सामग्री पर जाएँ

रामाष्टप्रासः

विकिस्रोतः तः
रामाष्टप्रासः
रामभद्रदीक्षितः
१९१५

श्रीरामभद्रदीक्षितविरचितो
रामाष्टप्रासः।
सेतुशास्त्रिविरचितविषमपदटीकया समेतः।

पारावारपयोविशोषणकलापारीणकालानल-
ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः।
सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती
धर्मो विग्रहवानधर्मविरति धन्वी स तन्वीत नः ॥
रामचन्द्रं नमस्कृत्य क्रियते सेतुशास्त्रिणा ।
टीका काठिन्ययुक्तानां पदानामर्थबोधिका ।

अव्यादर्ककुलाब्धिकौस्तुभमणिदिव्यारविन्देक्षणो
भव्याविष्कृतिलम्पटेषुपटलीलव्याशराधीश्वरः ।
रव्यासादितदो:प्रतापतुलनो हव्याशभूसुन्दरः
सव्यासव्यकरात्तचापविशिखः क्रव्याशवैरी विभुः ॥ १ ॥

अव्यात् रक्षतात् । अवधातुः रक्षणाद्यर्थः । भव्यं मङ्गलम् । 'भावकुं भविकं भव्यम्' इ- त्यमरः । तस्य आविष्कृतिः उत्पादनं तत्र लम्पटा समर्था इषुपटली बाणसमूहः तया लव्यः छेद्यः आशराधीश्वरः रावणः यस्य स तथोक्तः। रविणा सूर्येण आसादिता दोःप्रता- पतुलना बाहुप्रतापसाम्यं यस्य सः। हव्यं अश्नातीति हव्याशः अग्निः तद्भवः सुब्रह्मण्यः स इव सुन्दरः सौन्दर्यवान् । क्रव्यमश्नन्तीति क्रव्याशाः राक्षसाः तेषां वैरी शत्रुः ॥

अम्बा कोसलनन्दना दशरथो लम्बालकान्तं पिता
यं बालं समवेक्ष्य कैरवसुहृद्विम्बाननं नन्दिनौ ।
शम्बामर्शसमाङ्गवानरचमूसंबाधबद्धाम्बुधिं
तं बाणाहतरावणं शरणमालम्बामहे राघवम् ॥ २ ॥

अलकाः चूर्णकुन्तलाः तेषां अन्तानि अग्राणि लम्बानि अलकान्तानि यस्य सः । कैरवसुहृत् चन्द्रः तस्य बिम्बं मण्डलम् । 'बिम्बोऽस्त्री मण्डलं त्रिषु' इत्यमरः । तदिव आननं मुखं यस्य सः । शम्बामर्शः वज्रस्पर्शः । तं राधवं रघोः गोत्रापत्यं रामं शरणं रक्षकं आलम्बामहे । वयमिति शेषः ।।

अम्भोदद्युतिमर्कवंशतिलकं कुम्भोरुलङ्कापुरी-
रम्भोरुकुचबाष्पपूरपतनारंभोपयुक्ताहवम् ।
शंभोरायुधचापशैलदलने दम्भोलिकेलीजुषं
तं भो मास्तु गिरां ममेति कलये तं भोगमोक्षप्रदम् ॥ ३॥

कुम्भाविव उरु कुचयोः विशेषणम् महान्तावित्यर्थः । रम्भे इव ऊरू यासां ताः रम्भोर्वः। लङ्कापुर्या विद्यमानाः रम्भोर्वः राक्षस्यः तासां कुचौ तयोः बाष्पपूरः नेत्राश्रुप्रवाहः ।।

अंसासक्तनिषङ्गमाशरचमूहिंसानपेतायुधं
संसारामयभेषजाह्वयपदं हंसान्वयालंकृतिम् ।
पुंसामुत्तममात्तचापविशिखं तं साधुसंसेवितं
शंसामीप्सितदायकं यदि न किं किं साधयेयं फलम् ॥४॥

अंसयोः बाहुमूलयोः आसक्तौ निषङ्गो शरधी यस्य तम् । आशरचम्वाः हिंसायाः अनपेतं आयुधं यस्य तम् । हंसः सूर्यः । 'भानुहंसः सहस्रांशुः' इत्यमरः । तं तादृशं यदि न शंसामि न स्तौमि यदि किं फलं साधयेयम् । न किंचिदपीत्यर्थः ॥

अत्यन्तं विषयास्तुदन्ति हृदयं सत्यं मृषा न त्विदं
नित्यं तेन मलीमसं भवति मे कृत्यं ततो भावि किम् ।
इत्यन्तः परितप्यते रघुपते गत्यन्तरं नास्ति मे
सत्यन्तावसरे त्वमेत्य सहसा भृत्यं तदा पाहि माम् ॥

तुदन्ति । 'तुद व्यथने' 1 न मृषा न मिथ्या । तेन कारणेन मलीमसं' मलिनं भवति ।

ततः भावि भविष्यत्किं कृत्यं न किमपि । इत्यन्तः मनः । अन्तावसरे सति मरणकाले ॥

अस्तूपस्थितमम्बुवृत्तिरिति यो वस्तूनि नापेक्षते
कस्तूरीप्रभृतीनि तस्य विषयाः स्युस्तूलवन्निष्फलाः ।
यस्तूरीकुरुतेऽथ तान्मुरहरो मस्तूनि दध्नो यथा
धुस्तूरभ्रजयीज्य तस्य कृपयैनस्तूर्व मे राघव ॥ ६ ॥

अम्बुवृत्तिः अव्भक्षणम् । उपस्थितं अनायासलभ्यम् । मस्तूनि मण्डानीव । द्युस्तूरम- जयीज्य द्युस् आकाशः तत्र तूर शब्दायमानं यदभ्रं तं जयतीति जयिनी ज्या मौर्वी यस्य । संबोधनम् । 'मौर्वी ज्या शिजिनी गुणः' इत्यमरः । तस्य मे विषयाभिभूतस्य एनः पापं तूवे नाशय । 'कलुषं वृजिनैनोऽघम्' इत्यमरः ॥

अन्ये संसृतिसागरस्य हिमवत्कन्येशमुत्तारकं
मन्येरंस्तमहं तु वेद्मि ननु यो मुन्येकगम्यात्मकः ।
धन्ये जन्म गृहीतवान्रघुकुले जन्ये विभिन्नार्यसृ-
ग्धुन्येषत्करपाटलिम्नि परमा निन्ये नुतिर्ब्रह्मणा ॥ ७ ॥

अहं तं यः रघुकुले जन्म गृहीतवान् उत्तारकं वेद्भि । युद्धे असृग्धुन्या रक्तनद्या ईष- त्करपाटलिम्नि । यस्मिन् रामे इत्यध्याहार्यम् । ब्रह्मणा विधिना नुतिः निन्ये कृता । राव- णवधानन्तरं ब्रह्मागत्य राममस्तौषीदिति रामायणकथात्रानुसंधेया ।

आरोहव्यपनीतमेखलमपास्तोरोजहारं रिपु-
स्त्रीरोदं विरचय्य येन विजयश्रीरोचमानौजसा ।
आरोपाद्विरतं शरस्य धनुषि स्फारोदयत्कीर्तिना
धीरोदात्तमिमं भजे रघुपतिं नीरोगतावाप्तये ॥ ८॥

येन रामेण धनुषि शरस्य आरोपात् विरतम् । उपरतमित्यर्थः । रिपुस्त्रीरोदमित्यस्य विशेषणद्वयमेतत् । आरोहव्यपनीतमेखलं अपास्तोरोजहारं पुंसामाश्रमचतुष्टयवत् स्त्रीणा- माश्रमत्रये अन्त्याश्रमस्य वैधव्यस्यारोहात् व्यपनीतमेखलमित्यर्थः । नीरोगतावाप्तये रोगनिवृत्तये इत्यर्थः ॥

'आशापूरणमाकलय्य भजतां क्लेशापहं सर्वदा
नाशाय द्विषतामुपासत दिशामीशाय मुक्त्या विधेः ।
कीशाकारधरैः सुरैश्च रुरुधे नैशाचरीं यः पुरी-
मीशानायुधमञ्जनाय करुणाकोशाय तस्मै नमः ॥ ९ ॥

रामाष्टपासः।

उपासत क्रियापदम् । 'आस उपवेशने । आड्पूर्वः लडि प्रथमपुरुषबहुवचनमात्मने- पदि । विधेः ब्रह्मणः । करुणाकोशाय दयानिलयाय । कीशाकारधरैः वानररूपिभिः॥

आयामस्फुरदक्षिपद्ममभितो जायानुजाभ्यां युतं
ध्येयाकारमुदारयोगिमनसां कायानुकार्यम्बुदम् ।
मायामानुषमर्कसंततिभुवो दायादमुर्वीपतेः
भूयासं प्रणतः प्रणम्य च शुभप्रायामुपेयां गतिम् ॥ १० ॥

स्ववीक्षणेन सर्वोऽपि वर्धत इति । अभितः आयामेन वैशाल्येन स्फुरत् प्रकाशमानं अ- क्षिपद्मयुगलं यस्य तम् । जाया सीता अनुजः लक्ष्मणः ताभ्यां युतम् । ध्येयःध्यातुं योग्यः आकारः स्वरूपं यस्य तम् । उदारं निर्मलम् । कायानुकार्यम्बुदं कायं शरीरं अनुकरोतीति कायानुकारी अम्बुदः मेघः अस्य तम् ॥

आसन्नक्षितिकन्यकाकुचतटव्यासङ्गिहारावलि-
श्रीसंक्रान्तसविभ्रमाक्षिवलनो हासं वितन्वन्मृदु ।
वासन्तीस्रगलंकृतो मलयजोल्लासं वहन्वक्षसं
दासं रक्षतु मामसौ रधुपतिस्त्रासं निरस्याखिलम् ॥ ११ ॥

आसन्ना समीपस्था या क्षितिकन्यका जानकी तस्याः कुचतटं तत्र व्यासङ्गिनी ल- म्बमाना या हारावली मौक्तिकहारपतिः तस्याः श्रीः शोभा तस्यां संक्रान्तं संनिबद्धं अ- क्षिवलनं अक्षिसंचारः यस्य सः । वासन्तीस्रक् मल्लिकामाला तया अलंकृतः । मलयजो- ल्लासं मलयचन्दनम् । मम अखिलं त्रासं निरस्य मा रक्षतु ॥

आदेहच्युति दुर्जयेन्द्रियतया स्यादेव चेत्पातकं
भूदेवाभिजनेऽपि तद्भवतु नः सीदेम किं तावता ।
वेदेषु स्फुटवैभवं दशमुखच्छेदेन दीप्तौजसं
वैदेहीरमणं प्रणम्य तु वयं मोदेमहि ज्ञायताम् ।। १२ ।।

देहस्य च्युतिः मरणं तदभिव्याप्य आदेहच्युति मरणपर्यन्तम् । दुर्जयानि इन्द्रियाणि य- स्य सः । तस्य भावः तत्ता तया । भूदेवाभिजनेऽपि ब्राह्मणरूपे उत्तमजन्मन्यपि पा- तकं भवतु तावता वयं सीदेम किम् । षद्धातुः विशरणाद्यर्थः । विधिलिडि उत्तमपुरुष- बहुवचनम् ॥

