लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०२५

विकिस्रोतः तः
← अध्यायः २४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः २५
[[लेखकः :|]]
अध्यायः २६ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि ततः कृष्णनरायणः ।
पुनः स्वरूपयोगं स्वं सुभक्ताय त्वुपादिशत् ।। १ ।।
स्वरूपं श्रीकृष्णनारायणं मानवविग्रहम् ।
आश्रित्य वर्तते यस्तु तस्य मोक्षोऽस्ति सर्वथा ।। २ ।।
परेऽक्षरे राजमानो राजाधिराज ईशपः ।
अवताराऽवतारी यः सोऽहं श्रीकृष्ण एव हि ।। ३ ।।
अनन्तवासुदेवानां वासुदेवोत्तमोऽस्म्यहम् ।
अनन्तश्रीकृष्णनारायणनारायणोत्तमः ।। ४ ।।
अनन्तानां भगवतां भगवानुत्तमोत्तमः ।
अनन्तानां पुरुषाणामस्म्यहं पुरुषोत्तमः ।। ५ ।।
अनन्तानामक्षराणामक्षरोत्तमशासकः ।
अनन्तानां च मुक्तानां मुक्ताऽधिपाऽधिपोऽस्म्यहम् ।। ६ ।।
असंख्यानां पार्षदानां पार्षदेशेश्वरोऽस्म्यहम् ।
असंख्यानां च शक्तीनां महाशक्तीश्वरोऽस्म्यहम् ।। ७ ।।
दिव्यमुक्तानिकानां च महामुक्तानिकेश्वरः ।
समस्तसाधुसाध्वीनां श्रेष्ठसाधूत्तमोऽस्म्यहम् ।। ८ ।।
असंख्यानां विभवानां महाविभूत्तमोऽस्म्यहम् ।
अनन्तांऽशांऽशरूपाणामंशी चास्मि परः पुमान् ।। ९ ।।
अनन्ताऽऽवेशकर्ताऽहं महावेशेश्वरोऽस्म्यहम् ।
असंख्याधिकलानां च कलेश्वरोऽस्म्यहं प्रभुः ।। 4.25.१ ०।।
विभूतीनामसंख्यानां महाविभूतिपोऽस्म्यहम् ।
माणिक्याललिताराधारमादीनां परः पतिः ।। ११ ।।
सतां पतिश्चाऽक्षरेशश्चाऽक्षरातीत आत्मपः ।
आत्मेशः सर्वसृष्टीनां पालकानां नियामकः ।। १ २।।
सच्चिदानन्दरूपोऽस्मि सदा दिव्योऽतिसुन्दरः ।
दिव्यमूर्तिश्चैकतत्त्वात्मकोऽसंख्यसुखान्वितः ।। १ ३।।
मोदप्रमोदानन्दानामाश्रयोऽस्मि महानहम् ।
उत्सवानां समस्तानां प्रकाशकोऽस्मि पावनः ।। १४।।
समस्तानाममृतानां सागरोऽस्मि सुधाभृतः ।
मिष्टातिमिष्टमिष्टानां रसानामस्मि शेवधिः ।। १५।।
आकर्षणानां दिव्यानां महाकर्षणमूर्तिमान् ।
आनन्दमूर्छनानां च सदाऽस्म्यानन्दमूर्छनः ।। १ ६।।
सर्वदिव्यप्रसादानां प्रसन्नतादिवारिधिः ।
सर्वलावण्यसुखवान् सर्वमाधुर्यसंभृतः ।। १७।।
सर्वरम्यप्रसंगानां प्रसञ्जकोऽस्मि माधवः ।
यावन्मनोरथानां च पूरकोऽस्मि तृषाहरः ।। १८।।
सर्वासां चापि तृप्तीनां तृप्तिदाताऽस्मि तर्पणे ।
सन्तोषाणां समस्तानां तुष्टस्तोषप्रदोऽस्मि च ।। १९।।
प्रेम्णां च यावतां प्रेमप्रदोऽस्मि प्रेमभूः प्रभुः ।
स्नेहानां स्निग्धभावनां स्नेहपूर्णो भवाम्यहम् ।।4.25.२० ।।
आसक्तीनां समस्तानामासक्तिपतिरस्म्यहम् ।
