कनकधारास्तोत्रम् (मूलसहितम्)

विकिस्रोतः तः
कनकधारास्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्री ॥

॥ कनकधारास्तोत्रम् ॥


अङ्गं हरे पुलकभूषणमाश्रयन्ती
 भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला
 माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥

मुग्धा मुहुर्विदधती वदने मुरारेः
 प्रेमत्रपाप्रणिहितानि गतागतानि ।
मालादृशोर्मधुकरीव महोत्पले या
 सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २ ॥

विश्वामरेन्द्रपदविभ्रमदानदक्ष-
 मानन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्द्ध-
 मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ३ ॥

आमीलिताक्षमधिगम्य मुदा मुकुन्द-
 मानन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
 भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ४ ॥

बाह्यन्तरे मधुजितः श्रितकौस्तुभेया
 हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
 कल्याणमावहतु मे कमलालयायाः ॥ ५ ॥

कालाम्बुदालिललितारसि कैटभारे-
 र्धाराधरे स्फुरति यत्तटिदङ्गनेव ।
मातुः समस्तजगता महनीयमूर्ति-
 र्भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ६ ॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावा-
 न्माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेतदिह मन्थरमीक्षणार्धं
 मन्दालसं मकरालयकन्यकायाः ॥ ७ ॥

दद्याद्दयानुपवनो द्रविणाम्बुधारा-
 मस्मिन्न किञ्चन विहंगशिशौ विषण्णे ।
दुष्कर्मधर्ममपनीय चिराय दूरं
 नारायणप्रणयिनीनयनाम्बुवाहः ॥ ८ ॥

इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
 दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
 पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ९ ॥

गीर्देवतेति गरुडध्वजसुन्दरीति
 शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
 तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
 रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
 पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११ ॥

नमोऽस्तु नालीकनिभाननायै
 नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै
 नमोऽस्तु नारायणवल्लभायै ॥ १२ ॥

सपत्कराणि सकलेन्द्रियनन्दनानि
 साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
 मामेव मातरनिशं कलयन्तु मान्ये ॥ १३ ॥

यत्कटाक्षसमुपासनाविधिः
 सेवकस्य सकलार्थसम्पदः ।
संतनोति वचनाङ्गमानसै-
 स्त्वां मुरारिहृदयेश्वरीं भजे ॥ १४ ॥

सरसिजनिलये सरोजहस्ते
 धवलतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
 त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १५ ॥

दिग्हस्तिभिः कनककुम्भमुखावसृष्ट
 स्वर्वाहिनीविमलचारुजलाप्लुताङ्गीम् ।
प्रातर्नमामि जगता जननीमशेष
 लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १६ ॥

कमले कमलाक्षवल्लभे त्वं
 करुणापूरतरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां
 प्रथमं पात्रमकृत्रिमं दयायाः ॥ १७ ॥

स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं
 त्रयीमयीं त्रिभुवनमातरं रमाम् |
गुणाधिका गुरुतरभाग्यभाजिनो
 भवन्ति ते भुवि बुधभाविताशयाः ॥ १८ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभग-
वत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
कनकधारास्तोत्रं सम्पूर्णम् ॥