आसीनः कनकासने निजपुरोवासीभवन्मारुति-
र्या सीतेति कृताभिधा भुवि तया श्रीसीममूर्त्या युतः ।
नासीरार्पितहारसाञ्जलिसमीपासीददर्कात्मजो
दासीभूतसुर: सकोसलमहीशासी शरण्योऽस्तु मे ॥ १३ ॥

निजस्य स्वस्थ पुरोवासीभव-मारुतिः यस्य तस्य स तथोक्तः। पुरः स्थितहनुमानित्यर्थः । श्रीसीममूर्त्या अधिकसौन्दर्यवत्या । नासीरं सेनामुखम् । प्रकृते सभायाम् । अर्पितः दत्तः हारः मुक्ताहारः यस्मै सः॥

आदित्वं दधदव्यशेषजगतां यो दिव्यपत्यान्तकृ.
व्द्यादिष्टो विबुधैर्भवान्रिपुहरः स्यादित्यवन्यामभूत् ।
नेदिष्ठं तपसां फलं नवसुधास्वाद्विमन्तः सता-
मादित्यान्वयदीपमाश्रयति तं मे दिक्षु कीर्णं मनः ॥ १४ ॥

यः अशेषजगतां समस्तजगतां आदित्वं आदिकारणं आदिकारणत्वं दधदपि दित्यप- त्यान्तकृत् दितेः अपत्यानि असुराः तेषामन्तकृत् नाशकृत् । व्यादिष्टः प्रार्थितः । नेदिष्ठं अन्तिकतमं नवसुधा असिनवामृत तदिव स्वादु रुच्युत्पादनं इष्टं सतां महताम् । अन्तः मनसि । दीपं प्रकाशनम् । कीर्ण व्याप्तम् ॥

आखावाहितविग्रहो जगति यः शैखावतो यत्कर-
स्तौ खाटप्रवरौ यदीयमनुना मौखानुबन्धोज्ज्वलौ ।
साखादोद्यतकुम्भकर्णजयिनी शाखामृगानीकिनी
रे खामध्यगतावतात्पणिपतल्लेखावलिर्देवता ॥ १५ ॥

आखौ मूषिके । 'खर्वाखुर्वालमूषिका' इति दुर्ग. । आहितं न्यस्तं विग्रहं शरीरं यस्य सः। विघ्नेश्वर इत्यर्थः । यत्करः यस्य शिवस्य करः शेखावतः अग्निमान् तौ खाटप्रवरौ खे अट- न्तीति खाटाः तेषां प्रवरौ श्रेष्ठौ शिवविघ्नेश्वरौ । यदीयमनुना यस्य रामस्य मनुना मन्त्रेण मौखानुबन्धोज्ज्वलौ मुखालंकारसहितौ । एतद्रामतापनीयाख्ये ग्रन्थे प्रसिद्धम् ।। 4 इच्छां मे शृणु राम कामपि विभो कच्छातिरूढातसी-

गुच्छाङ्गप्रम मर्दितुं मम समागच्छान्तरं हस्ततः ।
पृच्छां मा कुरु मृद्यतां कथमिति स्वच्छांशुकीर्ते भवा-
नच्छानत्त्वरितं किमद्रिसदृशं तच्छाम्भवं कार्मुकम् ।। १६ ।।

कच्छः जलसमीपवृत्तिदेशः । 'कच्छमनूपे' इति बोपालितः । तत्राधिरूढा उत्पन्ना अतसी पुष्पविशेषः तस्याः गुच्छं मञ्जरी तदिव अङ्गप्रभा यस्य तस्य संबोधनम् । मम अन्तरं चञ्चलचितं समागच्छ विश । अणुत्वात्कथं मर्दनं संभवतीति पृच्छां मा कुरु । अद्रिसदृशं तत् सीतापरिणयपणनभूतं शाम्भवं कार्मुकं धनुः भवान् नाच्छानत्कि नच्छिन्नवान् किम् । खण्डितवानेवेत्यर्थः । 'छो छेदने श्यनि लुङ्रूपम् । अणुं

यत्नात् मर्दय । अनवयनित्वादेव च्छेदो न प्रार्थितः किंतु मर्दनमेव ।।

ऊहन्ते नियमेन यं नियमिनो गेहं विशन्तो गुहां
यो हंसाकृतिरस्ति देहिषु चतुर्व्यूहं च गृह्णाति यः ।
देहं चेन्द्रियमण्डलं च पृथगेवाहं पदार्थाद्विद-
न्सोऽहं भावनया भजे तमधुना मोहं विना राघवम् ॥१७॥

यं रामं गुहां गेहं विशन्तः । गुहायासिन इत्यर्थः । नियमिनः योगिनः नियमेन चित्तचाञ्चल्यराहित्येन ऊहन्ते तर्कयन्ति । यः देहिपु प्राणिषु हंसाकृतिः परमात्मरूपी अस्ति । चतुर्व्यूहं केशवादिव्यूहं संकर्षणादिव्यूहं वा गृह्णाति स्वीकरोति ।।

ऊरूपर्युपवेशितप्रियतमं मेरूपमानं श्रियः
चारूपस्थितमग्रतो हनुमताध्यारूढसिंहासनम् ।
गीरूढं कविमण्डलस्य चरणस्त्रीरूपितकोपलं
दारूपाहितराज्यसंमदमिमं धीरूहते मामिका ॥ १८ ॥

ऊरूपर्युपवेशिता अङ्कस्था प्रियतमा यस्य तम् । गीरूढं गीर्षु रूढम् । कविमण्डलस्तुत्य- मित्यर्थः । चरणेन पादेत स्त्रीरूपं प्राप्ता एकोपला यस्य तम् । दारूणि पादुकाभ्यां उपाहिता विन्यस्ता राज्यसंपदः येन तम् ।।

एत्याभीक्ष्णमनादिकर्मपटलीं वात्यामिवैप भ्रम-
न्यात्यायाति परत्र चेह च मुहुर्भीत्या च संयुज्यते ।
भीत्यागाय ततश्च भूतकरुणाचैत्यायमानेक्षणं
कात्यायन्यधिनाथकार्मुकमिदं दैत्यारिमालम्बते ॥ १९ ॥

एषः जीवः अनादि: आदिशून्या या कर्मपटली कर्मसमूहः ताम् अभीक्ष्णं पुनः पुन: एति प्राप्नोति । पूर्वकर्मानुगुण्येन जन्म लभत इत्यर्थः । वात्यां वातसमूहम् भीत्यागाय भय विसर्जनायेत्यर्थः । संबोधनम् । ततः तस्मात् कारणात् भूतेषु करुणा तस्याः चैत्या. यमाने ईक्षणे यस्य तम् । चैत्याः रथ्याकोणस्थिताभिज्ञानवृक्षाः ॥

एके माधवमिन्दुमौलिमपरे नाकेशमन्ये नमो.
वाकेनानुसरन्तु न त्वहमपि स्तोकेन तामाश्रये ।
साकेतेशमुपैमि किंतु शरणं या केकसी विश्रव-
स्तोकेनाजनि भीरपास्य खलु तां लोके भजन्तं यशः॥२०॥

एके केचिज्जनाः माधवं विष्णुम्,अपरे इन्दुमौलि शङ्करम् ,अन्ये नाकेशमिन्द्रम् , नमोवा- केन नमःशब्देन अनुसरन्तु नमस्कारं कुर्वन्तु । अहं तु तान् पूर्वोक्तान् स्तोकेनापि किंचिदपि

नाश्रये । या भीतिः विश्रवस्त्तोकेन रावणेन अजनि उत्पन्ना तां भीति अपास्य दूरीकृत्य ॥

एकं साधु करोति यः प्रपतनं साकं धियानन्यया
लोकं तं भुवने नयन्तमभयं पाकं रघूणामपि ।
शोकं मोपगमं कृतान्तविकटभ्रूकम्पवाक्यैरिति
क्ष्माकन्याचिरसंभृतव्रतपरीपाकं तमेवाश्रये ॥ २१

यः अनन्यया अव्यभिचारिण्या प्रपतनं नमस्कारं साधु सम्यक् करोति तनोति तं नमस्कारिणं लोकं जनम् । 'लोकस्तु भुवने जने' इत्यमरः। भुवने जगति अभयं निर्भयं नयन्तं कुर्वाणम् । पाकं परिपक्वफलरूपं डिम्भं वा कृतान्तस्य यमस्य विकटे विस्तृते भ्रूवौ वाक्यानि च तैः शोकं दुःखं मोपगमं इति तमेव राममेव आश्रये ॥ एषा मेऽञ्जलियन्त्रणास्तु पदयोभूषायितैः पांसुभिः

पाषाणं कलभाषिणी कृतवते दोषानपाकुर्वते ।
शेषाकारकरात्तभीमधनुषे दोषाचरेशद्विषे
रोषावेशविशोषिताब्धिपयसे पूषान्वयश्रेयसे ॥ २२ ॥

पदयोः चरणयोः । भूषायितैः पांसुभिः पाषाणं शिलां कलभाषिणी अहल्याम् । अपा- कुर्वते तिरस्कुर्वते । दोषाचरेशः रावणः तस्य द्विषे शत्रवे। पूषा सूर्यः । अञ्जलियन्त्रणा अञ्जलिबन्धः॥

कल्पापायघनारवस्मयभिदा शिल्पाकरेणादिश-
ञ्जल्पाकेन रणे जयस्य धनुषानल्पामरीणां व्यथाम् ।
कल्पागो भजतां स पातु करुणाकल्पावलोकोऽशुभ-
त्कल्पानेकशरः पुरा रघुपतिस्तल्पायिताहीश्वरः ।। २३ ॥

कल्पापायः प्रलयकालः तत्र विद्यमानः यः घनारवः मेघध्वनिः तस्य स्मयः गर्वःतं भिनत्तीति भिद् तेन शिल्पाकरेण चित्राणि कर्माणि कुर्वता रणे जयं जल्पता आदिशन् कुर्वन् भजन् । भजतां कल्पाग: देवदारुः करुणाकल्पावलोकः कृपालंकृतवीक्षण: पुरा अवतारात्पूर्वं विष्णुत्वे तल्पायिताहीश्वरः । शेषशायीत्यर्थः ॥

कर्ता कंजभवात्मना त्रिजगतां भर्ता मुकुन्दात्मना
हर्ता यश्च हरात्मनाघमखिलं स्मर्ता च यस्योज्झति ।
धर्तारं धनुषः शरैः सह तमादर्तारमार्तान्वयं
सर्तारोऽप्यपथे श्रिता रघुपत्तिं वर्तामहे निर्भयाः ॥ २४ ॥