शर्कराणां च मिष्टानां पीयूषमधुदोऽस्म्यहम् ।।।२१।।
शीतलानां सुखानां च विशेषः शीतसौख्यदः ।
उष्णानां च महानन्दप्रदानामुष्णसौख्यदः ।।२२।।
शृंगाराणामसंख्यानां शृंगाररसदोऽस्म्यहम् ।
स्वादानां च समस्तानां महास्वादभरोऽस्म्यहम् ।।२३।।
आश्लेषाणां महानन्दभरोऽस्म्यहं प्रमीलने ।
चूम्बनानां समस्तानां सकम्पानन्ददोऽस्म्यहम् ।।२४।।
स्नेहाश्रूणां वाहकोऽस्मि प्रेमरोमोद्गमोऽस्म्यहम् ।
पुलकानां विचित्राणां प्रपुलकोऽपि सर्वथा ।। २५।।
मोहानां च समस्तानां मुग्धतासंभृतोऽस्म्यपि ।
शयनानां सुषुप्तीनां विश्रान्तीनां विरामदः ।।२६।।
आरामाणां महारामो रामोऽस्मि रमतामहम् ।
रमणोऽस्मि सकामानां कामोऽस्मि कामिनामपि ।।२७।।
रतिश्चास्मि रतानां च शान्तिश्च सिद्धयोगिनाम् ।
पुष्टिश्चास्मि प्रपुष्टानां बलिनां बलमुत्तमम् ।। २८।।
आत्मबलं समस्तानामस्म्यहं निर्भयत्वदम् ।
सुरभिः सौरभाणां च पुष्पमस्मि च् पुष्पिणाम् ।।२९।।
फलं चास्मि च फलिनां धातुर्धातुमतामहम् ।
सुवर्णश्चाऽस्मि वर्णानां रूपिणां रूपमस्म्यहम् ।।4.25.३ ०।।
सुकण्ठीनां मिष्टकण्ठः सुस्वराणां स्वरोऽस्म्यहम् ।
गीतीनां मधुरा गीतिर्नृत्यानां चैकतानता ।।३ १ ।।
हावो भावस्तथा चेष्टा चिह्नं चास्मि समस्तगः ।
संयोगोऽस्मि धृतिश्चाऽस्मि वृषोऽस्मि सत्त्ववानपि ।।३२।।
आकांक्षाऽस्मि समस्तानां मर्यादाऽस्मि च देहिनाम् ।
आश्चर्याणां समग्राणामाश्चर्यमस्मि सर्वगम् ।।३३।।
कौतुकानां समस्तानामस्म्यहं कौतुकोत्तमः ।
निर्वृत्तीनां रमणीनां क्रियानिर्वृत्तिरस्म्यहम् ।।३४।।
सर्वविधानां केलीनां केलिचातुर्यवानहम् ।
योगानां च समस्तानां शाश्वतानन्दयोगदः ।।३५।।
रागाणां चापि सर्वेषां राग्यहं रञ्जनार्थकृत् ।
शोभानां यावतीनां च शोभनोऽहं सुभासुरः ।।३६।।
मदानां मादकश्चाऽहं भोग्यानां भोगवर्धनः ।
आभोगानां महाभोगस्वरूपोऽस्मि प्रभोगिषु ।।३७।।
द्रवाणां यावतां चास्मि स्नेहद्रवात्मकः प्रभुः ।
वात्सल्यानां वत्सलता नैसर्गिकी भवाम्यहम् ।।३८।।
चुम्बकानां समस्तानां पिण्डचुम्बकवानहम् ।
आन्तराणां प्रहर्षाणां महाप्रहर्षणोऽस्म्यहम् ।।३९।।
समस्तानां प्रहास्यानां मन्दहास्यं भवाम्यहम् ।
कटाक्षाणां चेङ्गितानां कटाक्षेङ्गितवानहम् ।।4.25.४०।।
हार्दानां चान्तराणां च महाहृदयवानहम् ।
प्रकर्षणानां सर्वेषां महाप्रकर्षणोऽस्म्यहम् ।।४१ ।।
श्रेष्ठानां च वरिष्ठानां श्रेष्ठवरेण्यधर्म्यहम् ।
प्रवराणां वराणां च प्रवरो वरदोऽस्म्यहम् ।।०८२।।।
व्यापकानामम्बराणां महाव्यापकताऽस्ति मे ।
कल्लोलानां च खेलानां प्रखेलकोऽस्मि तद्गतः ।।४३।।
