सामग्री पर जाएँ

रसरत्नाकरः (मूलप्रतिसहितः)

विकिस्रोतः तः
रसरत्नाकरः (मूलप्रतिसहितः)
शिवरामत्रिपाठी
१९३०

रसरत्नहारः। विष्णोश्चरणारविन्दनखेषु स्वीयं प्रतिबिम्बं निरीक्ष्य दशावतारादप्यस्माद्विष्णोः स्वाधिक्यं मन्यमाना लक्ष्मीर्विदुषां सुखाय आ साकल्येन स्ताद्भवतु । विष्णोः पादसेवनं कुर्वाणा लक्ष्मीः पादनखेषु दशसु स्वीयं प्रतिबिम्बमीक्षमाणा । एकादशमात्मानं ज्ञात्वा विष्णोराधिक्यं मन्यमानेति भावः । स्त्रीखभावादियत्येव धीः समुत्पन्ना न साम्यपर्यन्तम् । यद्वा भगवतां तिर्यगादिषु योनिषु जन्म विडम्बयता दशावतारता संपादिता । मया तु वक्षस्थलस्थितयैव स्वरूपादप्रच्युतया चेति स्वाधिक्यं मन्यमानेति भावः ।। उद्भथ्यते सर्व विचक्षणानां प्रीत्यै मयायं रसरत्नहारः । गुणैरुपेतोऽखिललब्धवर्णकण्ठस्थितः स्याद्विदितो दिगन्ते ॥ २ ॥ सर्वविचक्षणानां प्रीत्यै मयायं रसरत्नहार उद्भथ्यते । गुणैरुपेतः । अखिललब्धवर्णक- ण्ठस्थितो दिगन्ते विदितः स्यात् । आशीरलंकार । 'आशीर्नामाभिलषिते वस्तुन्याशं- सनं यथा' इति दण्डी ॥ स्यात्स्थायिभावोऽत्र रसो विभावैस्तथानुभावैर्व्यभिचारिभिश्च । आरोप्यमाणः क्रमशः प्रकर्षं यथोचितैः सात्त्विकसंयुतैश्च ॥ ३ ॥ स्थायी चासौ भावश्च स्थायिभावः । 'भावो विकाश्चित्ते स्यान्निर्विकल्पे य आदिमः' इति । अमरसिंहोऽपि 'विकारो मानसो भावः' इति । विभावैरनुभावैर्व्यभिचारिभिर्यथा- योग्यैः सात्त्विकैश्च संयुतैः क्रमशः प्रकर्षमारोप्यमाणो रसः स्यात् । तथा च भरतसूत्रम्--- 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति । 'विभावैरनुभावैश्च सात्त्विकैय॑भि- चारिभिः । आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥' इति । वक्ष्यमाण स्वभा- वैर्विभावानुभावव्यभिचारिसात्त्विकैः काव्योपात्तैरभिनयोपदर्शितैर्वा श्रोतृप्रेक्षकाणामन्त- र्विपरिवर्तमानो रत्यादिर्वक्ष्यमाणलक्षणः स्थायी स्वााद्गोचरतां नीयमानो रसः । तेन रसिकाः सामाजिकाः । काव्यं तु तथाविधानन्दसंविदुन्नीलनहेतुभावेन रसवत् । 'आयु- र्घृतम्' इत्यादि व्यपदेशवत् । स्थायिलक्षणं दशरूपके-विरुद्धैरविरुद्धैर्वा भावैर्विंच्छिद्यते न यः। आत्मभावं नयत्यन्यान्स स्थायी लवणाकरः ॥ इति । यदुक्तम्-'विरुद्धा अविरुद्धा वा यं तिरोधातुमक्षमाः । आनन्दाङ्कुर कन्दोऽसौ भावः स्थायिपदास्पदम् ॥ इति । तटस्थ उद्दीपयते रसं य उद्दीपनाख्यः स भवेद्विभावः । रसस्य कार्यं ह्यनुभावसंझं ज्ञेयाः सहाया व्यभिचारिणोऽत्र ॥ ४ ॥ "अनुभावो विकारस्तु भावसंसूचनात्मकः ।' स्थायिभावाननुभावयन्तः सामाजिका- न्भ्रूक्षेपकटाक्षादयो रसपोषकारिणोऽनुभावा व्यभिचारिणः । 'विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारिधौ ॥ यथा वारिधौ सत्येव कल्लोला उद्भवन्ति विलीयन्ते च तद्वदेव रत्यादौ स्थायिनि सत्येवाविर्भावतिरोभा- १. 'उद्दीपनाख्योऽय' क. १२० काव्यमाला। वाभ्यामाभिमुख्येत चरन्तो वर्तमाना निर्वेदादयो व्यभिचारिणो भावाः ॥” इति दशरूपके ॥ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। रौद्रवीभत्सशान्ताख्याः काव्ये नव रसाः स्मृताः ॥ ५ ॥ ननु नव रसा इत्यनुपपन्नम् । शृङ्गारस्य लोके आस्वाद्यतायाः सर्वानुभवसिद्धत्वा- स्काव्ये गुणालंकारयोगेनाधिकाखादगोचरतया रसत्वं युक्तम् , नेतरेषामिति केषांचित्सि- द्धान्त एव । तद्भिन्नमतेनेयं संख्योक्तिः । नन्वेवमपि नवरसा इत्यनुपपन्नम् । भक्तिवा- त्सल्यश्रद्धाख्यैत्रिभिः सह द्वादशसंख्यात्वात् । तत्र भक्तिर्भगवति प्रसिद्धा । श्रद्धाप्या- स्तिक्यनिश्चयात्मिका वेदशास्त्रार्थविषया शिष्टानांप्रसिद्धैव । वात्सल्यं पुत्रादौ स्नेहाभि- धानमिति चेत्, न । भक्तिवात्सल्ययोर्भावान्तर्भावात् , श्रद्धायाश्च सुखात्मकत्वाचमत्का- रानुत्पादान्तरसत्त्वमिति नवसंख्योक्तिर्न विरुद्धा । दशरूपके-'प्रीतिभक्तयादयो भावा मृगयाश्चादयो रसाः । हर्षोंत्साहादिषु स्पष्टमन्तर्भावान्न कीर्तिताः ॥' इति । नन्वेवमपि नवरसत्वं विरुद्धम् । नास्त्येव शान्तो रसः । आचार्येण विभावाद्यप्रतिपादनात् । अन्ये तु अनादिकालप्रवाहायातरागद्वेषयरुच्छेदस्याशक्यत्वात् (अन्ये तु) वीरवीभत्सादावन्त- र्भावं वर्णयन्ति । अमरसिंहोऽपि-'शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । वीभत्सरौद्रौ च रसाः' इति चेत्, सत्यम् । मतान्तररीत्या नवसंख्येति बोध्यम् । निर्वेदस्थायि- माधोऽस्ति शान्तोऽपि नवमो रसः।' इति काव्यप्रकाशे । 'सम्यग्ज्ञानसमुत्थानः शान्तो निःस्पृहनायकः।' इति वाग्भटालंकारे॥ स्त्रीपुंसयोर्मिथो रागवृद्धिः शृङ्गार उच्यते । संभोगो विप्रल्म्भश्चेत्येष स्यद्द्विविधो द्वयोः ॥ ६ ॥ उक्तं च---"अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्श नादीनि स संभोगो मुदान्वितौ ॥ भावो यदा रतिर्नाम प्रकर्षमधिगच्छति । नाधिगच्छति चाभीष्टं विप्रल- म्भस्तदोच्यते ॥ मनोनुकूलेध्वर्थेषु सुखसंवेदनं रतिः।' इति रसलक्षणम् । संयुक्तयोः स्यात्संभोगो विप्रलम्भो वियुक्तयोः । प्रच्छन्नश्च प्रकाशश्च पुनरेष द्विधा मतः ॥ ७ ॥ [स्पष्टम् । स्वीये नायिकादिवर्णनप्रकरणे रसमञ्जरीव्यवहारो भानुना कृतश्चिन्त्य एव । नहि केवलमालम्बनेन रसव्यवहारः । विभावानुभाव-' इत्यादिभरतसूत्रविरोधात् । 'आल- म्बनविभावत्वेन तावन्नायिका निरूप्यन्ते' इति सोऽपि चिन्त्य एव । आलम्बनविभावस्य नायिकानायकयोस्तुल्यत्वात् । किं च, 'पूर्व रक्ता भवेन्नारी पुमान्पश्चात्तदिङ्गितैः' इति नियमादादौ नायक(नायिका)वर्णनमुचितम् । स्वकृतौ त्विमं दोषं परिहरन्नाह-

१. "स्ैमृतः'ख.

स्त्रीपुंसाविति निर्देशान्नायिका वर्ण्यते पुरा ।
स्वीया च परकीया च सामान्येति त्रिधा स्त्रियः ॥ ८ ॥
स्वकीयात्रोत्तमाचारा पतिमात्रानुरागिणी ।
मुग्धा मध्या प्रगल्भेति त्रिधाङ्कुरितयौवना ॥ ९ ॥

उदाहरणम्-'अन्तरास्यं हास्यमक्ष्णोः सतीनां प्रपदे गतिः । प्रीत्यङ्कुशेन स्वप्नेऽपि रोषवारणवारणम् ॥ 'यत्तु रसमञ्जर्याम्-'गतागतकुतूहलं-' इत्याद्युदाहरणं तत्रापाङ्गप्रेक्षणस्य परकीयाया अपि धर्मत्वाच्चिन्त्यम् ॥

तास्वाद्या सा द्विधाज्ञातयौवना ज्ञातयौवना ।
नवोढा सैव सुरतप्रतिरोधकलज्जया ॥ १० ॥
स्याद्विश्रब्धनवोढा च मनाङ्मन्दाक्षमान्द्यतः ।

आद्या मुग्धा । मुग्धा नववयःकामा रतौ वामामृदुः क्रुधि' इति दशरूपके । सा द्विधा- अज्ञातयौवना ज्ञातयौवना च । आद्योदाहरणम्-'दिने दिने दर्पणमीक्षमाणा कान्तिं मुखेन्दोरुपचीयमानाम् । निरीक्ष्य नेत्राम्बुजयोर्विकासं पप्रच्छ बाला मुकुरेऽभवत्किम् ॥ 'नीरात्तीरमुपागता' इत्यत्र नेत्रस्य स्वतो दर्शनमसंभवि । तथा च सुबन्धुः—'गुणिनामपि निजरूपप्रतिपत्तिः परत एव संभवति । स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मात् ॥' अतस्तदुदाहरणं चिन्त्यम् । ज्ञातयौवना यथा--'बभूव किंस्वित्तव नो वयस्ये नवे वयस्येवमिति प्रलप्य । नताननेन्दुः क्षणमाजहार दिशः श्रियं पाशधरस्य मुग्धा ।' यत्तु रसमञ्जर्याम्- 'अम्भोजलोचन-' इत्यत्र ज्ञातयौवनत्वज्ञानार्थमर्थान्तरं कल्पयन्ति सा कुकल्पनैव । नवोढा यथा---'पत्या सनाथममलं भवनं निरीक्ष्य बाला शशाक सहसा त्रपया न यातुम् । यातापि नाप शयने शरदभ्रशुभ्रे विद्युल्लतेव कनकाभतनुः स्थिरत्वम् ॥'