कंजभवात्मनाब्रह्मरूपेण कर्ता स्रष्टा । मुकुन्दात्मना विष्णुरूपेण भर्ता पालकः।हरात्मना शंकरात्मना हर्ता संहारकः। यस्य स्मर्ता। कर्मणि षष्ठी । एवमन्यत्रापि । यत्स्मर्ता उज्झति त्यजति अपथे दुर्मार्गे सर्तारोऽपि वर्तमाना अपि आर्तान्वयं दीनसमूहं अदर्तारं रक्षितारं रघुपतिं श्रिताः आश्रिताः।

कन्तुर्हन्ति मनो विधेयविरहान्मन्तुः क्रमादेधते
किंतु स्मर्यत एव नाङ्घ्रिकमलं हन्तु: पुरां वा मधोः ।
गन्तुर्मे विषयाध्वसीम्नि धनिनां नन्तुश्च कुक्षिंभरेः
सन्तु श्रीरघुवीरपादभजनात्संतुष्यतोऽनेहसः ॥ २५ ॥

कन्तुः इच्छा विधेयविरहात् मनसा यदीप्सितं कार्यं तत्कर्तुमशक्यत्वात् मनः चित्तं हन्ति बाधते । मन्तुः अपराधःपुरां हन्तुः ईश्वरस्य मधोर्हन्तुः विष्णोः एतयोः अङ्घ्रिक- मलं चरणारविन्दं न स्मर्यत एव । धनिनां नन्तुः। कर्मणि षष्ठी। धनिकान्सेवमानस्येत्यर्थः । रघुवीरपादभजनात् संतुष्यतः संतुष्टस्य मे मम अनेहसः दिनानि सन्तु । रघुवीरपादभजने- नैव दिनानि गच्छन्त्विति निष्कृष्टोऽर्थः ॥

कङ्कालाभरणीयचापदलनाटंकारभिन्नाम्बरं
शङ्काकृष्टकुठारभृन्मदशिलाटंकायमानौजसम् ।
लङ्कानायकवाहिनीचरमहातङ्कावहज्यास्वनं
तं कालाम्बुदमेचकं रघुकुलालंकारदीपं भजे ॥ २६ ॥

कङ्कालाभरणः शिवः तत्संबन्धी यः चापः तस्य दलना खण्डनं तस्य टंकारः तेन भिन्नं अम्बरं यस्य तम् । शङ्कया आकृष्टः समीपमागतः यः कुठारभृत् परशुरामः तस्य मदः गर्वः स एष शिला पाषाणः तस्याः टंका शिलाभेदी कश्चन आयुधविशेषः सेव ओजः यस्य तम् । आतङ्कं बहतीति आतङ्कावहः ज्यायाः मौर्व्याः स्वनः शब्दः यस्य तं प्रकाशकम् ।।

कङ्कालैर्द्विषतां नवैः सुखितवान्कङ्कावलि कैतव-
न्यङ्कार्पितशासनो धनघटाशङ्कावहस्तेजसा ।
अङ्कारोपितमैथिलीकुचतटालंकारकस्तूरिका-
पङ्कालेपनकौतुकी दिशतु मे लङ्कारिपुर्मङ्गलम् ॥ २७ ॥

द्विषतां शत्रूणां कङ्कालैः अस्थिभिः कङ्कावलिं गृध्रसमूह सुखितवान् सुखिनं कृतवान् । कैतवन्यङ्कौ मायामृगे मारीचे अर्पितं शासनं शिक्षा येन सः । घनघटा मेघसमूहः । अङ्कं उत्सङ्गं आरोपिता प्रापिता या मैथिली तस्याः कुचतटालंकारकस्तूरिकापङ्कालेपने मकरि- कापत्रादिनिर्माणे कौतुकी ॥

का शङ्का मम कार्तिकेयवपुषाप्याशंसनीयद्युता-
वैशं कार्मुकमाशुदारितवति क्ष्माशंकरे विक्रमैः ।

क्लेशं हन्तुमुपस्थिते रघुरतौ दाशं सखायं गते
कीशं चापि विदेहराजदुहितुः साशं मनः कुर्वति ॥ २८ ॥

कार्तिकेयवपुषापि सुब्रह्मण्यशरीरेणापि आशंसनीया प्रार्थमाना द्युतिर्यस्य सः । ऐशं शैवं कार्मुक धनुः । क्ष्माशंकरे क्षमा भूमिः तस्या शंकरे मङ्गलकरे उपस्थिते सति समी- पस्थिते सति । दाशं गुहं कीशं सुग्रीवमपि सखायं मित्रम् । साशं आशाराहितम् ।।

कामीहे गतिमित्युदञ्चितभयग्रामीणलङ्कापुरी-
सामीचीन्यहरेषुपावकदलद्वामीसुखाग्निस्मयः ।
आमीलकमलोपमाञ्जलिसुरश्चामीकरालंकृतः
स्वामी नः शरणं स एक भुवने भूमीसुतावल्लभः ।। २९ ।।

उदश्चितं उत्पन्नं भयं येषां ते ग्रामीणाः लङ्कावासिनः उदच्चितमयाः ग्रामीणाः य स्याः सा तादृशी या लङ्कापुरी तथा सामीचीन्यं सुखस्थितिः तां हरतीति हरः यः इषुः बाणः तस्य पावकेन अग्निना दलत् निरस्तः वामीमुखाग्निः वडवाग्निः तस्य स्मयः अहंकारः, यस्य सः॥

कारागारसमालसंसृत्तिनिराकाराय सञ्चिन्मयं
धीरा यं शरणं व्रजन्ति भुवने नीरागमोहस्मयाः ।
तारादेवरमुख्यवानरपरीवाराय नीराकर-
स्फाराटोपहराय रावणजिते वीराय तस्मै नमः ॥ ३० ॥

कारागारं बन्द्यागृहं तस्य समाना' या संसृतिः संसारः तस्य निराकाराय निवर्तकाय । सच्चिन्मयं सच्चिद्रूपं यं धीराः तीवभक्तिमन्तः । नीरागमोहस्मयाः रागमोहगर्वरहिताः । तारादेवरः सुग्रीवः । नीराकरः समुद्रः ।।

किं देवरितरैः प्रपन्नहरणे संदेहकृद्भिर्नृणां
विन्देयं यदि तान्विमूढ' इति मां निन्देयुरार्या न किम् ।
किं देयं किमदेयभित्यविदुषं तं देहिनामिष्टदं
वन्दे कंचन वञ्चनामृगरिपुं मन्देतरश्रेयसे ॥ ३१ ।।

प्रपन्नहरणे शरणागतसंरक्षणे संदेहद्भिः इतरैर्देवैः किम् । तान् पूर्वोक्तान् विन्देयं यदि शरणं गतो यदि आर्याः पूज्याः मां विमूढ इति न निन्देयुः किम् । निन्देयुरेवेत्यर्थः । किं देयं दातुं योग्यं कि अदेयं इत्यस्मिन्विषये अविदुषं अविद्वांसम् । सकलेष्टदातारमित्यर्थः।व-

ञ्चनामृगः तस्य रिपुम् ॥

कीर्तिर्यस्य निरस्य कुन्दकुटजस्फूर्तिस्मयं रोदसी-
पूर्तिव्यञ्जितवैभवाञ्चति तुलां कार्तिक्युदारेन्दुना ।
मूर्तिश्रीजितवार्मुचा रघुवरेणार्तिहियेतामुना
मार्तिक्याः स्फुरणं मतेः प्रदिशता मार्तिप्रसूतिर्मम ॥ ३२ ॥

कस्य रामस्य कीर्तिः यशः कुन्दकुटजस्फूर्तिस्मयं कुन्दस्य कुटजस्य तदाख्यपुष्पविशे- षस्य व स्फूर्तिः शोभा तस्याः स्मयं गर्व रोदसीपूर्तिव्यञ्जितवैभवा सती रोदसी द्यावापृथिव्यौ तत्र व्यजितं वैभवं यस्याः सा तथा सती । सर्वत्र व्याप्ता सत्तीति तात्पर्यार्थः । कार्ति- क्युदारेन्दुना शरच्चन्द्रेण तुलां सादृश्यं अञ्चति प्राप्नोति । मूर्तिश्रीजितवार्मुचा स्वदेहका- न्तिजितमेघेन अमुना श्रीरामेण मार्तिवयाः मृत्संबन्धिन्याः । मन्दाया इत्यर्थः । मतेः वुद्धेः स्फुरणं उपर्युपरि रफुरणं प्रदिशता । ददतेत्यर्थः । अमुनेत्यस्य विशेषणमेतत् । मार्तिप्रसूतिः मृतिः मरणं प्रसूतिः जननम् । जननमरणकारिणीत्यर्थः । आर्तिः पीडा ह्रियेत ॥

कुम्भीरप्रमुखाम्बुसत्वनिचितं गम्भीरमुन्मोचना-
रम्भी बाणशतस्य यः खलु पयोधिं भीतिमन्तर्न्यधात् ।
कुम्भीभूस्तुतमाश्रयामि मरुतां तं भीहरं सन्मन:-
कुम्भीशादिशवद्धमारुडाणिस्तम्भीभवन्तं प्रभुम् ॥ ३३ ॥

बाणशतस्य अनेकवाणस्य उन्मोचकारम्भी य. राम कुम्भीरप्रमुखाम्बुसत्वनिचितं कुम्भीरः नक्रः । 'नक्रस्तु कुम्भीरः' इत्यमरः । सः प्रमुखः आदिः येषां तानि अम्बुस- त्वानि तैः निचितं व्याप्तं गम्भीरमगाधं पयोधि समुद्रं भीति भयं अन्तः न्यधात् आद- धान । कुम्भीभू: अगस्त्यः । सन्मनांस्येव कुम्भीशाः गजश्रेष्ठाः तैरनिशं बद्धो यः गारुड- मणिः स इव भवतीति स्तम्भीभवन्तम् । मरूत्तां देवानाम् ॥

गल्लालम्बितरत्नकुण्डलयुगामुल्लासिहारस्तनीं
फुल्लाशोकदलाधरां हृदयभूमल्लानुकल्पेक्षणाम् ।
संल्लापै रमयन्प्रभुः स जगतामल्लामवन्या: सुतां
चिल्लाभाय ममार्य चित्तखुरलीमल्लायमानो भवेत् ॥ ३४ ॥

गल्लयोः गण्डयोः आलम्बितं रत्नकुण्डलयुगं यस्यास्ताम् । हृदयभूः मन्मथः तस्य भल्लौ बाणौ तयोः अनुकल्पे सहशे ईक्षणे तस्याः तान् । अल्लामम्बां अवन्याः सुतां जानकी रमयन् संतोषयन् चिल्लाभाय ज्ञानलाभाय चित्तखुरली चित्तमेव खुरली वालक्रीडास्थानं तत्र मल्लायमानः वीरो भवेत् ।।

गङ्गीयन्नृपवंशमौक्तिकधनुः श्रृङ्गीशकल्पं वह-
न्भङ्गीभिस्तिसृभिः समुज्ज्वलतनौ भृङ्गीकुलश्रीभुषि ।

तुङ्गीभूतमुदां दशाननवधात्त्वं गीयमानां मया
संगीतानि निवृत्य दिव्यसुदृशामङ्गीकुरुष्व स्तुतिम् ॥ ३५ ॥