उल्लासानां विलासानां समुल्लासो विलासकृत् ।
भावनानां च भावानां महाभावनयाऽन्वितः ।।४४।।
निवासानां च वासानां वासनानां वसानकः ।
प्रस्थानाभिमुखानां च प्रभवाम्यवसानकृत् ।।४५।।
पारितोषिकवर्याणामुपदानां च तोषणम् ।
स्वागतानां च मानानां मानदोऽस्मि पिता प्रभुः ।।४६।।
प्रपन्नानां चाश्रयदो महाधारोऽस्मि नाथवत् ।
अनाथानां सुनाथोऽस्मि धवोऽस्मि धविनीगणे ।।४७।।
सौभाग्यानां तु सर्वेषां महासौभाग्यचन्द्रवान् ।
सम्पदां च विपुलानां सम्पत्तिरस्मि शाश्वती ।।४८।।
ऋद्धीनां परमर्द्धिश्च लाभानां चात्मलाभदः ।
प्रसेवानां चांऽगसेवास्वरूपोऽस्मि समर्पणे ।।४९।।
शुश्रूषाणां चानुवृत्तिरस्म्यहं साधुवृत्तिता ।
साधुता च क्षमा दैन्यं त्यागिनामस्मि मत्तता ।।4.25.५०।।
शीलधर्मः समस्तेषु वीर्यं वीर्यवतामहम् ।
अस्मि रूपं च योषासु पुंसु श्मश्रुर्भवाम्यहम् ।।५१ ।।
वध्वा अलक्तकश्चाऽस्मि मन्थरा च पदोः गतिः ।
चाञ्चल्यं नवसंयोगाद् भवामि च निसर्गजम् ।।५२।।
आनुकूल्यं देहिनां चोपकारिणां भवाम्यहम् ।
अनुग्रहो दया कारुण्यं हितं चास्मि साधुषु ।।५३।।
जयो जयिनां मूर्धन्यो विद्या चात्मविदामहम् ।
तर्कः सर्वज्ञकल्पानां कवीनां काव्यमस्म्यहम् ।।५४।।
वल्लभता वल्लभानां कूजनं मन्त्रवेदिनाम् ।
स्तवनं स्तावकानां च भवामि मिषतां मिषः ।।५५।।
लग्नता लग्निनामस्मि ग्रन्थिश्च ग्रथ्नतामपि ।
निसर्गोऽस्मि निसर्गिस्थस्तानस्तानवतामहम् ।।।९६।।
निकामदेव जानीहि चेतनानां तु चेतनः ।
अस्म्यहं सर्वसाक्षीति प्रवर्तको निवर्तकः ।।५७।।
सर्वकर्मफलदाता सूक्ष्मः सूक्ष्माऽसुजीविनाम् ।
स्थूलश्चास्मि च स्थूलानां दृश्योऽस्मि नेत्रिणां सदा ।।५८।।
अदृश्योऽस्मि दिव्यनेत्रविहीनानां तु देहिनाम् ।
गोचरोऽस्मि मदर्थानां दूरेऽस्मि द्वेषिणामपि ।।५९।।
जीवनं सर्वसत्त्वानां जडानामस्मि चास्तिता ।
योषितां नाभिपद्मेऽस्मि नराणामस्मि नृत्वके ।।4.25.६०।।
देवानां चाऽमृते ह्यस्मि पितॄणां पुण्यसञ्चये ।
ऋषीणां ब्रह्मभावेऽस्मि मानवानां नयेऽस्मि च ।।६१ ।।
शूराणां योधने चास्मि विदुषां बहुवेदने ।
सतीनां सत्यधर्मेऽस्मि वधूनां पतिदैवते ।।६२।।
पत्नीनां पातिव्रत्येऽस्मि पुत्राणां पितृसेवने ।
धनिनां दानभावेऽस्मि राज्ञां धिष्ण्ये वसाम्यहम् ।।६३।।
अप्सरसां चाननेऽस्मि गान्धर्वाणां तु गायने ।
नर्तकीनां नृत्यकार्ये सभायां च सभापतौ ।।६४।।
कथायां व्यासदेवेऽस्मि मखेऽनलेऽस्मि सर्वथा ।
युद्धे जये स्थितश्चास्मि नीतावस्मि समुद्यमे ।।६५।।
दुग्धे गवादिपशूनामस्मि गुन्द्रे तु शाखिनाम् ।