ह्रीकामसाम्ये मध्या स्याद्धैर्ये सागसि नायके ॥ ११ ॥
वक्रोक्तिस्तद्वैपरीत्ये भवेत्परुषवाग्रुषा ।

'मध्योद्यद्यौवनानङ्गा मोहान्तसुरतक्षमा' इति दशरूपके । 'संप्राप्ततारुण्यकामा इति च दशरूपके ॥

प्रौढा अधिककंदर्पा पत्यावखिलकेलिकृत् ॥ १२ ॥

रतिप्रीतिर्यथा---'वक्रेण वक्रमरविन्दविशालनेत्रा संयोज्य कापि हृदयं हृदयेन शेते । कण्ठं भुजेन दयितस्य तदूरुयुग्ममूरुद्वयेन वचनं वचनैः सहासम् ॥ यत्तु रसमञ्जर्याम्- 'श्रवणयोर्नीलोत्पलं निह्नुते' इति, तच्चिन्त्यम् । भग्नकमलकुमुदयोर्विकासादर्शनात् । 'यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्कके । विलीयमानेवानन्दाद्रतारम्भेऽप्यचेतना ॥' १.'मृषा' क. रतारम्भेऽचेतना यथा---'धन्यासि या कथयसि प्रियसंगमेऽपि, विश्रब्धचाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि ॥'

एषा ज्येष्ठा कनिष्ठेति द्वेधा स्नेहैकभाजनम् ।
भर्तुर्या सा भवेज्येष्ठा कनिष्ठा तु ततोऽवरा ॥ १३ ॥

ज्येष्ठाकनिष्ठे यथा---'दृष्ट्वैकासनसंगते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकंधरः सुपुलकः प्रेमोल्लसत्साध्वसा(मानसा)मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥' यत्तु रसमञ्जर्याम्-'धैर्य-' इत्युदाहरणं तदसंभवि । मुग्धायास्तदसंभवात् । 'कोपे मार्दवम्' इति मुग्धाचेष्टोक्तेः । 'पुष्पस्यावचयाय नम्रवदनाम्' इत्यत्र स्पष्टमेव मुग्धालत्वप्रतीतेः ॥

धीराधीरा तथा धीराधीरेति त्रिविधे स्त्रियौ ।
मध्याप्रगल्भिके मानावस्थायामुदिते बुधैः ॥ १४ ॥
धीराधीरे क्रमाद्व्यङ्ग्याव्यङ्ग्यकोपप्रकाशिके ।
धीराधीरा क्रमाद्व्यङ्ग्याव्यङ्ग्यकोपप्रकाशिका ॥ १५ ॥
प्रियं सोत्प्रासवक्रोक्त्या मध्याधीरा दहेद्रुषा ।
अधीरा परुषोक्त्याथ धीराधीरा तु रोदनैः ॥ १६ ॥
प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ।
उदास्ते सुरते तत्र दर्शयन्त्यादरान्बहिः ॥ १७ ॥
धीराधीराथ सोल्लुण्ठभाषितैः खेदयेद्धवम् ।
तर्जयेताडयेदन्येत्युक्तं साहित्यदर्पणे ॥ १८ ॥
धीरादिभेदाः स्वीयाया इति प्राचीनलेखनम् ।
नव्यैस्तु परकीयाया अपि ते स्युरितीरितम् ॥ १९ ॥

'धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागसम् । खेदयेद्दयितं कोपादधीरा परुषाक्षरम् ॥' यथा---'ह्रीविषाणभरभुग्नशिरा मां हन्तुमेति कमितृृषभ एषः । सख्यनाथ इति बन्धनमाशु प्रापणीय इतरज्ज्वलगोष्ठे ॥' प्रौढायाश्चेष्टा यथा-'सावहित्थादरोदास्ते रतौ धीरेतरा क्रुधा । संतर्ज्य ताडयेत्कान्तं मध्याधीरेव तां वदेत् ॥' तर्जनताडनोदाहरणं यथा-'कोपात्कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं नीत्वा चात्मनिकेतनं दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुतिपरः प्रेयान्रुदत्या हसन् ॥' यत्तु रसमञ्जर्याम्-'प्रतिफल- इति तदसंगतम् । देवविषये तथावर्णनस्यायोग्यत्वात् ॥

१. 'कमितऋषभ' इति संधिः, कामुकश्रेष्ठ इत्यर्थः.

स्वानूढा स्वानुरक्ता स्त्री परकीया निगद्यते ।
उत्तमाधमभेदाभ्यां द्विविधा द्विविधा मता ॥ २० ॥
अलक्षितानुरागैषा स्वीयाकल्पोत्तमा भवेत् ।
तद्भिन्ना त्वधमा ज्ञेया विदग्धाद्यास्तु तद्भिदाः ॥ २१ ॥

 स्वशब्देन वर्ण्यः । यत्तु रसमञ्जर्याम् । 'अप्रकट-' इति लक्षणं तत्र कन्यकायाः पत्युरभावात्परपुरुषानुरागस्यासंभवः । यदि भाविनं पतिमादाय परत्वं तर्हि तथैव परोढात्वमेवास्तु किं भेदद्वयवर्णनेन । यदि पित्राधीनतया परकीयात्वमिति, तदपि न । लक्षणवाक्ये तस्यानुपयोगात् । अथ संज्ञायाः परस्येयं परकीयेत्यत्रोपयोग इति चेत्तर्हि 'अप्रकट-' इत्याद्यनुपयुक्तम् । तद्भिदा इति 'षिद्भिदादिभ्योऽङ्' ।

परोढाकन्यकाभेदाद्विविधैषा पराङ्गना ।
चेष्टैवास्या न प्रसिद्धोऽनुरागः कविभिः स्तुतः ॥ २२ ॥

 परकीया यथा--'मूर्तिं मुरारेः शिल्पस्य सीमानं निजनिर्मिताम् । अनन्यजवशाद्दूती प्रियां प्रादर्शयद्रसात् ॥' अप्रकटानुरागा यथा---'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं नीरन्ध्राः पुन(तनुं)रालिखन्तु जरठच्छेदा नलग्रन्थयः ॥' कन्यकोदाहरणं तु शाकुन्तलमालतीमाधवयोः स्पष्टम् ॥

विदग्धा मुदिता चैषानुशयानाथ लक्षिता ।
गुप्ता च कुलटा चेति षट्प्रकारोदिता बुधैः ॥ २३ ॥
विदग्धा वाक्क्रियाहेतुवैदग्ध्याभ्यां द्विधेष्यते ।
भाविस्वाभीष्टवोधेन प्रहृष्टा मुदितोच्यते ॥ २४ ॥

 क्रियाविदग्धा यथा-श्वश्रूनिरुद्धोर्ध्वगतिर्विदग्धा मिषेण विक्षालितकेशहस्ता । स्तनावधि खच्छनिबद्धवस्त्रा गौरी जगामोर्ध्वमपश्यदिष्टम् ॥'

नाशात्संकेतस्थलस्य भाविनोऽभावशङ्कया ।
स्वहीनप्रिययातस्य बोधाच्चानुशयस्त्रिधा ॥ २५ ॥

 स्वद्दीनप्रिययातस्येति 'गत्यर्थाकर्मक-' इति भावे क्तः । प्रियस्य यातं गमनं तस्य बोधात् । यथा-'सा वार्षिकोत्सवदिने सरसोरुहाक्षी मात्रा प्रसाधनमिषेण गृहे निरुद्धा । नद्याः समागतमवेक्ष्य गृहीतपद्मं कान्तं मुखं द्रुतमधत्त दिनेन्दुतुल्यम् ॥' यत्तु रसमञ्जर्याम्-'कर्णकल्पित-' इति, तच्चिन्त्यम् । 'निष्पतन्नयनवारिधारया' इत्यनेन चेष्टायाः स्पष्टत्वात्परकीयात्वासंभवः । न च सति स्वीयात्वे का क्षतिः । गुप्तादीनां परकीयायामेवान्तर्भावोक्तेः ।

१. 'चानुशया त्रिधा क.

लक्षिता सा तु विज्ञेया या जनैर्ज्ञातरागिका ।
या गोपायति सा गुप्ता भूतं भावि भवद्रतम् ॥ २६ ॥

 (गुप्ता यथा) भूतसुरतगोपना यथा---'गृह्णन्त्या निष्कुटे श्रीफलदलमसकृद्वृक्षमूले भ्रमन्त्या पूजायै शंकरस्य श्रमजलमखिले वर्ष्मणि स्तम्भ ऊर्वोः । स्तुत्या किंचिद्विलम्बः क्षतमजनि कुचे कण्टकेनैव तस्य तत्पूजास्रग्धराहं हतसकलजनैरन्यथैव व्यतर्कि ॥' वर्तमानसुरतगोपना यथा-'आराममाब्दिकदिनोचितदेवपूजाहेतोविचित्रकुसुमानयनाययान्त्या । अत्रान्तरे महति मेऽनवधानभाजो भ्रष्टाङ्गदं मृगयते सखि साधुरेषः ॥' अपि च-'धृतराष्ट्रः कथं भीमं बभञ्जायसमित्यसौ । मया पृष्टो दर्शयति साधुः सर्वपुराणवित् ॥' भाविसुरतगोपना यथा-निन्दन्तु पापमतयः सखि मानवा मां जानातु किंचिदपि चेतसि वल्लभश्च । गात्रं गतिश्रमभरालसमेतदस्तु यास्यामि किं न बत दैवतपूजनाय ।' यत्तु रसमञ्जर्याम्-'त्रितयमपि-' इत्यादि तत्तत्र श्लोके वृत्तवर्तिष्यमाणयोरेवं प्रतीतेश्चिन्त्यम् ॥

कुलटा बहुपुंरागा वेश्यादेश्या प्रकाशतः ।
लोभेन सर्वपुंरागा सामान्या कथिता बुधैः ॥ २७ ॥

 कुलटा यथा-'कांश्चिद्वचो वदति पश्यति कश्चिनेयं कांश्चिच्च दर्शयति संवृतमात्मनोऽङ्गम् । कांश्चि(कंचि)द्रतेन च सुखं नयतेऽद्वितीयं नैकत्र हि प्रणयिता कुलटाजनस्य ॥' लोभेनेति । यथा-'आ दर्शनादर्थहरां वेश्यामर्थविशेषकैः । महाजननां स्तुवतां साहसं को न वर्णयेत् ॥' साधारणस्त्री गणिका कलाप्रगल्भा धौर्त्ययुक् । 'छन्नकामसुखार्थाज्ञस्वतन्त्राहंयुपण्डकान् । रक्तेव रञ्जयेदेतानिःस्वन्मात्रा विमोचयेत् ॥' छन्नं कामयन्ते छन्नकामाः श्रोत्रियवर्णिलिङ्गिप्रभृतयः । सुखार्थोऽप्रयासावाप्तधनः सुखप्रयोजनो वा अज्ञो मूर्खः । स्वतन्त्रो निरङ्कुशः । अहंयुरहंकृतः । पण्डको वातपण्डादिः । एतान्बहुवित्तान्रक्तेव रक्षयेदार्थम् । तत्प्रधानत्वाद्वृत्तेः । गृहीतार्थान्कुट्टन्या निष्कासयेत् ॥