गङ्गीयन्नृपः गङ्गामात्मन इच्छतीति गङ्गीयन् नृपः भगीरथः स चासौ नृपश्च गङ्गीयन्नृपः तस्य वंशः तस्य मौक्तिकं मुक्ताफलम् । संबोधनमेतत् । शृङ्गिणः पार्वताः तेषां ईशः मेरुः तस्य कल्पं सदृशं धनुः तिसृभिः भङ्गीभिः समुज्वलतनौ भृङ्गीकुलश्रीमुषि भ्रमरकुलवत् श्यामे । एतत्तनाविति अस्य विशेषणम् । वहन्धारयन् । दशाननवधात् तुङ्गीभूतमुदा दिव्यसुदृशा देवस्त्रीणां संगीतानि निवृत्य मया गीयमानां स्तुतिम् ॥

गात्रेषु श्रममग्निमान्द्यमुदरे नेत्रे जडत्वं सह
श्रोत्रेणादिशती जरा विशति चेत्कोऽत्रेरयेन्मास्त्विति ।
दात्रे यत्तु नमोऽधुनापि कलये स्तोत्रेण वित्ताशया
मैत्रे जन्मजुषे कुले कृतनतिर्नेत्रे तदुज्झाम्यहम् ॥ ३६ ॥

गात्रेषु अवयवेषु श्रमम्, उदरे अग्निमान्द्यं अजीर्णताम्, नेत्रे श्रोत्रेण सह जडत्वं बधिरत्वं चादिशती कुर्वाणा जरा वृद्धत्वं विशति चेत् । अत्रास्मिन्विषये मास्त्विति जरा मा विशत्विति कः ईरयेद्वदेत् । अधुनापि वार्धकेऽपि दात्रे यत्किचिद्दानकर्त्रे वित्ताशया स्तोत्रेण यन्नमः कलये करोमि तत् नमः । कर्म । मैत्रे कुले जन्मजुषे जाताय तुभ्यं कृतनतिः कृतनमस्कारः नेत्रे जगन्नायकाय उज्झामि त्यजामि ।

गेया यस्य गुणाः पुनन्ति मनुजान्मायामनुष्यात्मनो
यो यातूनि रणे जघान तरुणीस्तेयानि धीरः शरैः।
दायादं रघुभूभुजां यमृषयोऽपायार्थिनो जन्मनां
कायानाप्तिकृते स्मरन्ति भुवि नः पायादयं राघवः ।। ३७ ॥

मायामनुष्यात्मनः मायया रामरूपं प्राप्तस्य यस्य गेयाः गुणाः मनुजान् पुनन्ति । धीरः यः तरुणीस्तेयानि स्त्र्यपहर्तृणि यातूनि रक्षांसि रणे' शरैः जधान । रघुभूभुजां रघुवंश्यराजानां दायादं पुत्रं यं रामं जन्मनां अपायार्थिनः जन्म निवृत्तिकामाः ऋषयः वसिष्ठाद्याः कायानाप्तिकृते जन्मनिवृत्तये भुवि स्मरन्ति । अयं राघवः ।।

प्रासावस्थितविश्वराक्षसपतिप्रासावलोकोत्थित-
त्रासाधिक्यवशातिनिःसृतगुरुश्वासामरप्रार्थितः ।
व्यासाभिष्टुतवैभवो हरिरिलामासाद्य जात: कुले
भासामीशितुरेव यः स कुशलं मे साधयेद्राधवः ॥ ३८ ॥

ग्रासावस्थिताः लोकभक्षकाः विश्वे अखिलाः राक्षसाः तेषां पतिः रावणः, तस्य प्रांस आयुधविशेषः तस्यावलोकः दर्शनम् तेन उत्थितः त्रासः तस्य आधिक्यं तस्य वशाः अत एव अतिनिःसृतः अत्यन्तमुत्पन्नः गुरुश्वासः दीर्धनिःश्वासः येषां ते तैरमरैः प्रार्थितः। व्यासाभिष्टुतवैभवः व्यासेन मुनिना अभिष्टुतं वैभवं यस्य सः तादृशः हरिः इलां भूमिम् । 'इरा भूवाक्सुराप्सु' इत्यमरः । रलयोरभेदः । आसाद्य प्राप्य भासामीशितुः सूर्यस्य कुले सः राघव एव मे कुशलं साधयेत् ।।

चर्या यस्य खराहवादिरमरीपर्यायगीता भृशं
धुर्या गायकलोकदुस्त्यजविपन्निर्यापणे केवलम् ।
पुर्या किं मरुतां परिक्षयजुषां धुर्यावहन्त्येत्यहं
कुर्यामुत्तरणं त्वमुष्य कथया तर्या भवाम्भोनिधेः ॥ ३९ ।।

यस्य भृशं अमरीपर्यायगीता गायकलोकदुस्त्यजविपन्निर्यापणे गायकलोकस्य गन्धर्व- लोकस्य दुस्त्यजा अनिवर्तनीया विपत् तस्याः निर्यापणे निवृत्तौ केवलं मुख्यतया धुर्या धुरंधराः खराहवादिः खरयुद्धादिः चर्या चरित्रम् । विराजते इति शेषः । परिक्षयजुषा क्षय- वता मरुतां देवानां धुर्यावहन्त्या धुर्या भारः तां वहतीति धुर्यावहन्ती तया। देवान्वहन्त्ये. त्यर्थः। पुर्या पुरेण किम् । न किमपि प्रयोजनम् । इत्यस्मात्कारणात् अमुष्य रामस्य भवाम्भो- निधेः संसारसागरस्य तर्या नावा उत्तरणं कुर्याम् ॥

चूलीभूतजटाकलापमिषुधिव्यालीढवामांसकं
कालीयाधिकभीमकार्मुकधरं नालीकरम्येक्षणम् ।
कालीरङ्गरणस्थरावणशिरस्तालीफल भ्रंशना-
केलीतर्पितकंकवायसशिवापालीकमेकं भजे ॥४०॥

चूलीभूतः शिरोलंकारभूतः जटाकलापः जटासमूहः यस्य तम् । इषुध्या तूणेन । 'तूणे- षुधी उपासङ्गःइति रत्नकोशः । व्यालीढः संयुक्तः वामांसः यस्य तम् । कालीयात् सर्प विशे- षात् अधिकभीमं अधिकभयंकरं यत् कार्मुकं तस्य धरं धरन्तम् । नालीके इव पङ्कजे इत्र रम्ये मनोज्ञे ईक्षणे नेत्रे यस्य तम् । काल्याः रणकाल्याः रङ्गं आवासस्थानं यद्रणं तत्र तिष्ठति इति रणस्थः यः रावणः तस्य शिरांस्येव तालीफलानि तालफलानि तेषां नंशनाक्रान्त- मेव केली तया तर्पिता संतर्पिता कंकवायसशिवाः गृध्रकाकजम्बुकाः तेषां पाली पङ्क्तिः यस्य तमेकं मुख्यम् ॥

जन्याभावितभानुसंततिरिलाकन्यामवाप्तुं प्रियां
धुन्याकल्पशिरःशरासदलनो वन्याविहारप्रियः ।
मुन्याकाङ्क्षितकर्मकृन्निजशरोदन्याकृताम्भोनिधिः
जन्याविद्धदशाननो रघुपतिस्तन्यादभीष्टं मम ॥ ४१ ॥

जन्या जन्म तेन भाविता संभाविता भानुसंततिःसूर्यसंततिर्येन सः इलाकन्यां भूसुतां

प्रियां पत्नी अवाप्तुम् । धुनी गङ्गा आकल्पः आभरणं यस्य तत् धुन्याकल्प शिरः यस्य सः धुन्याकल्पशिराः तस्य शरासनं धनुः तत् दलयति खण्डयति इति दलनः । वन्या वनं तत्र विहारप्रियः । मुनिभिः आकाङ्क्षितानि प्रार्थितानि यानि कर्माणि रावणवधादीनि तानि करोतीति कृत् निजशरैः उदन्याकृतः अल्पसरः तदिव कृतः अम्भोनिधिः समुद्रः यस्य सः। जन्यं युद्धम्। 'युद्धमायोधनं जन्यम्' इत्यमरः। तत्र आविद्धः दशाननः येन सः॥

जातो यो मिहिरान्वये नियमिना नीतो मखं रक्षितुं
शातोदर्यपि येन गौतममुनेः पूतोपलत्वं जहौ ।
छातोमापतिकार्मुकं सदसि यं सीतोपलेभे पति
नातो राघवतोऽपरं शरणमित्यातोद्यमाघोषये ॥ ४२ ॥

मिहिरान्वये सूर्यवंशे । 'मिहिरारुणपूषणः' इत्यमरः । नियमिना विश्वामित्रेण । गौतम- मुनेः शातोदर्यपि वनिता अहल्यापि येन रामेण पूता सती चरणविन्यसनेन उपलत्वं शि- लात्वं जहौ । छातं च्छिन्नं उमापतिकार्मुकं शिवधनुः येन तम् । अतः राघवतः अस्माद्रा- मात् अपरमितरं न शरणं इति आतोद्यं भेरीवाद्यं सर्वेषां श्रवणार्थमाधोषये ॥

जाने न त्वदुपासनं धरणिभूजाने जपं वा मनो-
र्दीनेनापि कृतो जनेन कुरुते योऽनेनसं तं तव ।
स्थाने किं तदितं विधीन्य1दविधायानेहसो यापनं
हे नेतर्जगतामवाध शुभधीदानेन मां केवलम् ॥ ४३ ।।

हे धरणीभूजाने सीतापते, यः रामषडक्षरीमन्त्रजपः दीनेनापि अशुद्धेनापि जनेन कृतश्चेत् तं जपितारं अनेनसं कुरुते तं तव मनोः मन्त्रस्य जपं वा त्वदुपासने वा न जाने । न जानामीत्यर्थः । विधीन् धर्मशास्त्रोक्तविधीन् तदुक्तकर्माणि अविधाय अननु- ष्ठाय अनेहसः दिनस्य यापनं प्रापणमिति यत् तत्स्थाने किम् । योग्यं किम् । अनहमित्यर्थः । हे नेतः हे जगन्नायक, शुभधीदानेन मां केवलं मुख्यतया अव रक्ष ॥

जम्भारिप्रमुखामरेन्द्रमुकुटीसंभाव्यमानाङ्घ्रये
कुम्भाभक्षितिकन्यकाकुचपरीरम्भाधिकाहंयवे ।
दम्भाविष्कृतिदक्षराक्षसरणारम्भातिविक्रान्तदो-
स्तम्भायास्तु ममैष कोसलसुताडिम्भाय सेवाञ्जलिः ॥४४॥

