सामग्री पर जाएँ

शिवपादादिकेशान्तवर्णनस्तोत्रम्.

विकिस्रोतः तः
शिवपादादिकेशान्तवर्णनस्तोत्रम्.
शङ्कराचार्यः
१९३०

काव्यमाला।
श्रीशंकराचार्यकृतं
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।

कल्याणं वो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-
क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रावदानः ।
तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी
कैलासः शर्वनिर्वृत्यभिजनकपदं सर्वदा पर्वतेन्द्रः ॥ १॥

यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगमं
यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः ।
मौर्वी दर्विकराणामपि च परिवृढः पूस्त्रयी सा च लक्ष्यमं
सोऽव्यादव्याजमस्मानशुभभिदनिशं नाकिनां श्रीपिनाकः ॥ २॥

आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां
मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।
क्रूरः शूरायुधानामपि च परिभवं स्वीयभासा वितन्व-
न्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥ ३ ॥

कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां
काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः ।
पायाद्वः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं
शूल: श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥ ४ ॥

देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-
प्रस्तारानत्युदारान्धिपठिषुरिव यो नित्यमत्यादरेण ।
आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्ग समोदं
सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥ ५ ॥

कण्ठप्रान्तावसज्जत्कनकमयमहापण्टिकाघोरघोषैः
कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः ।
चण्डप्रोद्दण्डशृङ्गः ककुदकवलितोत्तुङ्गकैलासशृङ्गः
कण्ठेकालस्य वाहः शमयतु शमलं शाश्वतः शाकरेन्द्रः ॥ ६ ॥

निर्यदानाम्बुधारापरिमलतरलीभूतरोलम्बपाली-
झंकारैः शंकराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः ।
शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता
शर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्रः ॥ ७ ॥

यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यबीजैकमत्या-
द्यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते ।
भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितकोञ्चशैलः
संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ ८॥

आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं
चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः ।
रागद्वेषादिनानाविधमृगपदलीभीतिकृद्भूतभर्ता
कुर्वन्नाखेटलीलां परिलसतु मनःकानने मामकीने ॥९॥

नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिकुतैरत्युदोरै-
श्चिचानन्दं विधत्ते सदसि भगवतः संततं यस्य नन्दी।
चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितखामिसत्का-
रोत्कर्षोद्यत्प्रसादाः प्रमथपरिवृढाः पान्तु संतोषिणो वः ।। १०॥

अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै-
बिम्बेनेन्दोश्च कम्बोपरि विलसता विद्रुमेणोत्पलाभ्याम् ।
अम्भोदेनापि संभावितमुपजनिताडम्बरं शम्बरारेः
शंभोः संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः ॥ ११॥

वेणीसौभाग्यविस्मा पिततपनसुताचारुवेणीविलासा-
न्वाणीनिधूतवाणीकरतलविधृतोदारवीणाबिरावान् ।
एणीनेत्रान्तमङ्गीनिरसननिपुणापाङ्गकोणानुपासे
शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ॥ १२ ।।

मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीय
प्रत्युप्तानर्धरलैर्दिशि दिशि भवनैः कल्पितं दिक्पतीनाम् ।
उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं
हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम चन्द्रार्धमौलेः ॥ १३ ॥

स्तम्भैर्जम्भारिरत्नप्रेकरविरचितैः संभृतोपान्तभागं
शुम्भत्सोपानमार्ग शुचिमणिनिचयैर्गुम्फितानल्पशिल्पम् ।
कुम्भैः संपूर्णशोभं शिरसि सुघटितैः शातको म्भैरकम्पैः
शंभोः संभावनीयं सकलमुनिजनैः खस्तिदं स्यात्सदो नः ॥ १४ ॥

न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो
हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुज्ज्वलैरुज्ज्वलात्मा ।
वासोरलेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीः
पीठः पीडाभरं नः शमयतु शिवयोः खैरसंवासयोग्यः ॥ १५ ॥

आसीनस्याधिपीठं त्रिजगदधिपतेरङ्ग्रिपीठानुषक्तौ
पाथोजामोगभाजौ परिमृदुलतरोल्लासिपमादिरेखौ ।
पातां पादावुभौ तौ नमदमरकिरीटोल्लसञ्चारुहीर-
श्रेणीशोणायमानोन्नतमखदशकोद्भासमानौ समानौ ॥ १६ ॥

यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु-
लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।
शंभोः संभावनीये पदकमलसमासङ्गतस्तुङ्गशोभे
मङ्गल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥ १७ ॥

अङ्गे शृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते
शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमेतत्पदाग्रे ।
इत्थं शङ्कां नतानाममरपरिषदामन्तरङ्कूरयत्त
त्संघातं चारुजङ्गायुगमखिलपतेरंहसः संहरेन्नः ॥ १८ ॥