गर्विता चान्यसंभोगदुःखिता मानिनीस्त्रियः ।
गर्विता द्विविधा हेत्वोः प्रेमसौन्दर्ययोर्भिदा ॥ २८ ॥

 तत्राद्या यथा---'रात्रौ प्रियावियोगस्य धन्यः कोकोऽस्ति सासहिः । मामपश्यन्क्षणमपि प्रियो यद्दुर्मनायते ॥ यत्तु रसमञ्जर्याम्-'एताः षोडशापि-' इति, तद्व्याख्यानं व्यङ्ग्यार्थकौमुद्याम्-'मध्याप्रगल्भयोधीरादिषड्भेदानां ज्येष्ठाकनिष्ठाभ्यां द्वादश भेदाः । मुग्धा एकैव । एवं त्रयोदश । द्विधा परकीया । एका सामान्या । एवं षोडश ।' इति, तच्चिन्त्यम् । भानूक्तज्येष्ठाकनिष्ठालक्षणस्य मुग्धायामपि सत्त्वात् । तस्या द्विविधत्वाच्च ॥

मानः कोपः स तु द्वेधा प्रणयेर्ष्योत्थभेदतः ।
द्वयोः प्रणयमानः स्यात्कोपो यः कारणं विना ॥ २९ ॥

१. 'निज' ख.  यत्तु रसमञ्जर्याम्-'प्रियापराधसूचिका चेष्टा मानः ।' इति, तन्न । 'वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् । मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य ॥' इत्यत्र दोषात् । नहि तत्र सीताया मानः । चेष्टा तु न केवलं शरीरव्यापारः किं तूक्तिरपि । 'मानोऽन्यवनितासङ्गादीर्ष्याविकृतिरुच्यते' इति वाग्भटालंकारे ॥

पत्युरन्यप्रियासङ्गे दृष्टेऽप्यनुमिते श्रुते ।
ईर्ष्या मानो भवेत्स्त्रीणां तत्र त्वनुमितिस्त्रिधा ॥ ३० ॥
त(उ)त्स्वप्नायितभोगाङ्कगोत्रस्खलनतो भवेत् ।
साम भेदोऽथ दानं च नत्युपेक्षे रसान्तरम् ॥ ३१ ॥
तद्भङ्गाय पतिः कुर्यात्षडुपायानिमान्क्रमात् ।
तत्र प्रियवचः साम भेदः सख्युपरञ्जनम् ॥ ३२ ॥
दानं व्याजेन भूषादेः पादयोः पतनं नतिः ।
सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् ॥ ३३ ॥
रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ।
इति मानविचारस्तु कृतः साहित्यदर्पणे ॥ ३४ ॥
मानो लघुर्मध्यमश्च गुरुश्चेति त्रिधा भवेत् ।
असाध्यस्तु रसाभास इति भानुकृतौ स्थितम् ॥ ३५ ॥
अपरस्त्रीदर्शनोत्थो गोत्रस्खलनजस्तथा ।
अन्यस्त्रीसङ्गजनितः क्रमेण त्रिविधो भवेत् ॥ ३६ ॥

रसान्तरं यथा---'समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः । त्रसत्तुषारादिसुताससंभ्रमस्वयंग्रहाश्लेषसुखेन निष्क्रियम् ॥'

विशेषा नायिकानां स्युः स्वाधीनपतिकादयः ।
अन्यत्र पौर्वापर्योक्तौ हेतुरूह्यो मनीषिभिः ॥ ३७ ॥

 स्वाधीनपतिकादय इति, 'आसन्नायत्तरमणा हृष्टा स्वाधीनभर्तृका । मुदा वासकसज्जा

स्वं मण्डयत्येष्यति प्रिये ॥ चिरयत्यव्यलीके तु विरहोत्कण्ठिता मता । उक्त्वेति शेषः। ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्यासमाकुला ॥ कलहान्तरितामर्षाद्विधूतानुनयार्तियुक् । विप्रलब्धोक्तसमयमप्राप्तेऽतिविमानिता ॥ दूरदेशान्तरस्थे तु कार्यतः प्रोषितप्रिया । कामार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका ॥' इति दशरूपके ॥

स्वाधीनः स्यात्पतिर्यस्याः स्वाधीनपतिका हि सा ।
सुरतोचितवारज्ञा सुरतस्योपयोगिनीम् ॥ ३८ ॥
संपादयति सामग्रीं या सा वासकसज्जिका ।
सोत्का ध्यायति या भर्तुरनागमनकारणम् ॥ ३९ ॥
रतार्थिनी तु संकेतं याति या साभिसारिका ।
विप्रलब्धा प्रियं तत्रादृष्ट्वा संतापसंकुला ॥ ४० ॥
खण्डिता रतिचिह्नाढ्यो यस्या आयाति नायकः ।
कलहान्तरिता तप्ता यावमत्य प्रियं भवेत् ॥ ४१ ॥
प्रवासिनि प्रिये तप्ता ज्ञेया प्रोषितभर्तृका ।
प्रवत्स्यति प्रिये तप्ता प्रवत्स्यत्पतिकेष्यते ॥ ४२ ॥
कुर्वतोऽप्यहितं भर्तुर्हितकृद्योत्तमा हि सा ।
हिताहितं या चरति प्रियवन्मध्यमा च सा ॥ ४३ ॥
कुर्वत्यपि हितं पत्यावहितं कुरुतेऽधमा ।
इति तास्त्रिविधा ज्ञेयाः स्वभावप्रभवैर्गुणैः ॥ ४४ ॥

 स्वाधीनपतिका यथा -क्व विधेयो मया मानः स विधेयोऽस्ति मे यतः । सविधे वर्तते से यः स विधेर्मय्यनुग्रहः ॥' वासकसज्जा यथा-'अनल्पं तल्पमाकल्प्य चेटिकां वीटिकां स्रजम् । निवेश्य तस्य सविधे विधेयमभिकाङ्क्षति ॥' उत्का यथा-कार्यान्तरासक्ततया किमद्य नार्यन्तरासक्ततयाथवा माम् । न जीवितेशः स्मरतीति मत्वा न जीवितेशः स्मरतीति मन्ये ॥' अभिसारिका यथा-'बिभ्राणा नाङ्गनाङ्गेषु भूषणं, चन्दनं स्रजम् । अनङ्गाभिसरा रात्रौ दिवेवायाति कानने ॥' ज्योत्स्नाभिसारिका यथा---'ओष्ठहस्तपदारुण्यादाज्ञाय शयने प्रियाम् । चन्द्रिकायां निर्ववार मुक्ताकृतविभूषणाम् ॥' विप्रलब्धा यथा---'पापीयसा प्रेयसाद्य विप्रलब्धा न केवलम् । लपता लाभमित्याह गणिका गणकेन च ॥ खण्डिता यथा-'अधरे रदनक्षतं कपोले प्रिय पत्रावलिमक्ष्णि रक्तिमानम् । अपनेतुमसि प्रभुर्न सद्यः परिवर्त्यांशुकमागतो न किं स्याः ॥' कलहान्तरिता यथा---'याते सरोषे दयिते तु मातर्नातः परं कश्चन दुःखहेतुः । स्थिरं न चेतो नयने न शुष्के श्वासो न शीतोऽस्त्यधरो न चार्द्रः ॥' प्रोषितभर्तृका यथा---'कुसुमानि न केशेषु चन्दनं न कलेवरे । वरे विदेशे तन्वङ्ग्या व्यङ्ग्यहीनं सुभाषितम् ॥' प्रवत्स्यत्पतिका यथा-'अस्रैर्वृष्टिं प्रकुर्वाणां बाणासनकरो नरः । वर्षां प्रवेक्ष्य (?) न ययावतिरम्यपयोधराम् ॥'

विश्वासपात्रं विश्रामकारिणी पार्श्वचारिणी ।
सखी तस्याः कर्मशिक्षाभूषोपालम्भपूर्वकम् ॥ ४५ ॥
परिहासश्च दंपत्योर्मिथः सख्या कृतस्तथा ।
दूतव्यापारनिपुणा दूती संयोगकारिणी ॥ ४६ ॥
विरहादेर्ज्ञापिका च

'दूती दासी सखी कारुर्धात्रेयी प्रातिवेशिका । लिङ्गिनी शिल्पिनी खं च नेतृमित्रगुणान्विताः ॥' दासी परिचारिका । सखी स्नेहनिबद्धा । कारू रजकीप्रभृतिः । धात्रेयी धात्रीपुत्री । प्रातिवेशिका समीपगृहवर्तिनी । लिङ्गिनी भिक्षुक्यादिः । शिल्पिनी चित्रकारादिस्त्री । स्वयं चेति दूतीविशेषाः । नायकमित्राणां पीठमर्दादीनां निसृष्टार्थत्वादिना गुणेन युक्तः । तथा च मालतीमाधवे कामन्दकीं प्रति-'शास्त्रे च निष्ठा सहजश्व बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी । कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु ॥' तत्र सखी यथा-'मृगशिशुदृशस्तस्यास्तापं कथं कथयामि ते दहनपतिता दृष्टा मूर्तिर्मया नहि वैधवी । इति तु विदितं नारीरूपः स लोकदृशां सुधा तव शठतया शिल्पोत्कर्षो विधेर्विघटिष्यते ॥ यथा च---'उपेक्षिताः सा भवता नताङ्गी न तां समुद्दिश्य वदामि किंचित् । रागं तदीयं तव निर्दयत्वं स्तोष्यन्ति लोका इति मे विषादः ॥' 'सच्चं जाणइ दट्ठुं सरिसम्मि जणम्मि जुज्जए आरो । मरउ न तुमं भणिस्सं मरणंपि सलाहणिज्जं से ॥' स्वयंदूती यथा--'ग्रामोऽतिदूरे रविरस्तमेति प्रयासि चेद्याहि चिराय किं स्यात् । एकाकिनीं त्वां कथमुत्सृजेयमेवं मतिश्चेन्मदनः सहायः ॥' दशरूपके सखी- कृतो नायिकापरिहासो यथा---'नखक्षतं वीक्ष्य पयोधरान्ते सख्यैवमुक्ता स्मयते स्म बाला । अधित्यकायां समुदेति चन्द्रो नोपत्यकायां किमिदं वधूटि ॥' पूर्वोक्तभेदातिरिक्तो गुरुजनभीताभेदः । स यथा--आयाति याति मद्वारि सखि वारिजलोचनः । एनं वद पराधीने दीने को वा तवाग्रहः ॥' भुजंगभीताभेदोऽपि यथा-'आरामे भ्रमतः कीशात्पुंसा रक्ष्याबला बलात् । इति श्रुत्वा द्रुतं यातो हीनवकप्रभः प्रभुः ॥'