जम्भारिप्रमुखाः इन्द्रादयः ये अमरेन्द्राः तेषां मुकुट्यः ताभिः संभाव्यमाने पूजिते अङ्गी यस्य तस्मै । क्षितिकन्यकाकुचौ सीताकुचौ कुम्भस्याभेव कान्तिरिव आभा ययोः तौ तयोः परीरम्भे आलिङ्गने अधिकं अहंयुः अधिकास्थः । अहंकारवानहंयुः' इत्यमरः। तस्मै दम्भः गर्वः तस्याविष्कृतिः प्रकाशनं तत्र दक्षाः समर्थाः ये राक्षसाः तैः सह रणा- रम्भः तत्र अतिविक्रान्तौ अतिविक्रमयुक्तौ दोस्तम्भौ यस्य कोसलसुताडिम्भाय ।।

जैत्रायासुमतां पुलस्त्ययमिनः पौत्राय दत्ताहवो
धात्रा चन्द्रकलाभृता च गमित: स्तोत्रावलीपात्रताम् ।
गात्राणि प्रयतर्षिचित्तकरिणां तोत्रायितान्युद्वह-
न्भ्रात्रा च प्रियया च मे रघुपतिर्यात्रासु संनह्यतु ।। ४५ ॥

असुमतां प्राणिनां जैत्राय जयिने पुलस्त्ययमिनः पुलस्त्यर्षेः पौत्राय रावणाय दत्ता- हवः दत्तसमरः धात्रा ब्रह्मणा चन्द्रकलाभूता च ईश्वरेण च स्तोत्रावलीपात्रतां स्तुत्यता गमितः प्रापितः तर्षिचित्तकरिणां परिशुद्धर्षिमनसा तोत्रायितानि गजबन्धनस्तम्भाय- मानानि गात्राणि उद्वहन् दधानः स रघुपतिः ।।

तन्द्रावर्जितनृत्तगीतमतिमागिन्द्रावरोधाङ्गना-
मन्द्रारब्धविपञ्चिकास्वरझरीसान्द्रावदत्तस्तवम् ।
चन्द्रालिप्तभुजान्तरं स्मरणतोऽघं द्रावयन्तं नृणां
चन्द्रापीडशरासभङ्गचतुरं तं द्रागुपास्ते मनः ॥ ४६ ॥

तन्द्या आलस्येन । 'तन्द्री प्रमीला' इत्यमरः । वर्जिते रहिते ये नृत्तगीते तयोः मति- भाजः अत्यासक्ताः याः इन्द्रावरोधाङ्गनाः इन्द्रान्तःपुरस्त्रियः । भूभुजामन्तःपुरं स्यादय- रोधनम्' इत्यमरः । रम्भाद्याः मन्द्रारब्धः मन्द्रेण स्मर विशेषेण आरब्धः यः विपञ्चिका- स्वरः वीणास्वरः । 'वीणा तु वल्लकी । विपञ्ची' इत्यमरः । तस्य झर्या प्रवाहेण सान्द्रावदत्तः अधिकतया कृतः स्तवः स्तोत्रं यस्य तम्। चन्द्रालिप्तभुजान्तरं चन्द्रेण कर्पूरादिविशेषेण । 'चन्द्रः कर्पूरकाम्पिल्लसुधांशुस्वर्णवारिषु' इति मेदिनी । आलिप्तं भुजान्तरं वक्षः यस्य तम् । स्मरणतः स्मृत्वा नृणां मनुष्याणां अघं पापम् । 'एनोऽघमंहः' इत्यमरः । द्रावयन्तं निवर्तयन्तम् । चन्द्रापीडशरत्सभङ्गचतुरं शिवधनुःखण्डनपण्डितं मनः द्राक् झटिति उपास्ते । ममेति शेषः।।

तं दातारमभीप्सितस्य सहसा वन्दारवे देहिने
भिन्दानं स्मरतामघानि करुणासंदानितालोकनम् ।
मन्दारब्धमहीसुतादृगलिनीवृन्दानुबन्धस्फुर-
त्कुन्दालीमधुरस्मित्तास्यकमलं वन्दामहे राघवम् ।। ४७॥

अभीप्सितस्य प्रार्थितस्य वन्दारवे स्तोत्रे । 'वन्दारुरभिवादके' इत्यमरः । देहिने प्राणि- ने सहसा अविलम्बेन दातारम् । स्मरतां अघानि पापानि भिन्दानं भेत्तारम् । करुणासंदानितालोकनं करुणापूरभरितालोकनम् । मन्दारब्धमहीसुतादृगलिनीवृन्दानुबन्धस्फुर- त्कुन्दालीमधुरस्मितास्यकमलं मन्दारब्धाः मन्दप्रवृत्ता भूसुता तस्याः दृश एव अलिन्यः भ्रमराङ्गनाः तासां वृन्दं समूहः तस्य अनुबन्धः संबन्धः तेन स्फुरन्त्यः प्रकाशमानाः कुन्दाल्यः लक्षणया कुन्दपुष्पसदृशदन्तावल्यः ताभिः मधुरं स्मितं प्रसन्नं आस्यकमलं यस्य तं राघवं वन्दामहे ॥

तारुण्येन महीसुताकुचतटे चारुण्युदीतस्पृहो
दारुण्यतिसमाश्रिते विभवकृत्कारुण्यवान्पातु नः ।
आरुद्रावलोकितो दिवि सुरैर्भीरुद्रवद्राक्षसो
भीरुद्रावणयौवतो युधि धनश्रीरुद्रवज्ज्यो विभुः ।। ४८ ।।

तारुण्येन यौवनेन चारुणि मनोज्ञे महीसुताकुचतटे सीताकुचतटे उदीतस्पृहः उदीता उत्पन्ना स्पृहा यस्य सः । अङ्गिसमाश्रिते दारुणि पादुकायां विभवकृत् महदैश्वर्यकृत् आरु- द्रात् रुद्रमभिव्याप्य दिव्याकाशे सुरैः देवैः अवलोकितः वीक्षितः भीरुद्रवद्राक्षसः भीरवः भीताः द्रवन्तः धावमानाः राक्षसाः यस्मात्सः । भीरुद्रावणयौवतः भिया रोदितीति भीरुत् युवतीनां समूहः यौवतं भीरुत् रावणयौवतं यस्य सः । घनश्रीः घनस्य श्रीः शोभेव श्रीर्य- स्य सः युधि उद्रवज्ज्यः उत् रवती अधिकशब्दायमाना ज्या मौर्वी यस्य सः ।।

तुल्या यस्य न सन्ति चापकुशलावल्यामिलामण्डले
कल्यासङ्गमुषा यदङ्घ्रिरजसाहल्या पवित्रीकृता ।
कुल्यावज्जलधिं बबन्ध किल यो बल्याशरच्छित्तये
कल्याणाय स मेऽस्तु साशुगधनुर्वल्लया विराजत्करः ॥४९॥

इलामण्डले भूमण्डले । चापकुशलावल्यां धानुष्कसंघे तुल्याः यस्य न सन्ति । कल्या. सङ्गमुषा कल्यं पापं तस्य आसङ्कः संबन्धः तं मुष्णातीति मुषा यदङ्घ्रिविरजसा यच्च- रणपांसुना अहल्या पवित्रीकृता परिशुद्धीकृता । यः रामः बल्याशरच्छित्तये बलिनः ब- लिष्टाः ये आशराः राक्षसाः तेषां च्छित्तिः छेदः तस्मै जलधिं समुद्रं कुल्यावत् अल्पस- रिद्वत् बबन्ध । साशुगधनुर्वल्लया सबाणधनुर्लतया विराजत्करः विराजितहस्तः सः रामः मे कल्याणाय अस्तु॥

त्रस्तोपागतलोकरक्षणविधावस्तोकमुद्यत्कृपो
निस्तोयीकरणे च यो जलनिधेरस्तोपमस्तेजसा ।
शस्तोऽपि स्तुतिकृत्सु पारयति यं न स्तोतुमस्मिन्मया
हस्तोपात्तधनुः शरे भगवति न्यस्तोऽखिलोऽयं भरः ॥५०॥

त्रस्तः भीतः उपागतः समीपं प्राप्तः यः लोकः तस्य रक्षणविधौ अस्तोकं अधिकं उद्यत्कृपः उत्पन्नदयावान् यः। जलनिधेः निस्तोयीकरणे जलशून्यताकरणे तेजसा पराक्रमेण अस्तोपमः उपमानहीनः । स्तुतिकृत्सु स्तुतिकारकेषु शस्तोऽपि समर्थोऽपि यं राम स्तोतुं न पारयति न समर्थों भवति । हस्तोपात्तधनुःशरे हस्तधृतचापबाणे अस्मिन् भगवति

रामे समस्तः भरः भारः न्यस्तः निक्षिप्तः ।।
तृष्णा यद्विषयेषु धीविकलतां पुष्णाति धैर्य च य.
न्मुष्णाति श्रुतिदर्शिते पथि पदं कृष्णामिवान्तं न वा ।
उष्णाभीशुकुलाधिपस्य भजने वृष्णापि वन्द्योजसो
निष्णातस्तु भवन्क्षिपाम्यघगणान्कृष्णानिवाब्दान्मरुत् ॥५१॥

विषयेषु स्रक्चन्दनवनितादिषु तृष्णा आशा धीविकलतां धीशून्यतां पुष्णाति उत्पा- दयति आशां धैर्य च मुष्णाति अपहरतीति यत् तस्मात् श्रुतिदर्शिते वेदोक्ते पथि पदं स्थानं कृष्णामिवान्तं करोमि न वा 'कृष निष्कर्षे' कादिः धातुः। तथापि वृष्णापि इन्द्रे- णापि वन्द्यौजसः उष्णा भीशुकुलाधिपस्य सूर्यकुलाधिपस्य रामस्य भजने निष्णातः समर्थः भवन् मरुत् वायुः अब्दानिव मेधानिव अघगणान् पापनिवहान् क्षिपामि प्रेरयामि 'क्षिप प्रेरणे' शविकरण ॥

त्रातारं कमुपैमि कस्य भुवने भूतानुकम्पेति च
ध्यातासु त्रिदशावलीषु न भवत्येतादृगेकोऽपि यत् ।
वातापत्यनिवेशितप्रणयिनी दूताधिकारं ततः
सीताविभ्रमदेशिकं मृगयते जातादरं मे मनः ॥ ५२ ॥

भुवने भूमौ कं त्रातारं रक्षितारं उपैमि गच्छामि । कस्य भूतानुकम्पा भूतेषु प्राणिषु अनुकम्पा दया । 'कृपा दयानुकम्पा' इत्यमरः । इति त्रिदशावलीषु त्रिदशानां देवानां आवलीषु समूहेषु ध्यातासु सतीषु एतादृक् एष इव एषः रामः स इव एकोऽपि यन्न भवति ततः वातापत्यनिवेशितप्रणयिनी दूताधिकारं सीताविभ्रमदेशिकं रामं मे मनः जातादरं सन्मृगयते अन्वेषति ॥

स्तैमित्यस्पृशि यः स्मृतो हृदि सतां चामित्रषट्कोज्झिते
भूमित्राणकरः शशीव जनितो यो मित्रवंशाब्धिना ।
ओमित्याप वनं नियोक्तरि गुरौ सौमित्रिणा सीतया
यो मिथ्यावचनत्वदोषनुदि तं नौमि त्रिलोकीपतिम् ॥ ५३॥