जानुद्वन्द्वेन मीनध्वजनृवरसमुद्गोपमानेन साकं
राजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ ।
ऊरू गौरीकराम्भोरुहसरससमामर्दनानन्दभाजो
चारू दूरी क्रियेतां दुरितमुपचितं जन्मजन्मान्तरे नः ॥ १९ ॥

आमुक्तानवरत्नप्रकरकरपरिप्वक्तकल्याणकाञ्ची-
दाना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण ।
संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे
नित्यं नर्नतु चित्तं मम निखिलजगत्स्वामिनः सोममौले ॥२०॥

संध्याकालानुरज्यद्दिनकरसरुजा कालधौतेन गाढं
व्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन ।
उद्दीप्रैः खप्रकाशैरुपचितमहिमा मन्मथारेरुदारो
मध्ये मिथ्यार्थसध्य्रङ्मम दिशतु सदा संगतिं मङ्गलानाम् ॥ २१ ॥

नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-
दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती।
श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
सा मा सोमाघमौले सुखयतु नितरां रोमवल्लीमतल्ली ॥ २२ ॥

आश्लेषेष्वद्विजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क-
व्यासङ्गादुद्यदद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् ।
दक्षारातेरुदूढपतिनवमणिमालावलीभासमानं
वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥ २३ ॥

वामाङ्के विस्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाः
कान्ताया वामवक्षोरुहभरशिखरामर्दनव्यग्रमेकम् ।
अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिन्दुमौले-
र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥ २४ ॥

संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा-
त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम् ।
मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोमा
सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ॥ २५ ॥

हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-
रुद्योतन्त्या नितान्तं धवलघवलया मिश्रितो दन्तकान्त्या ।
मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः
सद्योजातस्य दद्यादधरमणिरसौ संपदा संचयं नः ॥ २६ ॥

कर्णालंकारनानामणिनिचयरुचां संचयैरञ्जितायां
वर्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासंनिभायाम् ।
पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवासस्य शंभो-
र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥ २७ ॥

अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना-
मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टावदाने ।
भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे
भक्तालीमालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते ॥ २८ ॥

याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां
येषामाहुः खरूपं जगति मुनिवरा देवतानां त्रयीं ताम् ।
रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दिन्दिरेभ्य-
स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥ २९॥

वामं वामाङ्कगाया वदनसरसिजव्यालगगद्वल्लभाया
ध्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् ।
भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे
दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥ ३०॥

यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ
काश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रम् ।
तस्सिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे
कालारेः फालदेशे विहरतु हृदयं वीतचिन्तान्तरं नः ॥ ३१ ॥

स्वामिन्गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्ती
धन्यां कन्यां खरांशोः शिरसि वहति किंन्वेष कारुण्यशाली ।
इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ-
च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥ ३२॥

शृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः
सूनैराबद्धमालावलिपरिविगलत्सौरभाकृष्टभङ्गम् ।
तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृङ्गं
संघं नः संकटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥ ३३ ।।

वक्राकारः कलङ्की जडतनुरहमप्यजिसेवानुभावा-
दुत्तंसत्वं प्रयातः सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः ।
तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं
वन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥ ३४ ॥

कान्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज-
न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृति पादभाजाम् ।
सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारे
श्वेतच्छत्राख्यशीतपुतिरपहरतादापदस्तापदा नः ॥ ३५ ॥

दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां
रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम् ।
उद्वेलद्धाहुवल्लीविवलनसमये चामरान्दोलिनीना-
मुद्भूतः कङ्कणालीवलनकलकलो वारयेदापदो नः ॥ ३६ ॥

खौँकःसुन्दरीणां सुललितवपुषां खामिसेवापराणां
वल्गभूषाणि वक्राम्बुजपरिविगलन्मुग्धगीतामृतानि ।
नित्यं नृत्यान्युपासे भुजविधुतिपदन्यासभावावलोक-
प्रत्युद्यत्प्रीतिमाद्यामथनटनटीदत्तसंभावनानि ।। ३७ ।।

स्थानप्रात्या स्वराणां किमपि विशदतां व्यञ्जयन्मनुवीणा-
खानावच्छिन्नतालकमममृतमिवाखाद्यमानं शिवाभ्याम् ।
नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥ ३८ ॥

चेतोजातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां
पाणिद्वन्द्वाग्रजासत्सुललितरणितखर्णतालानुकूला ।
स्वीयारावेण पाथोधरस्वपटुना नादयन्ती मयूरी
मयूरी मन्दभावं मणिमुरवभवा मार्जना मार्जयेन्नः ॥ ३९ ॥

देवेभ्यो दानवेभ्यः पितृमुनिपरिषसिद्धविद्याधरेभ्यः
साध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः ।
श्रीकैलासारूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः
सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥ ४० ॥

ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः
किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् ।
संपज्जातं समग्रं सदसि बहुमति सर्वलोकप्रियत्वं
संप्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥४१॥