्यथाकर्तुं स्वयं हरिः।
समर्थश्च स्वतन्त्रश्च नियामकोऽधिराजकः ॥९३॥
तत्कृतं नाऽन्यथाकर्तुं केनापि शक्यते क्वचित् ।
अन्यकृतं त्वन्यथाकर्तुं स समर्थ एकलः ॥९४॥
तमनादिकृष्णनारायणं कान्तमवाप्य सा।
रमाञ्जनी रमातुल्या ब्रह्मप्रिया ततोऽभवत् ॥९५॥
दिव्या दिव्यस्वरूपाढ्या दिव्यदेहाऽतिसुन्दरी ।
चमत्कारपरा साध्वी ब्रह्मप्रिया हरेः प्रिया ॥९६॥
एवं बद्रीप्रिये ! लोके साक्षात्कृष्णसमागमात् ।
शौचहीना अपि नार्यो नित्यशुच्यो भवन्ति हि ॥९७॥
यस्य योगेन मायाऽपि दिव्या प्रजायते सदा ।
तदा किं मायिकानां तु देहानां गणना हरेः ॥९८॥
तेजोयोगेन सर्वं वै तेजोभावमुपैति हि ।
कृष्णयोगेन सर्वं वै कृष्णभावमुपैति हि ॥९९॥
गोप्यो गावो राशियान्यः प्राचीन्यः पर्य इत्यपि ।
 हारीतक्यस्तथाऽमर्यश्चाब्रिक्तान्यस्तथोष्णिजाः ॥१००॥
अन्या असंख्ययोगिन्यो जाताः कृष्णार्पिता रमाः ।
इत्येवं बद्रिके यान्ति दिव्यतां कटिनी यथा ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कटकर्त्र्या गङ्गाञ्जन्याः सतां योगेन परमेशयोगान्मोक्षणं रमाञ्जन्या रमात्वं चेत्यादिनिरूपणनामैकत्रिंशोऽध्यायः ॥ ३१ ॥