यः रामः अमित्रषट्कोज्झिते कामक्रोधादिषट्शत्रुरहिते स्तैमित्यस्पृशि स्तिमितस्य भावः स्तैमित्यं निश्चलता तद्वति । निश्चले इत्यर्थः । सतां हृदि स्मृतः भूमित्राणकरः शशीव यः मित्रवंशाब्धिना सूर्यवंशसमुद्रेण जनितः । यः मिथ्यावचनत्वदोषनुदि असत्य- भीरौ गुरौ पितरि नियोक्तरि सति वन गच्छेति प्रेरके सति ओंइति । 'ओमित्यङ्गीकारे। अस्त्विति वनं सौमित्रिणा सुमित्रायाः अपत्येन लक्ष्मणेन सीतया च सह आप प्राप। तं त्रिलोकीपति रामं नौमि नमामि ।।

दत्तातङ्कमुदन्वतेऽस्त्रशिखिना वित्ताधिराजानुजं
कृत्तायस्ततनुं विधाय मरुतां हृत्तापनिर्वापकम् ।
मत्तानेकपचङ्क्रमं प्रणमदायत्तानुकम्पारसं
चित्ताकर्षमृषिव्रजस्य कलये तत्तादृशं राघवम् ॥ ५४ ॥

उदन्वते समुद्राय अस्त्रशिखिना बाणाग्निना दत्तातङ्कं दत्तः कृतः आतङ्कः संतापः येन तम् । वित्ताधिराजानुज कुबेरानुजं रावणं कृत्तायस्ततनुं खण्डितविस्तृतशरीरं विधाय । रावणं हत्वेत्यर्थः । मरुतां देवानां हृत्तापनिर्वापकं हृत्संतापनिवर्तकं मत्तानेकपचङ्गमं अनेकपः गजः । 'हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः । मत्तगजतुल्यगमनं प्रणमदाय- त्तानुकम्पारसं नमत्सु कृपावन्तम् । ऋषिव्रजस्य चित्ताकर्षं मुनिहृदयाकर्षकं तत्तादृशं सः स इव अनन्यसदृशं राघवं कलये भजामि ।।

दानीयो रचित: श्रियामपि रिपोरानीय येनानुजः
पानीयाकरमेव योऽस्त्रशिखिनातानीदपोढस्मयम् ।
जानीते विभवं च यस्य स वसन्मौनी वटद्रोस्तले
यानीमं शरणं मनोविहरणस्थानीकृतं सीतया ॥ ५५ ।।

येन रामेण रिपोः रावणस्य अनुजोऽपि विभीषणोऽपि आनीय स्वनिकटं प्रापय्य श्रियां लङ्काराज्यश्रियां दानार्हः दानीयः रचितः कृतः । पानीयाकरं समुद्रं यः अस्त्रशि- खिना अपोढस्मय वीतगर्व अतानीत् । यस्य विभवं माहात्म्यं वटद्रोतले वसन् मौनी दक्षिणामूर्तिधरः सः शिवः जानीते । सीतया जानक्या मनोविहरणस्थानीकृतं इमं शरणं यानि गच्छानि ।

दूरादुज्झितसद्विधीनपि जनानाराधने स्वे परा-
न्धीरासाद्यपदं नयन्तमवनीभारापनोदक्षमम् ।
धारावाहिकवित्वहेतुभजनं राराज्यमानं श्रिया
श्रीरामायणनामकं सुकृतिनी धीराविशत्येव मे ॥ ५६॥

दूरात् उज्झितसद्विधीनपि कर्मभ्रष्टानपि आराधने भगवदाराधने तत्परान् उद्युक्तान् धीरासाद्यपदं धीरैः जीवन्मुक्तैः आसाद्यं प्राप्यं यत्पदं तन्नयन्तं अवनीभारापनोदक्षमं धारावाहिकवित्वहेतुभजनं श्रिया राराज्यमानं श्रीरामायणनामक राममेव मे सुकृतिनी धीः आविशति ॥

'नाहं पुत्रकलत्रमित्रविषये स्नेहं विहातुं क्षमः
साहंकारमिदं मनश्च न कृतोत्साहं गुरूपासने ।

देहं नश्वरमन्तकस्य न दया हा हन्त तेनोज्झितुं
मोहं नौमि रुचा विडम्बितपयोवाहं रघूणां पतिम् ॥ ५७ ॥

अहं पुत्रकलत्रमित्रविषये स्नेहं विहातुं न क्षमः । इदं मनश्च साहंकारं सगर्वम् , गुरूपा- सनेन कृतोत्साहं च देह नश्वरं अन्तकस्य दया न । तेन मोहं उज्झितुं त्यक्तु रुचा कान्त्या विडम्बितपयोवाहं तिरस्कृतमेषं रघूणा पतिं रामं नौमि ॥

न श्वानो भुवने भवन्ति सकृदयश्वायमाना यथा
विश्वा निर्जरयातयोऽपि च तथा न श्वायित्ता राघवात् ।
पश्वादिद्रुहिणान्तसर्गरसिके विश्वाधिवासे ततो
विश्वामित्रमखारिवैरिणि वयं विश्वासिनः केवलम् ॥ ५८ ।।

भुवने श्वानः कुक्कराः सकृदपि एकदापि अश्वायमानाः अश्व इव आचरन्तीति त- थोक्ताः यथा न भवन्ति तथा विश्वाः समस्ताः निर्जरजातयोऽपि देवाः राघवात् न श्वा- यिताः न वृद्धियुक्ता । श्विधातुः वृद्ध्यर्थकः । ततः पश्वादिद्रुहिणान्तसर्गरसिके विश्वाधिवासे विश्वेषां समस्तानां अधिवासे वासनिलये विश्वामित्रमखारिवैरिणि वयं केवलं विश्वासिनः।

निर्वाण गमिते शरै रणभुवि स्वर्वायुधारिव्रजे
सर्वासामजनिष्ट यः स्तुतिपदं स्वर्वारवामभ्रूवाम् ।
गुर्वादेशगृहीतकाननगतिर्दुर्वारयादोधिभू-
गुर्वापोहनसाहसी स दुरितं निर्वासयेन्मे विभुः ॥ ५९ ॥

यः रामं रणभुवि स्वायुधारिव्रजे स्वरुः ‘वज्रं शतकोटिः स्वरुः' इत्यमरः । स्वर्वा- युधः इन्द्रः तस्यारयः असुराः तेषा व्रजे समूहे निर्वाणं क्षयं शरैः गमिते प्रापिते सति सर्वासां स्वर्वारवामभ्रुवा रम्भादीना स्तुतिपदं अजनिष्ट । गुर्वादेशगृहीतकाननगतिः पितृ- शासनप्राप्तारण्यः दुर्वारयादोधिभूगर्वापोहनसाहसी अतिदुःसहसमुद्रगर्वभङ्गसाहसी सः विभुः श्रीरामः मे दुरितं निर्वासयेत् निवर्तयेत् । प्रार्थनाया लिङ् ॥

नीलाम्भोदनिभं युगान्तविहरत्कालान्तकभ्रूलता-
लीलाञ्चद्धनुरीरितेषुदलितस्थूलाङ्गलङ्काधिपम् ।
फालान्तश्रमशीकरं युधि चलद्वालाञ्चलोद्घोषकृ-
द्गोलाङ्गूलयुतं भजामि विजयश्रीलाञ्छितं राधवम् ।। ६० ।।

नीलाम्भोदनिभं युगान्त विहरत्कालान्तकभ्रूलतालीलाञ्चद्धनुरीरितेषुदलितस्थूलाङ्गलङ्का- धिपं युगान्ते प्रलयकाले विहरन् यः कालान्तकः शिवः तस्या भ्रूलता तस्या लीला यस्य धनुषः तेनेरिताः इषवः तैः दलितः स्थूलाङ्गलङ्काधिपः यस्य तम् । युधि कालान्तश्रम शीकरं चलद्वालाञ्चलोद्घोषकद्गोलाङ्गूलयुतं बलन्ति बालाञ्चलानि अग्राणि येषां ते उद्घोषं कुर्वन्तीति उद्घोषकृतः एवंभूतैः गोलाङ्गूलैः वानरविशेषैः युतं विजयश्रीलाञ्छितं विजयश्रिया राजलक्ष्म्या लाञ्छितं चिह्नितं राघवं भजामि ॥

नैल्यं यद्वपुषः पयोदरुचिभिस्तौल्यं समालम्बते
मूल्यं यस्य कथा करोति कलुषं माल्यं नदीवैश्वरम् ।
लौल्यं मे विषयं निवार्य करुणाशाल्यन्तरङ्गो नृणां
पाल्यं मामपि पश्यतु प्रणमतां वाल्यन्तको यः प्रभुः ।।६१॥

यद्वपुषः नैल्यं नीलिमा पयोदरुचिभिः मेघकान्तिभिः तौल्यं सादृश्यं समालम्बते आ- श्रयति । यस्य कथा कलुषं पापं ऐश्वरं माल्यं नदीव मूल्यं मूलेन बध्यं मूल्यम् । 'नौवयो- धर्म-' इत्यादिना मूलशब्दाद्यत्प्रत्ययः । मे लौल्यम्। स्वार्थे ष्यडप्रत्ययः । विषय विषया- काङ्क्षिणं चक्षुरादि निवार्य प्रणमतां नृणां नृविषये। विषयत्वं षष्ट्यर्थः । करुणाशाल्यन्तरङ्गः दयालुः यः वाल्यन्तकः वालिरिपुः सः प्रभुः मामपि पाल्यं पालितुं योग्यं पाल्य रक्षणीयं पश्यतु । दर्शधातोः लोट् । प्रथमपुरुषैकवचनं प्रार्थनायामर्थे ।

पश्यालीकशरासमञ्जनदशावश्याभिनन्द्यौजसं
पश्यामच्छलभक्तितस्तनुभृतासश्यानपुण्यात्मनाम् ।
शश्याभाननमण्डलां धृतिजितावश्यायशैलां कदा
पश्यामि क्षितिजाकटाक्षपटलीदृश्याकृतिं देवताम् ॥ ६२ ॥

पश्यति लोकानिति पश्यं अलीकं ललाटं तत्रस्थं चक्षुरपि तात्स्थ्यात् अलीके पश्यम- लीकं यस्य सः ललाटाक्षः शिवः तस्य शरासं धनुः तस्य भञ्जनं खण्डनं तस्य दशा तया अवश्य अभिनन्धं ओजः तेजः । 'ओजो दीप्तिप्रकाशयोः । अवष्टम्भो बले धातुतेजसि' इति हैमः। यस्य ताम् । आश्यानपुण्यात्मनां अक्षय्यपुण्यशालिनां तनुभृतां अच्छलभ- क्तितः निष्कपटभक्त्या पश्यां दर्शनीयां शश्याभाननमण्डलां चन्द्रकान्तिसमानमुखमण्डला धृतिजितावश्यायशैलां धैर्यजितहिमवत्पर्वतां क्षितिजाकटाक्षपटलीदृश्याकृतिं सीतावीक्षण- वीक्षणीयमूर्तिं तां देवतां कदा पश्यामि ॥