संस्कारे द्विदलादीनामस्मि भिक्षुकभिक्षिते ।।६६।।
मन्दिराणां मध्यदेशे भवनानां तु गोपुरे ।
ग्रामाणां चत्वरे चास्मि नगराणां नयालये ।।६७।।
अरण्येषु पिप्पलेऽस्मि देहल्यां तु गृहे गृहे ।
तुलस्यां वैष्णवस्थल्यां वैष्णवेऽस्मि वनेऽपि च ।।६८।।
तीर्थेषु सत्सु वर्तेऽहं पृथ्व्यां भक्तालयेऽस्मि च ।
कालेषु ब्राह्मकालेऽस्मि सायं चारार्त्रिकेऽस्मि च ।।६९।।
नक्षत्रेऽस्मि जयन्त्यादौ बिम्बेऽस्मि श्रेष्ठपूजने ।
सर्वमित्रेऽस्मि मनुजे शास्त्रेऽस्मि मत्कथान्विते ।।4.25.७०।।
धर्मेऽस्मि ब्रह्मचर्येऽहं श्रद्धायामस्मि दातरि ।
भाग्यवतां पुरश्चाऽस्मि दुर्भाग्यानां तु पृष्ठतः ।
अधश्चास्मि तु पापानामूर्ध्वमस्मि दिवौकसाम् ।।७१ ।।
आत्मनिवेदिनामस्मि देहेन्द्रियान्तरात्मसु ।
विप्राणां वचने चास्मि मायायां सात्त्विके गुणे ।।७२।।
अन्यायानां भयं चास्मि शिक्षाऽस्मि शास्यवर्गिणाम् ।
वादानां निर्णयश्चास्मि फलव्याप्तोऽस्मि सर्वथा ।।७३ ।।
सजातीनां प्रवाहेऽस्मि चानुपूर्व्यां तु वाङ्मये ।
विशिष्टं चाऽक्षरं ब्रह्म तत्राऽद्वैतो वसाम्यहम् ।।७४।।
अतो विशिष्टब्रह्माऽद्वैतात्मकोऽहं परेश्वरः ।
निकामदेव मां यस्तु जानीयात् सुस्वरूपिणम् ।।७९।।
श्रीकृष्णं वल्लभं चार्यं स्वामिनं बालकृष्णकम् ।
मुक्तिं गच्छेन्न सन्देहो मद्विज्ञो न प्रणश्यति ।।७६।।
श्रीनिकामदेव उवाच-
कथं विशिष्टब्रह्माद्वैतात्मकस्त्वं विबुध्यसे ।
संक्षेपान्मे कथयस्व सर्वस्वामिन्नरायण ।।७७।।
श्रीकृष्णनारायण उवाच-
विशेषणं स्थूलमाया सर्वकार्यात्मिका तु या ।
विशेषणं सूक्ष्ममाया साम्यावस्था गुणत्रयम् ।।७८।।
ताभ्यामचेतनाभ्यां तु विशिष्टं ब्रह्म चाक्षरम् ।
अन्तःस्थं व्यापकं चास्ति विशिष्टे ते ह्युभेऽक्षरे ।।७९।।
विशेषणं स्थूलात्मानः सर्वकर्मफलाशनाः ।
विशेषणं सूक्ष्मात्मानः कर्मफलादिवर्जिताः ।।4.25.८०।।
ताभ्यां वै चेतनाभ्यां तु विशिष्टं ब्रह्म चाऽक्षरम् ।
अन्तःस्थं व्यापकं चास्ति विशिष्टे ते ह्युभेऽक्षरे ।
अक्षरं त्वेकमेवाऽस्ति द्वितीयेन विवर्जितम् ।।८ १ ।।
ब्रह्माभिधं धाम दिव्यं परब्रह्मपरात्मनः ।
प्रकाशाख्यं सच्चिदानन्दात्मतेजोमयं सदा ।।८२।।
तदेकं तु चतुर्धाऽत्र विशेषणैर्विशेषितम् ।
विशिष्टयोर्विशिष्टयोरद्वैतं ब्रह्मधाम तत् ।।८३।।
विशिष्टाद्वैतमुक्तं मे धामाऽक्षराभिधं द्विज ।
जडेषु चेतनेष्वेव सर्वावस्थासु सर्वथा ।।८४।।
राजते चाऽक्षरं ब्रह्म सर्वाश्चर्यसमन्वितम् ।
तत्र विशिष्टाद्वैते वै धाम्न्यक्षरे विराजते ।।८५।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