   वर्ण्यन्ते नायका अतः ।
पतिश्चोपपतिश्चैव वैशिकश्च क्रमात्रयः ॥ ४७ ॥
वोढा पतिः स्मृतो रक्तो नित्यं वेश्यासु वैशिकः ।
अन्यो वोढुश्चोपपतेर्यः स्त्रीणामाश्रयो रतेः ॥ १८ ॥
रक्तानुरक्तोऽनुकूलः समः सर्वासु दक्षिणः ।
धृष्टः स्पष्टापराधोऽपि प्रिययापि निराकृतः ॥ ४९ ॥

१२ ष० गु० काव्यमाला। निर्लज्जोऽस्यां समासक्तः शठः स्त्रीकपटे पटुः । यथासंभवमेतेषां भेदा ज्ञेया मनीषिभिः ।। ५०॥ मानी च चतुरश्चोभौ शठभेदौ प्रकीर्तितौ । 'नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वाग्मी रूढवंशः स्थिरो युवा ॥ बुद्धथुत्साहस्मृतिप्रज्ञाकलाज्ञानसमन्वितः । शूरो इदश्च तेजस्वी शास्त्रचक्षुश्व धार्मिकः ॥' नेता नायकः । मधुरः प्रियदर्शनः । त्यागी सर्वखदायकः । दक्षः क्षिप्र- ‘कारी । स्थिरो वाल्मनःक्रियामिरचञ्चलः । बुद्धिर्ज्ञानम् । प्रज्ञा गृहीतविशेषकारिणी । 'मेदैश्चतुर्धा ललितशान्तोदात्तोद्धतैरयम् । निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः ॥' मृदुः सुकुमारसत्त्वाचारः । 'सामान्यगुणयुक्तश्च धीरशान्तो द्विजादिकः ।' सामान्यगुणा विनयादयः। द्विजादिक इति विप्रवणिक्सचिवाद्युपलक्षणम् । 'महास- त्वोऽतिगम्भीरः क्षमावानविकत्थनः । स्थिरो निगूढाहंकारी धीरोदात्तो दृढव्रतः ॥' महासत्त्वः क्रोधाधनभिभूतः । अविकत्थनोऽनात्मश्लाघनः । दृढव्रतोजीकृतनिर्वाहकः । 'दर्पमात्सर्वभूयिष्ठो मायाछद्मपरायणः । धीरोद्धतस्वहंकारी चलवण्डो विकत्यनः ॥' घि दक्षिणः शठो धृष्टा पूर्वी प्रत्यन्यया हृतः। पूर्वी नायिका प्रसन्यया नायिकयापहृत- चित्तः । 'दक्षिणोऽस्यां सहृदयः अस्यां ज्येष्ठायां हृदयेन सह व्यवहरति । 'नूडविग्नि-. यकृच्छठः । ब्यक्ताङ्गवैकृतो धृष्टोऽनुकूलस्वेकनायिकः ॥ इति दशरूपके ॥ वाक्वेष्टाव्यङ्गयसंयोगनिपुणश्चतुरो मतः ॥ ५१ ॥ तेषां च नर्मसचिवः पीठमदों विटस्तथा । चेटो विदूषक इति चतुर्धा भानुनोदितः ॥ ५२ ।। पीठमर्दः प्रकुपितस्त्रीप्रसादक उच्यते । बिटः कामकलाभिज्ञश्चेटः संधानदक्षिणः ॥ ५३ ।। अङ्गवाग्वेषवैकृत्यहास्यकारी विदूषकः । तेषां नायकानां नर्मसचिवः क्रीडासहायः। मन्त्री सहायः सचिवः' इत्यमरः । 'पता- कानायकरसन्यः पीठमा विचक्षणः ।' प्रागुतप्रासङ्गिकेतिवृत्तविशेषः यताका । तन्ना- अकः पीठमदः प्रधानेतिवृत्तनायकस्य सहायः । (यथा) रामायणे सुग्रीवः । मालतीमा- धवे मकरन्दः । 'एकविद्यो विटश्चान्यो हास्यकच विदूषकः।' गीतादिविद्यानां नायको- प्रयोगिनीनामोकस्या विद्याया वेदिता विटः । इति दशरूपके । पीठमर्दो यथा---'अध- रयोः करयोः सखि पादयोररुणता विधिना. रचितोचिता । समुचिता न च भामिनि या दशौरविधिकर्म न यच्छति सत्फलम् ॥' चेटो यथा---'मनो मनोभवस्तस्य सुदत्य- तितुदत्यहो । मा नोऽमानोऽस्ति ते याच्यामुररीकुश्ते नु क । विदूषको यथा--रसरत्नहारः। 'न नमनं मनसस्तव तोषन्मम मनोऽपहृतं च न यच्छसि । इति निगध चुकूद विदूषकः प्रमदया कृतवि(सु)स्मितया हतः ॥' आद्यानुरागमानात्मप्रवातकरुणात्मकः ।। ५४ ॥ चतुर्घा विप्रलम्भः स्यात्पूर्वपूर्वो ह्ययं गुरुः । नवावलोकाइंपत्योः कामवर्धितरागयोः ॥ ५५ ॥ पूर्वानुरागो विज्ञेयो ह्यपूर्णस्पृहयोर्दशा । मानप्रवासावुदितौ पञ्चत्वे करुणस्तयोः ।। ५६ ।। एकस्य तत्र वृत्तस्य वर्णनं क्रियते बुधैः । [स्पष्टम् ॥] अथ स्त्रीणामलंकारा वर्ण्यन्ते शास्त्रदर्शिताः ।। ५७ ॥ यौवने सत्त्वजास्तासामष्टाविंशतिरीरिताः। अलंकारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ।। ५८ ।। शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता । औदार्य धैर्यमित्येते सप्तैव स्युरयत्नजाः ।। ५९ ॥ लीला विलासो बिच्छित्तिविश्वोकः किलकिञ्चितम् । मोहायितं कुट्टमितं विभ्रमो ललितं मदः ॥ ६० ॥ विहृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् । हसितं चकितं केलिरित्यष्टादशसंख्यकाः ॥ ६१॥ खभावजाः स्युर्भावाद्या दश पुंसां भवन्त्यमी । 'यौवने सत्त्वजाः स्त्रीणामलंकाराश्च विंशतिः।' सत्त्वोद्भूता विंशतिरलंकाराः स्त्री भवन्ति । तत्र भावहावहेलास्त्रयोऽजजाः । शोभा कान्तिीप्तिमाधुर्य प्रागल्भ्यमौदार्य धैर्यमित्ययत्नजाः सप्त । लीला विलासो विच्छित्तिविभ्रमः किलकिञ्चितं मोहाथितं कुट्टमितं. विश्वोको ललितं विहृतमिति स्वाभाविका दश । [इति दशरूपके ॥ भाव:- भावो विकारश्चित्ते स्यान्निर्विकल्प य आदिमः ॥ ६२ ॥ 'निर्विकारात्मकात्सत्त्वाद्धावस्तत्राद्यविक्रिया ।' तत्र विकारहेतौ सत्यप्यविकारकर सत्त्वम् । यथा-'श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव ।' तसादवि-. काररूपात्सत्त्वादाद्यः प्रथमो यो विकारो भवति स बीजस्योच्छूनदेव भावः ।। काव्यमाला। नेत्रादिविकृतियोतो भावो हावो रतीच्छिकः । 'अल्पालाप: सशृङ्गारो हावोऽक्षिभ्रूविकारकृत् ।' प्रतिनियताविकारी शारखभाव- विशेषो हावः॥ . हेलात्यन्तसमालक्ष्यो हाव एवोदितः क्रमात् ।। ६३ ।। 'स एव हेला सुव्यक्तशाररससूचिका।' शोभा- रूपयौवनभोगाद्यैः शोभा स्यादङ्गभूषणे । 'रूपोपभोगतारुण्यैः शोभाानां विभूषणम् ।' यथा--'तां प्राङ्मुखी तन्त्र निवेश्य बालो क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाहियमाणनेत्राः प्रसाधने संनिहि- तेऽपि नार्यः ।। कान्तिः- मन्मथोन्मेषणा सैव विस्तृता कान्तिरुच्यते ॥ ६४ ॥ 'मन्मथाध्यासिता छाया सैव कान्तिरिति स्मृता ।' शोभैव रागावतारघनीकृता कान्तिः । यथा-'उन्मीलद्वदनेन्दुदीप्तिविसरैदूरे समुत्सारितं भिन्नं पीनकुचस्थलस्य च रुचा हखनभाभिर्हतम् । एतस्याः कलविङ्ककण्ठकदलीकल्पं मिलत्कौतुकादप्राप्ताङ्गमुळं रुषेव सहसा केशेषु लग्नं तमः॥' कान्तिरेवातिप्रकाशाद्दीप्तिरित्यभिधीयते । 'दिप्तिः कान्तेश्च विस्तृतिः। यथा---'देआ पसिअ णअत्तसु मुहससिजोलाविलु- ततमणिवहे । अहिसारिआण विग्धं करेसि अण्णाण विहदासे ।' माधुर्यम्-~- सर्वावस्थाविशेषेषु माधुर्यं रमणीयता ॥ ६५ ॥ 'अनुल्बणवं माधुर्यम् ।' यथा---'सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमां- शोर्लक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा बल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ प्रागल्भ्यम्- निःसाध्वसत्वं प्रागल्भ्यं निःसाध्वसखं प्रागल्य' क्षोभपूर्वकोजसादः साध्वसं तदभावः प्रागल्भ्यम् । यथा---'तथा ब्रीडाविधेयापि तथा मुग्धापि सुन्दरी । कलाप्रयोगचातुर्थे सभाखाचार्य यता॥ रसरनहारः। औदार्यम्- औदार्य विनयः सदा। 'औदार्य प्रश्रयः सदा। धैर्यम्- मुक्तात्मश्लाघना धैर्य मनोवृत्तिरचञ्चला ।। ६६ ॥ 'चापलाविहृता धैर्य वित्तिरविकत्थना' । चापलानुपहता मनोवृत्तिरात्मगुणाना- ख्यायिका धैर्यम् । यथा---'ज्वलतु गगने रात्रौ रानावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । सम तु दयितः श्लाभ्यस्तातो जनन्यमलान्वया कुल- ममलिनं न खेचायं जनो न च जीवितम् ॥' लीला-- अझैषैरलंकारैः प्रेमाभिवचनैरपि । प्रतियोजितै-लां प्रियस्यानुकृति विदुः ।। ६७ ॥ "प्रियानुकरणं लीला मधुराङ्गविचेष्टितैः।' यथा-'तेनोदितं वदति याति यथात. थासौ' इत्यादि । भागवतेऽपि दशमस्कन्धे त्रिंशत्तमेऽध्याये--'गलानुराग-' इत्यादिना ॥ विलास:- यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् । विशेषस्तु विलासः स्यादिष्टसंदर्शनादिना ॥ ६८ ॥ 'तात्कालिको विशेषस्तु विलासोऽजनियादिषु ।' दयिताबलोकनादिकाले क्रियायां वचने च सातिशयं विशेषोत्पत्तिविलासः । यथा---'अत्रान्तरे किमपि वारिवभचा- तिवृत्तवैचित्र्यमुलसितविभ्रममुत्पलाक्ष्याः । तद्भरिसात्त्विकविकारविशेषरम्यमाचार्यकं विजयि मान्मश्रमाविरासीत् ॥' विच्छित्तिः- स्तोका माल्यादिरचना विच्छित्तिः कान्तिपोषकृत् । 'आकल्परचनाल्यापि विच्छित्तिः कान्तिपोषकुत् ।' यथा---'कर्णार्पितो रोधकषा- यरूक्षे गोरोचनामेदनितान्तगौरे । तस्याः कपोले परभागलाभाद्वबन्ध चक्षुषि यवप्र- रोहः ॥ रघुवंशे त्रयोदशे सर्गे---'अयं सुजातोऽनुगिरं तमाल:--' इत्यादि । विवोकः-- विवोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ।। ६९ ॥ 'गर्वाभिमानादिष्टेऽपि विव्वोकोऽनादरक्रिया ।' यथा-'सव्याज तिलकालकानवि- १. प्रेमभिःख. ३३२ काव्यमाला। रलं लोलाङ्गुलिः संस्पृशन्वारंवारमुञ्चयन्कुचयुगे प्रोदञ्चिनीलाञ्चलम् । यद्भूमातरङ्गि- ताश्चितदृशा सावज्ञमालोकितस्तद्र्वावधीरितोऽस्मि न पुनः कान्ते कृतार्थीकृतः ॥' यत्तु माधः----"किं तावत्सरसि सरोजमेतदारादाहोखिन्मुखमवभासते युवत्याः । संशय्य शणमिति निश्चिकाय कश्चिद्विव्वोकर्वकसह्वासिनी परोक्षः ॥' तन । विबोकस्य केवलं सुखवर्तित्वाभावात् । यत्त्वमरसिंह:--'स्त्रीणां विलासविन्वोकविनमा ललितं तथा । हेलालीलेल्यमी हावाः क्रियाः शृङ्गारभावजाः ॥ इति तदपिन । आचार्यः सर्वेषां भेदवर्णनात् । 'माधो बभ्राम विवोके तत्रैवामरनामकः । ताभ्यां समो मया दृष्टः श्रीहर्षः किलकिञ्चिते ॥ किलकिञ्चितम्- क्रोधश्रमत्रासहासशुष्करोदनसंकरम् । अभीष्टसंगजाद्धर्षादुदेति किलकिञ्चितम् !! ७० ॥ 'क्रोधाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम् ।' 'रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्याः वणितकलकण्ठार्थमधुरम् । कृतभ्रूभङ्गासौ प्रकटितविल. क्षार्परुदितसितक्रुद्धोद्धान्तं पुनरपि विदध्यान्ममि मुखम् ॥' यत्तु श्रीहर्षः---'बयि चीर विराजते परं दमयन्तीकिलकिञ्चितं किल । तरुणीस्तन एव दीप्यते मणिहाराव- लिरामणीयकम् ॥ इति तन्न । साभावात् । भविष्यत्सामीप्ये वर्तमानवद्भाव इति बदसि चेदृष्टान्तानुपपत्तिः। मोट्टायितम्- तद्भावभाविते चित्ते वल्लभस्य कथादिषु । मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकम् ।। ७१ ॥ 'मोहायितं तु तद्भायभावनेष्टक्रथादिषु ।' प्रियतमानुरागेण भावितान्तःकरणखम् । चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि । श्रीडार्धवलितं चक्रे मुखेन्दुमनशैव सा ॥' छुट्टसितम्- केशस्तनावरादीनां ग्रहे हर्षेऽपि संभ्रमात् । आहुः कुट्टमितं नेति शिरःकरविधूननम् ॥ ७२ ॥