पाकोऽभूदजनन्दनस्य भुवि य: काकोदरेशेशयो
लोकोपद्रवशान्तये दिविषदामेको जगन्नायकः ।
स्तोकोदञ्चितहासरश्मिविलसद्राकोडुराजाननं
शोकोपक्षतये भजामि तमहं श्रीकोशलाधीश्वरम् ।। ६३ ॥

काकोदरेशेशयः फणीशेशयः । 'काकोदरः फणी' इत्यमरः । शेषशायी एकः मुख्यः जगन्नायकः यः विष्णुः दिविषदां देवानां उपद्रवशान्तये अजनन्दनस्य दशरथस्य पाकः बालः । पोतः पाकोऽर्भकः' इत्यमरः । भुवि अभूत् । सोकोदश्चितहासरश्मिविलस- द्राकोडराजाननं किचिदुत्पन्नहासकान्तिराजमानपूर्णचन्द्रसदृशमुखं तं कोशलाधीश्वर राम अहं शोकोपक्षतये दुःखनिवृत्तये भजामि ॥

पूर्वास्तव्यवधूदृगुत्पलवनीचार्वाकृतीन्दूदयं
वार्वाहध्वनिदायिनं च धनुषे शार्वाय भङ्गक्षणे ।
गीर्वाणारिचमूदधेरतितरामौर्वायमाणं रणे
पूर्वाराधितमाश्रये रघुपत्तिं दूर्वादलश्यामलम् ॥ ६४ ।।

पूर्वास्तव्यवधूदृगुत्पलवनीचार्वाकृतीन्दूदयं पौरनारीनेत्रोत्पलवनसंतोषकरातिमनोज्ञच न्द्रसदृशं भङ्गक्षणे शार्वाय शांकराय धनुषे वार्वाहध्वनिदायिनं वार्वाहः मेघः रणे गीर्वा- णारिचमूदधेः राक्षससैन्यसमुद्रस्य और्वायमाणं और्वः वडवाग्नि- ! 'और्वस्तु वाडवो वड- वानलः' इत्यमरः । पूर्वाराधितं, दूर्वादलश्यामलम् । 'दूर्वा तु शतपर्विका' इत्यमरः । दूर्वायाः दल इव श्यामलं रघुपतिमाश्रये ॥

पेटी विक्रममौक्तिकस्य सुमनोवाटी मुनीन्द्रालिनां
शाटीभावितवल्कला धृतजटाजूटीभवत्कुन्तला ।
चेटीभूतजगदशाननशिर:पाटीपुरुर्वीसुता-
पाटीराङ्कभुजान्तरा मम मनस्याटीकते भावना ॥ ६५ ।।

विक्रममौक्तिकस्य पेटी । स्थानमित्यर्थः । मुनीन्द्रालिनां ऋषिश्रेष्ठश्रमराणां सुमनो- वाटी उद्यानम् । 'वाटी वास्तौ गृहोद्यानकट्योः' इति हैमः । शाटीभावितवल्कलधारिणी धृतजटाजूटीभवत्कुन्तला जटाधारिणी चेटीभूतजगद्दशाननशिरःपाटीषुः चेटीभूतं भृत्य- भूतं जगत् यस्य सः तादृशदशाननस्य रावणस्य शिरःपाटिनः इषवः बाणाः यस्य सः उर्वीसुतापाटीराङ्कभुजान्तरा सीताचन्दनचर्चितवक्षाः तादशी भावना रामविषयभावना मम मनसि आटीकते आगच्छति ॥

प्रालेयांशुनिभाननं सुरतरोद्ले स्थितं सानुजं
शीलेयं हृदि जानकीसहचरं काले यदि त्वन्तिमे ।
फालेषु भ्रमितभ्रुवो यमभटाः कौलेयकैर्दारुणै-
रालेह्यापि न शक्नुयुर्जनयितुं भीलेशमप्येव मे ॥ ६६ ॥

प्रालेयांशुनिभाननं चन्द्रनिभाननं सुरतरोः कल्पवृक्षस्य मूले स्थितं सानुजं जानकी- सहचरं अन्तिमे काले मरणकाले हृदि शीलेयं यदि फालेषु भ्रमितभ्रूवः यमभटाः दारुणैः कौलेयकैः श्वभिः । 'कौलेयकः सारमेयः' इत्यमरः । आलेह्यापि जिह्वाभिः ] मे भीलेश-

मपि जनयितुं न शक्नुयुः । न समर्था इत्यर्थः ॥

प्रासाथ प्रयतेत चेद्गिरि तदा का सारवत्ता कवे-
र्हासायैव तु सा भवेन्मतिमतामासादिता चेत्पुरः ।
त्रासादेव विना तथा विरचिता मे साहितिः प्रासभा-
ग्भासा निर्जितमेग राघव कृपामासारयायाः श्रुतौ ॥६७॥

प्रासाय प्रयतेत चेत् यत्नः कृतः चेत् तदा कवेः गिरि वाचि का सारवत्ता सारता। नास्तीत्यर्थः । कि च प्रासबद्धसाहितिः मतिमतां पुरः आसादिता प्राप्ता चेत् भृशं हासा- यैव भवेत् । त्रासादेव विना भयं विना तथा मे साहितिः प्रासभाक् प्रासबद्धा विरचिता भासा निर्जितमेष हे राघव, अस्याः श्रुतौ श्रवणकाले कृपां आसारय वर्षय ॥

प्राजापत्यचरुप्रक्लृप्तजनन: क्ष्माजामवाप्य प्रिया-
माजावुत्कमपि क्षणेन विदधे यो जामदग्न्यं जितम् ।
आजान्वायतबाहुरन्तिकमहीभाजानुजेनावृतः
पूजाकर्मफलं सतां मनसि मे राजा रघूणां वसेत् ॥ ६८ ।।

यः प्राजापत्यचरुप्रक्लृप्तजननः ब्रह्मप्रेषितदिव्यपायससंभूतः क्ष्माजां सीतां प्रियां पत्नीं प्राप्य आजौ युद्धे उत्कं सोत्कण्ठं अपि जामदग्न्यं परशुरामं जितं विदधे। आजान्वायत- बाहुः अतिदीर्घबाहुः अन्तिकमहीभाजा समीपस्थितेन अनुजेन लक्ष्मणेन आवृतः सतां पूजाकर्मफलं रघूणां राजा स रामः से मनसि वसेत् ॥

बन्धा सेतुपथस्य सैन्यगतये सिन्धावुदारोर्मिभी
रुन्धाने शरचापशोभितकरः स्कन्धावसक्तेषुधिः ।
गन्धानेकपचङ्क्रमो भुवि कृतां संधामवन्ध्यां वह-
न्निन्धामात्मनि सोऽवतीर्य सुचिरं तं धारयत्वेप मे ॥६९॥

उदारोर्मिभिः रुन्धाने । गतिमिति शेषः । सिन्धौ सैन्यगतये सेतुपथस्य सेतुमार्गस्य बन्धा निर्माता शरचापशोभितकरः स्कन्धाजसक्त्तेषुधिः गन्धानेकपचङ्गमः मत्तगजगमनः भुवि कृतां संधां प्रतिज्ञां अवन्ध्यां सफलां वहन् स रामः मे आत्मनि मनसि अवतीर्य इन्धां दीप्यताम् । 'नि इन्धी दीप्तौ । एषः आत्मा तं धारयतु ।।

बालोऽप्यध्वरगुप्तये निशिचरानालोप्य यश्चित्रक-
ल्लीलोऽभ्यर्णगतानृषीनिजतनुश्रीलोमिचित्तान्व्यधात्।
कालोद्यत्कमलेक्षणो भवद्वज्ज्वालोत्थसंतापह्र-
न्त्रैलोक्यप्रभुरेष पूषकुलभूरालोक्यते मे हृदि ।। ७० ।।

यः बालोऽपि अध्वरगुप्तये विश्वामित्रयागत्राणार्थं निशिचरान् मारीचसुवाहुप्रमुखान् रामाष्टप्रासः। आलोप्य नाशयित्वा चित्रकृल्लीला सन् अभ्यर्णगतान् समीपस्थान् ऋषीन् निजतनुश्रीलो- भिचित्तान् व्यधात् । कालोद्यत्कमलेक्षणः प्रातःकालविकसितारविन्दनेत्रः भवदवज्वा- लोत्यसंतापहृत् त्रैलोक्यप्रभुः पूषकुलभूः सूर्यवंशोत्पन्नः एषः रामः मे हृदि आलोक्यते ॥

भक्तं कन्दफलादिरत्नमकुटीरिक्तं जटालं शिरः
शक्तं नाम विशुद्धये शरधनुर्युक्तं च पाणिद्वयम् ।
रक्तं नेत्रयुगाञ्चलं निखिलमप्युक्तं विदं लक्षणं
व्यक्तं मत्कुलदैवतस्य भुवने नक्तंचरद्रोहिणः ॥ ७१ ॥

मत्कुलदैवतस्य रामस्य नक्तंचरद्रोहिण- भक्तं अन्नं कन्दफलादिरत्नमकुटीरिक्तं शिरः जटालं जटाभरितं नाम अभिधा विशुद्धये [स्मर्तृणां ] विशुद्धये शक्तं पाणिद्वयं च शरध- नुर्युक्तं नेत्रयुगाञ्चलं रक्तं निखिलं इदं उक्त लक्षणं भुवने व्यक्तम् ॥

भिन्तामन्तरिदं निरन्तरमियं चिन्ता वृथा चेतसः
संतापं च तनोतु मुञ्चतु मुदं किं तावता मे मनः ।
संतानद्रुमभीप्सितार्थघटने यन्तारमम्भोनिधे-
र्हन्तारं दशकन्धरस्य भजते तं ताटकारिं यतः ॥ ७२ ॥

अन्तः अन्तःकरण मिन्तां भेदयतु इयं चिन्ता निरन्तरं सर्वदा वृथा चेतसः संताप च तनोतु । मे मनः मुदं मुञ्चतु तावता किम् । न किमपीत्यर्थः । यतः ईप्सितार्थघटने संतानद्वुमं अम्भोनिधेः यन्तारं दशकन्धरस्य हन्तारं तं ताटकारि भजते ।।

मित्रं यस्य च चित्रभानुतनयः पत्रं च शत्रुजयं
पुत्रं चाह जनः कुशं लवमपि क्षत्रं च 1जात्यञ्चितम् ।
सत्रं त्राणपदं च कस्यचिदृषेश्छत्रं तदेकं सितं
चित्रं धन्व च दापितं जितवता वृत्रं स पातु प्रभुः ॥ ७३ ॥