यः सोऽहं त्वेक एवाऽस्मि तुल्याधिकविवर्जितः ।।८६।।
अद्वैतोऽस्मि न स्वो द्वौ वै परमेशौ कदाचन ।
अतो विशिष्टाऽद्वेताऽद्वैतोऽहं श्रीपरमेश्वरः ।।८७।।
परब्रह्माऽक्षरातीतः सर्वात्माऽक्षरब्रह्मगः ।
विशिष्टं चाऽक्षरं ब्रह्माऽद्वैतं तत्राऽस्मि चैकलः ।।८८।।
मद्विशिष्टं ब्रह्म सर्वजडचेतनगं मतम् ।
एवं चाऽस्मि सदा विप्र व्यापिनो व्यापकोऽप्यहम् ।।८९।।
एतत्ते कथितं तत्त्वं मम स्वरूपवेदने ।
सोऽहं मूर्तोऽस्मि सर्वत्राऽक्षरे मूर्तेऽपि तेजसि ।।4.25.९० ।।
अक्षरं ब्रह्म मद्युक्तं सर्वत्राऽस्ति द्विजोत्तम ।
सृष्टित्रयं चाऽक्षरेऽस्ति विशेषणतयाऽन्वितम् ।।९ १ ।।
अक्षरे सन्ति मुक्ताश्च धामान्यन्यानि सन्त्यपि ।
तद्धाम च समर्थं मद्योगेन मूर्तिमत् तथा ।।९२।।
सेवायां वर्तते चापि मुक्तेश्वरं हि मन्निभम् ।
मत्सारूप्यं भजमानं सर्वाधारमपि ध्रुवम् ।।९३।।
पुमान्नक्षरपुरुषः सोऽयं ब्रह्मपुमान् स्वयम् ।
तदेव व्यापकं दिव्यं भूमिका तैजसी सदा ।।९४।।
तत्प्राविर्भूतभोग्यादि भोगोपकरणान्यपि ।
भोगाश्च सम्पदः सर्वा विद्यन्ते तत्र सर्वशः ।।९५।।
यदाधारा यत्प्रपोषा यदृद्धिमन्त इत्यपि ।
मुक्ताः सर्वे वसन्त्येव मुक्तानिकाश्च धामनि ।।९६।।
मम मूर्तेः सुयोगेन पूर्णं चाऽखण्डमक्षरम् ।
अव्ययं शाश्वतं धाम तत्र वासो हि मोक्षणम् ।।९७।।
निकामदेव मे योगात् त्वं गतोऽसि तदक्षरम् ।
यत्राऽहं तत्र वै धामाऽक्षरं नित्यं हि विद्यते ।।९८।।
सा भूश्च सम्पदः सर्वा भवन्त्यत्र मयि प्रभौ ।
कुंकुमवापिकाक्षेत्रं धामाऽक्षरं त्विहास्ति वै ।।९९।।
अनादिश्रीकृष्णनारायणःश्रीवल्लभः प्रभुः ।
अक्षरस्थो विराजेऽत्र सर्वेशस्ते सुतापतिः ।। 4.25.१०० ।।
मम योगेन मोक्षेऽसि गन्तव्यं ते न विद्यते ।
मम साक्षात्प्रसंगोऽत्राऽक्षरे मोक्षप्रदस्तव ।। १०१ ।।
सदा त्वं मम मुक्तोऽसि पश्य दिव्यं निजं गृहम् ।
इत्युक्त्वा श्रीकृष्णनारायणस्तं चाऽक्षरं पदम् ।। १ ०२।।
दर्शयामास सहसा मुक्तं निकामदेवकम् ।
मुक्तानिकां तथा सुरेश्वरीं दिव्यां तु शाश्वतीम् ।। १ ०३।।
बद्रीप्रियां बालयोगिनीं च पद्मावतीसतीम् ।
माणिकीं हरिपत्नीं स प्रदर्श्याऽभावयत्तिरः ।। १ ०४।।
बद्रिके त्वं सैव चास्से या तत्र बालयोगिनी ।
माणिक्यवर्णा श्रीकृष्णनारायणस्य वाहिनी ।। १ ०५।।
पृथ्व्यां सा माणिकी वाहा वडवाऽभवदच्युता ।
ब्रह्मप्रभावती युक्ता या जयाललितात्मिका ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने परब्रह्मस्वरूपयोगनिरूपणं विशिष्टब्रह्माऽद्वैतात्मकपरब्रह्मविवेचनं चेत्यादिनिरूपणनामा पञ्चविंशोऽध्यायः ।। २५ ।।