  • सानन्दान्तः कुट्टमितं कुप्येत्केशाधरग्रहे ।' 'दष्टेऽधरे प्रणयिना विधुताप्रपाणेः

सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥' विभ्रमः-- स्वरया रागहर्षादेर्दयितागमनादिषु । अस्थाने भूषणादीनां विन्यासो विभ्रमो मतः ॥ ७३ ।। 'विभ्रमस्वरया काले भूषास्थानविपर्ययः । यथा 'अभ्युद्गते शनिनि कोमलकान्तरसरलहारः। दूतीसंलापसंवलितलोचनमानसाभिः । अग्राहि भण्डनविधिविपरीतभूषाविन्यासहासित- सखीजनमानाभिः ॥' भागवतेऽपि दशमस्कन्धे-'व्यत्यस्तवस्त्राभरणाः' इति । ललितम्- सुकुमारतयाङ्गानां विन्यासो ललितं विदुः । 'सुकुमारोऽविन्यासो मसृणो ललितं भवेत् ।' यथा-'सभ्रूभङ्गं करकिसलयावत- नैरालपन्ती सा पश्यन्ती ललितललितं यौवनस्थाञ्चलेन । विन्यस्यन्ती वरणकमले लीलया खैरपातैनिःसंगीतं प्रथमवयसा नर्तिता पकजाक्षी ।' मदः- मदो विकारः सौभाग्ययौवनायवलेपजः ।। ७४ ॥ विरु(ह)तम्- वक्तव्यकालेऽप्यवचो बीडया विरु(ह)तं मतम् । 'प्राप्तकालं न यद्रूयाद्रीडया विहृतं हि तत् ।' पादाङ्गुष्ठेन भूमि किसलयरुचिना सापदेशं लिखन्ती भूयो भूयः क्षिपन्ती मयि सितशबले लोचने लोलतारे । वकं ह्रीन- नमीषत्स्फुरदधरपुटं वाक्यगर्भ दधाना यन्मा नोवाच किंचित्स्थितमपि हृदये मानसं तड्डुनोति ॥ तपनम्-- तपनं प्रियविच्छेदे स्मरावेगोत्थचेष्टितम् ॥ ७५ ।। मौरध्यम्- अज्ञानादिव संपृच्छा प्रतीतस्यापि वस्तुनः । दयितस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्ववेदिभिः ॥ ७६ ।। विक्षेपः-- भूषाणामधरचना वृथा विष्वगवेक्षणम् । रहस्याख्यानमीषच विक्षेपो दयितान्तिके ।। ७७ !! रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् । यथा--रघुवंशे... 'करेण वातायनलम्वितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या । आमु- स्वतीवाभरणं द्वितीयमुद्भिनविद्युद्लयो धनस्ते ॥ इति । हसितम्- हसितं तु वृथा हासो यौवनोद्भेदसंभवः ॥ ७८ ॥ चकितम्- कुतोऽपि दयितस्याने चकितं भयसंभ्रमः । १३४ काव्यमाला। यथा--'त्रस्यन्ती बलशफरी विघट्टितोरामोहरतिशयमाप विभ्रमस्य । शुभ्यन्ति प्रसभमहो विनापि हेतो-लाभिः किमु सति कारणे रमण्यः ।।' इति ॥ विहारे सह कान्तेन क्रीडन केलिरुच्यते ॥ ७९ ॥ त्रयस्त्रिंशयभिचारिण आह-- निर्वेदो ग्लानिशके च मदोऽसूया श्रमोऽपि च । चिन्ता स्मृतिधृतिर्मोहो ब्रीडालस्यं च दीनता ।। ८० ॥ चापल्यं हर्ष आवेगो विषादो जडता तथा । औत्सुक्यनिद्रागर्वाश्च वितर्कोऽपस्मृतिस्तथा ॥ ८१ ।। सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । व्याधिर्मतिस्तथोन्मादो मरणं त्रास एव च ॥ ८२ ॥ 'तत्त्वज्ञानापदीयादेनिर्वेदः खावमाननम् । तत्र चिन्ताश्रुनिःश्वासवैवोच्छ्वासदी- नताः ॥' तत्त्वज्ञानान्निदो यथा--'प्राप्ताः श्रियः सकलकामदुधास्ततः किं न्यस्त्र पर्द शिरसि विद्विषतां ततः किम् । संप्रीगिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनु- मृतां तनुभिस्ततः किम् ॥' आपदा यथा—'राज्ञो विपद्धन्धुवियोगदुःखं देशच्युतिदुर्ग- ममार्गखेदः । आखाद्यतेऽस्याः कटुनिष्फलायाः फलं मयैतचिरजीवितायाः ॥ ईातो यथा--न्यकारो ह्ययमेव में यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिरिधक्छऋजित प्रबोधितवता किं कुम्भकर्णेन वा खर्गग्रामटिका- विण्ठनवृथोच्छूनैः किमेभिर्भुजः ॥' वीरनारयोर्व्यभिचारी निवेदो यथा-'ये बाहवो युधि न वैरिकठोरकण्ठपीठोच्छलद्रुधिरराजिविराजिताशाः। नापि प्रियापृथुपयोधरपत्रभङ्ग- संक्रान्तकुङ्कुमरसाः खलु निष्फलाते ॥' आत्मानुरूपं रिपुं तरुणीजनं वालभमानस्य निर्वेदादियमुक्तिः । एवं रसान्तराणामप्यनभाय उदाहार्यः । रसानाः खतन्त्रों निदो थथा—करवं भोः कथयामि दैवहतक मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्माद्यतः श्रूयताम् । वामेनान वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ॥' विभावानुभावरसाझानझमेदादने. कशाखो निर्वेदो दर्शनीयः । अथ ग्लानिः-रत्याबायासतृक्षुद्भिर्लानिनिष्प्राणतेह च । वैवर्ण्यकम्पानुत्साहक्षामाङ्गवमनक्रियाः ।' निधुवनकलाभ्यासादिनमतृषाक्षुगमनादिभि- निष्प्राणतारूपा ग्लानिः । अस्यां च वैवकम्पादयोऽनुभावाः । यथा---'लुलितनयन- ताराः क्षामवन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः । तिमिरमिव दधानाः संसिनः केशपाशानवनिपतिगृहेभ्यो यान्त्यमूवीरवश्वः ॥ शेषं निदेवदूह्यम् । अथ शङ्का-'अनर्थप्रतिमा शङ्का परक्रौर्यात्खदुर्नयात् । कम्पशोकाभिवीक्षादिरत्र वर्गखरा- न्यता ॥ तत्र परकौर्याद्यथा---'हिया सर्वस्थासौ हरति विदितास्मीति वदनं द्वयोदृष्ट्वाला रसरत्तहारः। कलयति कथामात्मविषयाम् । सखीषु मेरासु प्रथयति च वैलक्ष्यभसमं प्रिया प्रायेणास्ते हृदयनिहितातऋविधुरम् ॥' खदुर्नयाद्यथा---'दूराद्दवीयो धरणीधामं यस्खादकैयं तृणव- यधूनोत् । हन्ता सुबाहोरपि ताटकारिः स राजपुत्रो हृदि बाधते माम् ॥ अनया दिशान्य- दनुसतव्यम् । अथ मद:--- हर्षोत्कर्षों मदः पानात्स्खलदङ्गवचोगतिः । निद्रा हासोऽत्रं रुदितं ज्येष्ठमध्याधमादिषु ॥ यथा---'हावहारि हसितं वचनानां कौशलं इशिश विकार- विशेषाः । चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ।' इत्यादि । अथासूया- 'परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा । दोषोक्त्यवज्ञाभ्रुकुटिमन्युक्रोधेशितानि च ॥' गर्वजा यथा--'अर्थिले प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोरप्युत गृह्यन्दाशरथिविरुद्धचरितो युक्तस्तया कन्यया । उत्कर्ष च परस्य मानयशसोर्विसंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्द- शमुखो दृप्तः कथं मृष्यते ॥ दौर्जन्यजा यथा-'यदि परगुणा न क्षम्यन्ते यतख गुणार्जने नहि परयशो निन्दान्याजैरलं परिमार्जितुम् । विरमसि न चेदिच्छाद्वेषप्रसत्तमनोरथो दिनकरकरान्पाणिच्छत्रैर्नुदश्रममेष्यसि ॥' मन्युजा ग्रथा-'पुरस्तन्व्या गोत्रस्खलनच- कितोऽहं नतमुखः प्रवृत्तो बैलक्ष्यात्किमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो गता येन व्या पुनरवयवैः सैव तरुणी ॥ ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनस्विन्या कोपप्रणयरभसाद्गद्गदगिरा । अहो चित्रं चित्रं स्फुट- मिति निगद्याश्रुकलुषं रुषा ब्रह्मानं मे शिरसि निहितो वामचरणः ॥ अथ श्रमः---- 'श्रमः खेदोऽध्वरल्यादेः स्वेदोऽस्मिन्मर्दनादयः। अध्वतो यथा---'अलसलुलितमुग्धा- न्यध्वसंपातखेदादविथिलपरिरम्भैर्दत्तसंवाहनानि । परिमृदितमृणालीदुर्बलान्यकानि खमुरसि मम कृता यत्र निद्रामवाप्ता ॥' रतिश्रमो यथा-'प्राप्य मन्मथरसादतिभूमि दुर्वहस्तनभराः सुरतस्य । शश्रमुः श्रमजलाईललाटश्लिष्टकेशमसितायतकेश्यः ॥' इत्या- द्युत्प्रेक्ष्यम् । अथ चिन्ता---'ध्यानं चित्तेहितानाप्तेः शून्यताश्वासतापकृत् ।' यथा--- 'पक्ष्मानप्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः कुर्वत्या हरहासहारिहृदये हारावली- भूषणम् । बाले बालमृणालनालवलयालंकारकान्ते करे विन्यस्याननमायताक्षि सुकृती कोऽयं खया स्मयते ॥ यथा वा-'अस्तमितविषयसङ्गा मुकुलितनयनोत्पला बहुश्व- सिता । ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव ॥' अथ स्मृतिः-सदृशज्ञान- चिन्तायैः संस्कारः स्मृतिरत्र च । ज्ञानलेनावभासिन्या भ्रूसमुन्नयनादयः ॥' यथा--- 'मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिवस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि । तायः सोऽपि समं निजेन विभुना जानाति वा रावण मां ज्ञातं स जटायुरेष जरसा क्लिष्टो वर्ष वाञ्छति ॥' यथा माधवः [मालतीमाधवे]-'ममें हि नाकनोपलम्भसंभावितात्मजन्मनः संस्कारस्यानवरतप्रबोधात्प्रतीयमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोसन्त- वृत्ति सारूप्यंतश्चैतन्यम् । 'लीनेव प्रतिबिम्बितेव लिखितेव-' इत्यादि । अथ वृतिः-'संतोषो ज्ञानशक्त्यादेतिरव्यमभोगकृत् ।' ज्ञानाद्यथा---'वयमिह परितुष्टा काव्यमाला। कल्कलस्वं च लभया सम इह परितोषो निर्विशेषो विशेषः । स च भवतु दरिद्रो यस्य कृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥ शतितो यथा-'राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यग्लालनपालिता प्रशमिताशेषोप- सर्गाः प्रजाः । प्रथोतस्य सुता बसन्तसमयस्वं चेति नाना धृति कामः काममुपैखयं मम पुनर्भन्ये महानुत्सवः ॥ इत्याद्यूह्यम् । अथ मोहः--'मोहो विचित्तता भीतिदुः- खावेशानुचिन्तनैः । तत्राज्ञानभ्रमाघातघूर्णतादर्शनादयः ॥' यथा--'तीब्राभिषज्ञप्रभाव वेन वृत्ति मोहेन संखम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रति- बभूव ॥ यथा च–'विनिश्चतुं शक्यो न सुखमिति वा दुःखमिति वा प्रबोधो निद्रा वा किमु विषविसर्पः किमु मदः । तब परों स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चै- तन्यं भ्रमयति च संमोलयति च ॥' अथ श्रीडा---'दुराचारादिमिनीडा धाष्टोभावस्त- मुनयेत् । साचीकृतावरणवैवर्पोधोमुखादिभिः ॥' यथा-'पटीलग्ने पत्यौ नमयति मुखं जातविनया हठाछेषं वाञ्छत्यपहरति गात्राणि निभृतम् । न शक्नोल्याख्यातुं स्मितमुखसखीदत्तनयना हिया ताम्यत्यन्तः प्रथमपरिभोगे नववधूः ॥' अथालस्यम्---- "आलस्यं श्रमग देजह्वयं जृम्भासितादिमन् ।' यथा-'चलति कथंचित्पृष्टा यच्छति वचनं कथंचिदालीनाम् । आसितुमेव हि मनुते गुरुगर्भमरालसा सुतनुः ॥' अथ बीनता--'दौर्गलाद्यैरनौजस्य दैन्यं काष्र्या मृजादिमत् ।' दारियन्यक्कारादिविभावरनोज- स्कता चेतसो दैन्यम् । तत्र च कृष्णतामलिनवसनदर्शनादानादयोऽनुभावाः । यथा-- 'वृद्धोऽन्धः पतिरेष मञ्चक्रगतः स्थूणावशेषं गृहं कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वातापि नो । यत्नात्संचिततैलबिन्दुघटिका भन्नेति पर्याकुला दृष्ट्वा गर्भभरालसा निज- वधूं श्वश्रूश्चिरे रोदिति ॥ शेषं पूर्ववत् । अथ चापलम्--'मात्सर्थद्वेषरागादेश्चापलं खन- वस्थितिः । तत्र भर्सनपारुष्यखच्छन्दाचरणादयः ॥' यथा--'अन्यासु ताबदुपमर्द- सहास भृङ्ग लोलं विनोदय मनः सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि कि नमालिकायाः ॥ यथा वा-'विनिकषणरणत्कठोरदंष्ट्रानकच- विशङ्कटकंदरोदराणि । अहमहमिकया पतन्तु कोपात्सममधुनैव किमत्र मन्मुखानि ॥' अथ वा प्रस्तुतमेतावत्सुन्दरि हितं करिष्ये । अथ हर्षः--'प्रसत्तिरुत्सवादिभ्यो हर्षोऽश्रु- खेदगद्दाः। प्रियागमनपुत्रजननोत्सवादिविभावैश्वेतःप्रसादो हर्षः । तत्र चाश्नुखेदाद- योऽनुभावाः । यथा--'आयाते दयिते मरुस्थलभुवां संचिन्त्य दुर्लक्ष्यतां गेहिन्या परि- तोषबाष्पकलिलामासज्य दृष्टिं मुखे । दत्वा पीलसमीकरीरकवलान्वस्त्राञ्चलेनादरादुन्मृष्टं करभस्य केसरसटाभाराप्रलमं रजः ॥ निर्वेदवदन्यदुन्नेयम् । अथावेग:--'आवेगः संभ्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगे वात्सायां सूर्यदिग्धस्त्वरितपदगतिवर्षजे पिण्डिताः । उत्पातात्यस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा वहधूमाकुलास्यः करिम- नुजभये स्तम्भकम्पापसाराः ॥' अभिसरो राजद्विवराहादिस्तद्धेतुरावेगः । यथा--- 'आगच्छागच्छ सज्न कुरु वरतुरगं संनिधेहि द्रुतं मे खङ्गः कासौ कृपाणीमुपनय धनुषा कि रसरत्नहारः। किमानस्थितेन । संरम्भोशिद्रितानां क्षितिभूति गहनेऽन्योन्यमेवं प्रतीत्यं नादः स्वप्नाभि- दृष्टे त्वयि चकितधियां विद्विषामाविरासीत् ॥ यथा च-'प्रारब्धां तिरुपुत्रकेषु सहसा संत्यज्य सेकक्रियामेतास्वापसकन्यकाः किमिदमित्यालोकयन्याकुलाः । आरोहन्त्युटज- दुश्चि वटवो वाचंयमाः सबरं सयोमुक्तसमाधयो निजवृतीष्वेवोच्चपादं स्थिताः ॥' वाल्या- वेगो यथा---'वाताहतं क्सनमाकुलमुत्तरीयं' इत्यादि । वर्षजो यथा-देवे वर्षयशन. पचनव्याप्टता वहिहेतोर्गेहाट्नेहं फलकनिचितैः सेतुभिः कम्पभीताः । नीध्रप्रान्तानविर- लजलाम्पाणिभिस्ताडयिला शूर्पच्छन्नस्थमितशिरसो योषितः संचरन्ति ॥' उत्पातजो यथा---'पौलस्त्यपीनभुजसंपदुरस्यमानकैलाससंभ्रमविलोलदृशः प्रियायाः । श्रेयांसि वो दिशतु निहृतकोपचिह्नमालिङ्गनोत्पुलकमासितमिन्दुमौलेः ॥' अहितकृतस्त्वनिष्टदर्शन- श्रवणाभ्याम् । तद्यथोदात्तराघवे-'चित्रमायः--(ससंभ्रमम् ।) भगवन्कुलपते रामभद्र, परित्रायताम् । (इत्याकुलतां नाटयति।) पुनश्चित्रमायः---मृगरूपं परित्यज्य विधाय विकटं वपुः । नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥ रामः--वत्सस्याभयवारिधेः प्रतिभयं मन्ये कथं राक्षसात्रस्तश्चैष मुनिर्विरौति न पुनश्चास्त्येव मे संभ्रमः । मा हासी- नकात्मजामिति मुहुः स्नेहाद्गुाचते न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ।। इत्यनेनानिष्टप्राप्तिकृतः संभ्रमः । इष्टप्राप्तिकृतो यथात्रैव-(प्रविश्य पटीक्षेपेण संभ्रान्तः) बानरः---'महाराअ, एदं खु पवणणन्दगागमणपरिहस-' इत्यादि 'देवस्स हिंदआमन्द- जणणविलुलिदं महुवणम्' इत्यन्तम् । यथा वीरचरिते---- 'एोहि वत्स रघुनन्दन पूर्ण- चन्द्र-' इत्यादि । वहिजो यथा-क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशु- कान्तं' इत्यादि । यथा व–'विरम विरम वढे' इत्यादि । करिजो अथा-सच्छिन्नबन्ध- द्भुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ! रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ।। करिग्रहणं व्यालोपलक्षणार्थम् । तेन व्याघ्रसूकरवानरादिप्रभवा आवेगा व्याख्याताः । अथ विषाद:--'प्रारब्धकार्यासिद्धयादेविषादः सत्त्वसंक्षयः । निःश्वासोच्छ्वासहत्तापसहा- यान्वेषणादिकृत् ॥ यथाह-'आर्ये ताडके, कि हि नामैतत् । अम्बुनि मजन्य- लाबूनि ग्रावाणः प्लवन्ते । नन्वेष राक्षसपतेः स्खलितः प्रतापः प्राप्तोऽद्भुतः परिभवो हि मनुध्यपोतात् । दृष्टः स्थितेन च मया खजनप्रमाथो दूत्यं जरा च निरुणद्धि कथं करोमि ॥ यथा वा-'अर्थिले प्रकटीकृतेऽपि-' इत्यादि । अथ जडता-'अप्र- 'तिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णीभावादग्रस्तत्र ।' इष्टदर्शनाद्यथा---'एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टभाकुला नास्सरत्प्रमुखवर्तिनि प्रिये ॥' अनिष्टश्नवणाद्यथा उदात्तरान चवे-'शक्षसः-तावन्तस्ते महात्मानो निहताः केन राक्षसाः । येषां नायकता प्राप्ता- त्रिशिरःखरदूषणाः ॥ द्वितीयः,-गृहीतधनुषा रामहतकेन । प्रथमः-किमेकाकि- नैव । द्वितीयः-अदृष्ट्वा का प्रत्येति । पश्य तावतोऽस्मद्वलस्य सद्यश्छिन्चशिरवन- मजककुलाकुलाः । कबन्धाः केवलं जातास्तालोत्ताला रणाणे ॥ प्रथमः- यद्येवं तदहमेवंविधः किं करोमि ॥' अथौत्सुक्यम्-'कालाक्षमलमौत्सुक्य रम्येच्छा- 3 काव्यमाला। रतिसंभ्रमैः । तत्रोच्छ्वासखराश्वासहृत्तापखेदविभ्रमाः ॥' यथा---'आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमित्तायताक्षी । हरोपयाने खरिता बभूव स्त्रीणां प्रियालोक- फलो हि वेषः ॥' अथ निद्रा---'मनःसंमीलनं निद्रा चिन्तालस्यलमादिभिः । तत्र जृम्भाङ्गमशाक्षिमीलनोत्स्वपनादयः ॥ यथा-निद्रार्धमीलितहशो सदमन्थराणि नाप्य- र्थवन्ति न च यानि निरर्थकानि । अद्यापि मे मुगदशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वन्ति ॥ यथा च-'प्रहरकमपनीय खं निदिद्रासतोचैः प्रतिपदमुपहूतः केन- विजाहीति । मुहुरविशदवाँ निद्रया शून्यशून्यां ददपि गिरमन्तर्बुध्यते नो मनुष्यः । अथ गर्व:-गर्वोऽभिजनलावण्यवलैश्वर्यादिभिर्मदः । कास्यघर्षणावज्ञा सविलासाझवीक्षणम् ॥' यथा-'मुनिरयमथ वीरस्तादृशस्तप्रियं मे विरमतु परिकम्पः कातरे क्षत्रियासि । तपसि विततकीर्ते प्तकण्डूलदोष्णः परिचरणसमर्थो राघवः क्षत्रि- योऽहम् ॥' यथा वा---'ब्राह्मणातिकमत्यागो भवतामेव भूतये । जामदग्न्यस्तु वो मित्र- भन्यथा दुर्मनायते ॥' अथ बितर्क:-'तर्को विचारः संदेहाद्भूशिरोङ्गुलिनर्तकः ।' यथा---'कि लोभेन विलचितः स भरतो येनैतदेवं कृतं सथः स्त्रीलघुतां गता किमथवा मातैव सा मध्यमा । मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरुमाता तातकलन- मित्यनुचितं मन्ये विधात्रा कृतम् ॥' अथवा-कः समुचिताभिषेकादाय प्रच्यावयेद्गुणज्ये- ठम् । मन्ये ममैव पुण्यैः सेवावसरः कृतो विधिना ॥' अथापस्मृति:--'आवेशो ग्रहदुः- खाद्यैरपस्मारो यथाविधः । भूपातकम्पाप्रखेदलालाफेलोद्मादयः ॥' यथा--'आश्लि- भूमि रसितारमुम्बर्लोलद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्सा- रिणमाशशङ्के ॥' अथ सुप्तम्-'सुप्तं निद्रोद्भवं तत्र श्वासोच्छ्वासक्रियाकरम् ।' यथा-- 'लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालसस्तरे सोपधाने । परिहरति सुषुप्त हालिकद्वन्द्रमारात्कुचकलशमहोष्माबद्धरेखस्नुषारः ॥' अथ विबोधः---विबोधः परि- णामादेस्तत्र जृम्भाक्षिमर्दने । यथा--'चिररतपरिखेदप्राप्तनिद्रासुखानां चरममपि शयिता पूर्वमेव प्रबुद्धाः । अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचकालष- भेदं तरुण्यः ॥' अथामर्षः---'अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता । तत्र खेदशिरः- कम्पतर्जनाताडनादयः ॥' यथा---'प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् । न खैव दूषयिष्यामि रास्नग्रहमहानतम् ॥' यथा च-'युष्मच्छासनलङ्घनाम्भसि मया भग्नेन नाम स्थित प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि । क्रोधोलासि- तशोणितारुणगदस्योच्छिन्दतः कौरवानद्यैकं दिवस ममासि न गुरुनाई विधेयस्तव ॥' अथावहित्यम्-'लज्जाद्यैर्विक्रियागुप्ताववहित्थागविक्रिया । यथा---'एवंवादिनि देवर्षों पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥' अथोग्रता--'दुष्टेऽप- राधदौर्मुख्यचौर्यैश्चण्डलमुग्रता । तत्र खेदशिरःकम्पतर्जनाताडनादयः ॥' यथा जाम- दग्न्यः-'उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषादुद्दामस्यैकविंशस्यवधि विशसतः सर्वतो राजवंश्यान् । पिञ्यं तद्रक्तपूर्ण हृदसवनमहानन्दमन्दायमान क्रोधाग्निं रसरत्नहारः। कुर्वतो मे न खल्लु न विदितः सर्वभूतैः स्वभावः ॥ अथ व्याधिः--'व्याधयः संनि- पाताद्यास्तेषामन्यत्र विस्तरः ।' दिमानं यथा---'अच्छिशं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुभ्योऽर्पिता दत्तं दैन्यमशेषतः परिजने तापः सखिध्वाहितः । अयश्वः पर- निवृतिं ब्रजति सा श्वासः परं खेद्यते विखब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥' अथ मतिः-'भ्रान्तिच्छे दोपदेशाभ्यां शास्त्रादेस्तत्त्वधीमतिः । यथा- 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । बृणते हि विमृश्यकारिणं गुण- लुब्धाः वयमेव संपदः ॥ तथा च---' पण्डिताः साहलिका भवन्ति श्रुवापि ते संतुलयन्ति तत्त्वम् । तत्त्वं समादाय समाचरन्ति खार्थ च कुर्वन्ति परस्य वार्थम् ॥' अयोन्मादः-'अप्रेक्षाकारितोन्मादः संनिपातग्रहादिभिः । तस्मिन्नस्थानरुदितगीतहा- सासितादयः ॥' यथा---'आः क्षुद्र राक्षस, तिष्ठ । क मे प्रियतमामादाय गच्छसि इत्यु- पंकने 'कष्टम् , नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम् । अथमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥' इत्यादि । अथ मरणम्-'मरणं तु प्रसिद्धवादनथेलाच नोच्यते । वीरादा- वुच्यते यद्वा शृङ्गारेभ्यवसायि वा॥' यथा—'संप्राप्तेऽवधिवासरे क्षणमनु बदमवातायनं वारंवारमुपेत्य निष्क्रियतया निश्चित्य किंचिच्चिरम् । संप्रत्येव निवेद्य केलि कुररीः सायं सखी- भ्यः शिशोर्माधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥' इत्यादिवच्छृङ्गाराश्रयाल- म्बनलेन मरणाध्यवसायमात्रमुपनिबन्धनीयम् । अन्यत्र कामचारः । यथा-'पश्यन्तु भवन्तस्ताटकाम्, 'हृन्मसभेदिपतदुत्कटकङ्कपत्रसंवेगतत्क्षणकृतस्फुरदङ्गमझा । नासाकु- टीरकुहरद्वयतुल्यनिर्यदुद्दुद्रुध्वनदसक्नसरा मृतैव ॥' अथ त्रासः-गर्जितादेर्मनःक्षो- भस्त्रासोऽत्रोत्कम्पनादयः। यथा--'त्रस्यन्ति चलशफरीः' इत्यादि । स्तभः खेदोऽथ रोमाञ्चः खरभङ्गोऽथ वेपथुः । वैवर्ण्यमभु प्रलय इत्यष्टौ सात्त्विका मताः ।। ८३ ॥ प्रथमे त्वभिलाषः स्वाद्वितीये चिन्तनं भवेत् । तृतीये तु स्मृतिः प्रोक्ता चतुर्थे गुणकीर्तनम् ॥ ८४ ।। उद्वेगः पञ्चमे प्रोक्तो विलासः षष्ठ उच्यते । उन्मादः सप्तमे प्रोक्तो भवेध्याधिस्तथाष्टमे ॥ ८५ ॥ नवमे जडता प्रोक्ता दशमे मरणं भवेत् । वृहत्समासा गौडी स्याद्रौद्रे वीरे हसे रसे ॥ ८६ ॥ द्वित्रिपदयुक्समासा वैदर्भी रीतिराख्याता । शृङ्गारवीरकरुणबीभत्समयानके योज्या ॥ ८७ ॥ स्पष्टम् । १३ ५० गु० काव्यमाला उत्साहजो भवेद्वीरस्त्रेधा धर्माजिदानतः । श्लाध्यैः सर्वगुणैर्युक्तो नायकस्तत्र वर्ण्यते !! ८८ ॥ 'कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।' 'वीरः प्रतापविनयाध्यवसायसत्त्वमो. हाविषादलयविस्मयविक्रमाद्यैः । उत्साहभूः स च दयारणदानयोगात्रेधा किलात्र मतिग- बंधृतिप्रहर्षाः ॥' प्रतापविनयादिभिर्विभावितः करुणायुद्धदानाद्यैरनुभावितः गर्वधृति- हर्षामस्मृतिगतिवितर्कप्रभृतिभिर्मावित उत्साहः स्थायी स्वदते भावकमनोविस्तारान- न्दाय प्रभवत्येष वीरः । दयावीसे यथा नागानन्दे जीमूतवाहनः । युद्धवीरो यथा--- 'हतानरीन्वीक्ष्य न संतुतोष यथा स तान्प्रेक्ष्य पुरो नभःस्थान् । अमर्त्यभावेऽपि पुनर्ममै- षामभूतपूर्वा भविता रणोऽने । दानवीरो यथा---'त्रिलोकीराज्यविभ्रंशचिन्तामाच्छाद्य दानभूः । उत्सवो ववृधे विष्णोः शरीरेण समं बलेः ॥' प्रस्त्रेदरक्तनयनवदनादिकोधानु. भावरहितो वीरः । अन्यथा रौदः । विवेकसत्त्वाभ्यां विशेषो वीररौद्रयोः ॥ शोकजः करुणो ज्ञेयस्तत्र भूपातरोदने । मोहवैवर्ण्यनिर्वेदप्रलापाश्रूणि वर्णयेत् ॥ ८९ ।। 'इष्टनाशादिभिश्चतोवैलव्यं शोकशब्दभाक । इष्टनाशादनिष्टाप्तौ शोकात्मा करुणो मतः ॥' निःश्वासोच्छ्वासरुदितस्तम्भप्रलपितादयः । खापापस्मारदैन्याधिभरणालस्यसं- भ्रमाः ॥ विधादजननोन्मादचिन्ताद्या व्यभिचारिणः ॥ इष्टबन्धुप्रभृतेर्विनाशादनिष्टस्य बन्धनादेः प्राप्तौ शोकप्रकर्षजः करुणः । इष्टनाशात्करुणो यथा---'अयि जीवितनाथ जीवसीयभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृतिः क्षितौ हरकोपानलभस्म केव- लम् ॥' अनिष्टावाते रत्नावल्यां सागरिकाबन्धने । हासजन्मा समाख्यातो हास्यनामा रसो बुधैः । चेष्टाङ्गवेषवैकृत्याद्वाच्यो हास्यस्य संभवः ॥ ९० ॥ 'न्यङ्गवीडादिभिश्चेतीविकासो हास उच्यते ।' न्यहं वैकृतम् । 'विकृताकृतिवाग्वैधै- रात्मनोऽथ परस्य वा । हासः स्यात्परिपोषोऽस्य हास्यस्त्रिप्रकृतिः स्मृतः ॥' आत्म- स्थान्विकृतवेषभाषादीन्परस्थान्वा विभावानवलम्बमानो हासस्तत्परिपोषात्मा हास्यो यधिष्ठान उत्तममध्यमाधमप्रकृतिभेदात्षड्डिधो भवति । आत्मस्थो यथा-'जातं मे पर- षेण भस्मरजसा यच्चन्दनोठूलनं हारो वक्षसि यज्ञसूत्रमुचितं क्लिष्टा जटाः कुन्तलाः । रुद्राक्षैः सकलैः सरत्नवलयं चित्रांशुकं वल्कलं सीतालोचनहारि कल्पितमहो रम्यं वपुः कामिना ॥' परस्थो यथा---'खिज्ञोऽसि मुञ्च शैलं बिमुमो क्यमिति वदत्सु शिथिलभुजः। भरभुन्नचिततबाहुषु गोपेषु हसन्हरिर्जयति ।' स्मितमिह विकासिनयनं किंचिलक्ष्यद्विज हसितम् । मधुरस्वरं विहसितं सासशिर:कम्पमुपहसितम् ।। अपहसितं साम्राक्षं विक्षि- प्ताङ्गं भवत्यतिहसितम् । द्वे दे हसि। चैषां ज्येष्ठ मध्येऽधमे क्रमशः ॥ उत्तमस्य वपररसरत्नहारः। विकारदर्शनास्मितहासते । विहसितापहतिते मध्यमस्य । अपहसितातिहसितेऽधमस्य । व्यभिचारिणश्चास्य---'निद्रालयलमग्लानिमूर्छास्तु सहचारिणः ।' विस्मयोत्थोऽद्भुतो ज्ञेयः स चासंभाव्यवस्तुनः । दर्शनाच्छ्वणाद्वापि देहिनामुपजायते ॥ ९१ ॥ नेत्रप्रकाराः पुलकः स्नेदो निस्पन्दता तथा । अनुभावा बद्भुतस्य वाणी स्वादन गद्दा ॥ १२ ॥ 'विसयश्चित्तविस्तारो वस्तुमाहात्म्यदर्शनात् । अतिलोकैः पदाथैः स्याद्विस्मयात्माद्भुतो रसः ॥ कर्मास्य साधुवादाश्रुवमथुखेदगदगदाः । हर्षावेगवृतिप्राया भवन्ति व्यभि- चारिणः ॥' लोकसीमातिवृत्तपदार्थवर्णनादिविभानितः साधुवादाद्यनुभावपरिपुष्टो विस्मय- स्थायिभावो हर्षवेगादिच्यभिचारिभावितो रसोऽद्भुतः । यथा-'कराग्रस्थापितगिरि हरि निर्निमिषेक्षणाः । अपश्यन्गोपिका दन्तदष्टजिह्वा मुदान्विताः । घोरवस्त्ववलोकेन भीतिजन्मा भयानकः । वनितानीचबालेघु बहुधा वर्णयन्त्यमुम् ॥ ९३ ॥ दिग्दर्शनं चास्यशोषो गद्दा गीश्च संभ्रमः । कम्पस्त्रासश्च वैवयं संमोहोऽप्यत्र वर्ण्यते ॥ ९४ ॥ रौद्रशक्त्या तु जनितं चित्तवैलव्यदं भयम् । विकृतवरसत्त्वादेर्भयभावो भयानकः ॥ सर्वाङ्गवेपथुखेदशोषवैचित्वलक्षणः । दैन्यसंभ्रममोहादित्रासादिस्तस्य सोदरः ॥ रौद्र- खरश्रवणाद्रौद्रसत्त्वदर्शनाच्च भयस्थायिभावप्रभवो भयानको रसः । तत्र सर्वाङ्गवेपथुप्र- भृतयो दैन्यादयश्च व्यभिचारिणः । यथा---'ग्रीवाभाभिराम-' इत्यादि शकुन्तलायाम् ॥ रौद्रः क्रोधात्मको ज्ञेयः कोपः परपराभवात् । भीष्मक्रियो भवेदुनः सामर्षस्तत्र नायकः ॥ ९५ ॥ भुजाधातः स्वप्रशंसा शस्त्रोत्क्षेपोऽथ भृकुटिः । आक्षेपो दलनं शत्रोर्वर्णयन्ति कवीश्वराः॥ ९६ ॥ 'प्रतिकूलेषु तैष्ण्वस्य प्रबोधः क्रोध उच्यते । क्रोधो मत्सरवैरिकृतमथैः पोषोऽस्य रौद्रो मुहुः क्षोभः खाधरदंशकम्पभृकुटिदास्परागैर्युतः । युद्धोलासविकत्थनांसधरणी- घातप्रतिज्ञाग्रहैरत्राममदौ स्मृतिश्चपलतासूयौत्र्यवेगादयः॥ मात्सर्यविभावो रौद्रो यथा----- 'वं ब्रह्मवर्चसधरो यदि वर्तमानो यद्वा स्वजातिसमयेन धनुर्धरः स्याः । उग्नेण भोस्तव तपस्तपसा दहामि पक्षान्तरस्य सदृशं परशुः करोतु ॥ वैरिकृतादिविभावो यथा- "लाक्षागृहानलविषानसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्य पाण्डवक- धूपरिधानकेशान्स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥' इत्येवमादिविभावैः प्रखेदकाव्यमाला। नयनारुणताउनुभावैरम/दिव्यभिचारिभिः क्रोधपरिपोषो रौद्गः । परशुरामभीमसेनदु- र्योधनादिव्यवहारेषु वीरचरितवेणीसंहारादावक्गन्तव्यः ।। जुगुप्सात्माथ बीभत्सः स्यादहृयश्रुतीक्षणैः । निष्ठीवनास्यभङ्गादि महतां नात्र वर्ण्यते ॥ ९७ ॥ 'जुगुप्सा गर्हणार्थी वा दोषमाहात्म्यदर्शनात् ।' 'बीभत्सः कृमिपूतिगन्धिकलिलप्रायै- र्जुगुप्सैकभूरुद्वेगी रुधिरानकीकसवसास्नाय्वादिभिः क्षोभणः । वैराग्याजघनस्तनादिषु घृणायुक्तो विभावतो नासावऋविकूणनादिभिरिहावेगार्तिशङ्कादयः ॥' अत्यन्ताहृयकृमि- पूतिगन्धिप्रायविभावोद्भूतजुगुप्सास्थायिभावपरिपोषलक्षण उद्वेगी बीभत्सः । यथा- 'उत्कृत्योत्कृत्य कृत्तिं प्रथममय पृथूच्छूनभूयांत्ति मांसान्यंसस्फिक्पृष्ठपिण्डाद्यवयवसु- लभान्युप्रतीनि जग्ध्वा । आर्तः पर्यस्त नेत्रः प्रकटितदशनः प्रेतरङ्कः करकादकस्थाद- स्थिसंस्थं स्थपुटगतमपि ऋव्यमव्यग्रमत्ति ॥' रुथिरान्त्रकीकसवसामांसादिविभावः क्षोभणो बीभत्सो यथा---'अन्नप्रोतबृहत्कपालनलकक्रूरकणकङ्कणप्रेतद्भरिविभूषणारवभरैराघो- षयन्त्यम्वरम् । पीतच्छर्दितरक्तकर्दमघनप्रारभारघोरोलसद्यालोलस्तनभारबन्धुरवपुर्वद्धा- दरं धावति ॥' रम्येष्वपि रमणीजघनस्तनादिषु घृणायुत्तो बीभत्सो यथा—'लालां वकासवं बेत्ति मांसपिण्डौ पयोधरी । मांसास्थिकूट जघनं जनः कामाग्रहातुरः॥' न चायं शान्त एव । विरलोक्तेः । यतो बीभत्समानो विरज्यते ॥ सम्यग्ज्ञानसमुद्भूतः शान्तो निःस्पृहनायकः । रागद्वेषपरित्यागात्सम्यग्ज्ञानसमुद्भवः ॥ ९८ ॥ इदं वाग्भटालंकाररीत्या । काव्यप्रकाशे तु-'निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः।' दशरूपके तुरत्युत्साहजुगुप्साः क्रोधोत्साहौ स्मयो भयं शोकः । शममपि केचित्पाहुः पुष्टि व्येषु नैतस्य ॥' इति । अत एवोक्तं मूले-काव्ये' इति । 'कश्चित्सदम्भो दम्भोलिसदृशं वक्ति चेद्वचः। तथापि नैति विकृति शान्तः सागरधीरधीः ॥' स्निग्धा हृष्टा तथा दीना क्रुद्धा हप्ता भयान्विता । जुगुप्सिता विस्मिता च शान्तेति रसदृष्टयः ॥ ९९ ।। जगति यद्यपि सन्ति परःशता गुरुतमा रचना बुधबुद्धये । ननु तथापि मया न वृथा कृतागुरुतमा रचनाबुधबुद्धये ॥ १० ॥ शतात्परे पर शताः । 'परःशताद्याने येषां परा संख्या शतादिकात्' इत्यमरः । नन्विति वावयालंकारे । अगुरुतमा रचना अबुधबुद्धये बालबोधाय ।। गुरुपादाम्बुजद्वन्द्वप्रसादावाप्तसन्मतिः । त्रिपाठी शिवरामाख्यो हारं पूरितवानमुम् ॥ १०१॥ इति श्रीमच्छिवरामत्रिपाठिकृतो लक्ष्मीविहाराख्यटीकासमेतो रसरत्नहारः।