यस्य चित्रभानुतनयः सुग्रीवः मित्रम् । पत्रं च वाहनं च शत्रुजयं गरुडः । 'पत्रं तु वाहने पणे पक्षे च शरपक्षिणोः' इति विश्वः । पुत्रं कुशं लवमिति आह (लोके) क्षत्रं जात्यञ्चितम् । कस्यच्वद्दषेः विश्वामित्रस्य सत्रं यागः त्राणपदं छत्रं तत् एकं प्रसिद्ध सितं यस्मै वृत्रं तदाख्यमसुरं जितवता इन्द्रेण । चित्रं शत्रुसंहारक्षमं धन्व च धनुश्च दापितं दत्तं सः प्रभुः पातु ॥

यद्रागस्य पदं विदेहतनया रुद्रायुधध्वंसना-
दुद्रावं विरचय्य येन पिदधे छिद्राणि या रोदसोः ।
भद्रायास्त्वरुणान्वयार्णवतमोनुद्रावणे सा रणे
निद्रामक्षयिणीं समर्पितवती मुद्रा खरद्रोहिणी ॥ ७४ ।।

येन उद्रावेण अधिकशब्देन या रोदसोः द्यावापृथिव्योः छिद्राणि पिदधे तादृशं उद्रावं रुद्रायुधध्वंसनात् हरचापभञ्जनात् विरचय्य या मुद्रा रोदसोः द्यावापृथिव्योःछिद्राणि पिदधे यद्रागस्य विदेहतनया पदं अरुणान्वयार्णवतमोनुत् तमोनुत् चन्द्रः रणे रावणे अक्षयिणीं निद्रां दीर्घनिद्रां समर्पितवती खरद्रोहिणी सा मुद्रा भद्राय अस्तु ।

यन्मातुर्जठरेऽन्वभावि नरके यन्मानवैर्दुःसहे.
ऽप्युन्मादादिव मौढ्यभाजि न सकृत्तन्मानसे चिन्त्यते।
जन्मासुव्यजनोदितं व्यसनितां सन्मानितोक्त्या विदं-
स्त्वन्माहात्म्यमवेत्य राम दुरितच्छिन्मादृशां त्वां भजे ॥७५॥

मानवैः दुःसहे नरके नरकप्राये मातुः जठरे यद्दुःखं अन्वभावि अनुभूतं [मया ] तदुःखं उन्मादादिव वैचित्यादिव मौढ्यभाजि मानसे सकृत्तचिन्त्यते जन्मात्यन्तसुदुःसहां जन्मनि अत्यन्तसुदुःसहां व्यसनितां सन्मानितोक्त्या विदन् सद्भिर्मानिताः सन्मानिताः महान्तः तेषां उक्त्या जानन् मादृशां त्वन्माहात्म्यं दुरितच्छित दुरितनिवर्तकं इति अवेत्य त्वां भजे ॥

यास्तेजःकथिताब्धयो दिनकरश्रीस्तेयकेलीभृत-
स्त्रीस्तेपुः किल रक्षसामसुषु चापास्तेषु लङ्कारणे ।
आस्तेनापि रथेन दुर्लभजवाः प्राप्तेः प्रियस्थ द्विष-
स्तास्ते तावदिषू रघूद्वह ममोपास्ते मनः श्रेयसे ॥ ७६ ॥

याः इषवः तेजाकथिताब्धयः दिनकरश्रीस्तेयकेलीभृतः लङ्कारणे रक्षसां असुषु अपा. स्तेषु स्त्रीः रक्षस्त्रीः तेपुः तासां ताप अकुर्वन् । आः इत्याश्चर्ये । तेनापि प्रसिद्धवेगशालिनापि रथेन गरुडेन दुर्लभजवाः प्राप्तेः प्रियस्य प्राप्तिरिति कंसभार्या तस्याः प्रियस्य कंसस्य ते तव ताः पूर्वोक्तविशेषणविशिष्टाः इषूः तावत्प्रथमतः मम मनः श्रेयसे उपास्ते ॥

ये वेदैविदुरस्थिराणि भुवनान्यावेधसो विष्टपा-
त्ते वेगेन तरन्ति यस्य कथया नावेव सिन्धुं भवम् ।
धावेयुर्युधि यस्य कार्मुकगुणारावेण दूरेऽरयो
भावेनालधुभक्तिना रघुभुवां सेवे तमेवेश्वरम् ॥ ७७ ॥

ये वेदैः आवेधसः विष्टपात् आब्रह्मलोकभुवनानि अस्थिराणीति विदुः ते वेगेन यस्य कथया सिन्धुं समुद्रं नावेव भवं संसारं तरन्ति । यस्य कार्मुकगुणारावेणारवेण अरयः युधि धावेयुः ते रघुभुवां राघवाणां ईश्वरं अलघुभक्तिना भावेन सेवे॥

योऽघानि स्मरतामघानि युधि येनाघानि लङ्केश्वर-
श्लाघातत्परतां नयन्ति यशसामोघा यदीया जगत् ।

मोधादन्यमिपुं कृतार्णवमव्याघातमाबिभ्रतं
मेघाभं तमहं भजे परिवृढं वैखानसानां प्रियम् ॥ ७८ ॥

यः स्मरतां अघानि पापानि अघानि हतवान् । युधि येन लङ्केश्वरः अघानि हतः। यदीयाः यशसां ओघाः जगत् श्लाघातत्परतां नयन्ति । कृतार्णवमदव्याघातं कृतसमुद्र- मदभङ्गं मोघादन्यं अमोघं इषुं आबिभ्रतं मेघामं वैखानसानां प्रियं परिवृढं प्रभुं भजे ॥

रक्षत्वक्षयमङ्गलप्रदपदत्र्यक्षप्रसादोन्मिष-
द्रक्षःश्रीवृतपङ्क्तिकंधरभुजावृक्षच्छिदापण्डितः।
अक्षय्यप्रबलप्रतापसचिवानृक्षप्लवंगान्नय-
न्नक्षत्रेशसहक्षचारुवदनः स क्षत्रियग्रामणीः ॥ ७९ ॥

अक्षयमङ्गलप्रदपदः अक्षयमङ्गलं मोक्षः। तथाक्षप्रसादोन्मिषद्रक्षःश्रीवृतपङ्क्तिकंधरभु- जावृक्षच्छिदापण्डितः त्र्यक्षः परमेश्वरः तस्य प्रसादेन अनुग्रहेण उन्मिषन्ती वृद्धिमती या रक्षःश्रीः तया परिवृतः पङ्क्तिकंधरः रावणः तस्य भुजा एव वृक्षाः तेषां छिदा छेदः । भुजा- च्छिदाशब्दो आकारान्तौ । तस्मिन् पण्डितः समर्थः । नक्षत्रेशसदृक्षचारुवदनः अक्षय्य. प्रबलप्रतापसचिवान् ऋक्षप्लवंगान्नयन् क्षत्रियग्रामणीः स रामः रक्षतु ॥

रथ्यायां निलये सतां सदसि वा मिथ्यावचो यद्भुवे
तथ्यालापमपि त्यजामि कुशले पथ्यावहेद्यो गतिम् ।
कथ्या तन्मम दुर्गत्तिर्भवति योन्मध्यावहातुं च तां
कथ्यादित्यकुले कृतोदयमिनं तिथ्यां नवम्यां भजे ॥ ८० ॥

रथ्यायां निलये गृहे सतां सदसि वा यत्कारणात् मिथ्यावचः अनृतं ब्रुवे ब्रवीमि । यः कुशले पथि गतिं आवहेत् । तं तथ्यालापमपि त्यजामि । तत्तस्मात्कारणात् कथ्या दुःसहा या मम दुर्गतिः भवति तां उन्मथ्यावहातुं नवम्यां तिथ्यां कथ्यं श्लाघ्यं यदादित्यकुलं तस्मिन् कृतोदयं कृतावतारे इनं प्रभुं भजे ! इनः सूर्ये प्रभौ' इत्यमरः ॥

राकानाथ निभाननं वसुमतीतोकाभिरामाकृतिं
पाकारातिपुरःसरामरसदःशोकापनोदक्षमम् ।
कोकानन्दनवंशजव्रतपरीपाकावकृष्टोदयं
केकावन्नवपिच्छनीलवपुषं लोकामहे चेतसि ॥ ८१ ।।

राकानाथनिभाननं वसुमतीतोकाभिरामाकृतिंं वसुमतीतोकः सीता। पाकारातिपुरःस- रामरसदः शोकापनोदक्षमं पाकारातिः इन्द्रः । कोकानन्दनः सूर्यः तस्य वंशजव्रतपरीपा- कावकृष्टः उत्पन्नः उदयः यस्य तम् । केकावन्नवपिच्छनीलवपुषं केकावन्तः मयूराः तेषां

नवपिच्छानि नूतनबर्हाणि तद्वत् नीलशरीरं चेतसि चित्ते लोकामहे ॥

राकेन्दुप्रतिमाननस्य महिमा हा केन वा वर्ण्यते
लोके यत्र दयारसोऽजनि महान्काकेऽपि सान्द्रागसि ।
एकेनैव शरेण येन समरे नाकेशसूनुर्हतः
शोकेनाकुलचेतसां भुवि नृणां साकेतवासी गतिः ॥ ८२ ॥

राकेन्दुप्रतिमाननस्य महिमा लोके केन वा वर्ण्यते । न केनापीत्यर्थः । हा यत्र रामे सान्द्रागसि सीताविषयमहदपराधवति काकेऽपि काकरूपधरे जयन्तेऽपि महान् दयारसः अजनि। येन समरे नाकेशसूनुः बाली एकेनैव शरेण हतः सभुवि शोकेनाकुलचेतसां नृणां साकेतवासी गतिः॥

रूपं यस्य वदन्ति दत्तमदनक्षेपं दुरापं परै-
श्चापं राक्षसमण्डलक्षयकर कोपं च यादृच्छिकम् ।
शापं कोकवधूवियोगजननं व्यापन्नरक्षापरं
भूपं तं बलभग्नभार्गवमहाटोपं नमस्कुर्महे ।। ८३ ॥

यस्य रूपं दत्तमदनक्षेपं कृतमन्मथनिन्दम् । परैर्दुरापं चापं यादृच्छिकं कोपं च राक्षस- मण्डलक्षयकरमिति वदन्ति । यस्य शापं पत्निवधक्रुद्धभृगुशापं कोकवधूवियोगजननं कोकवधूश्चासौ विश्व विः पक्षी तं योजयति पुरुषेण संयोजयतीति कोकवधूवियोगः सूर्यः तद्वंशेऽपि सः तस्मिन् जननं जनयतीति जननं जन्मोत्पादकमिति जनाः वदन्ति । व्यापन्नरक्षापरं शरणागतसंरक्षणधुरंधरं बलभनभार्गवमहाटोपं स्वबलजितपरशुराममहा- गर्वं तं भूपं नमस्कुर्महे ॥

रोषान्धस्य दशाननस्य शिरसां दोषां च यस्त्रिंशतं
पूषाञ्चद्युतिनाशुगेन हृतवान्घोषाङ्किते संगरे ।
एषाङ्गीक्रियतां ममाञ्जलिपुटी दोषान्निमार्ष्टीकृता
शेषाङ्गे शयितस्य तत्रभवतो वेषान्तरेणामुना ॥ ८४ ॥

यः रोषान्धस्य दशाननस्य शिरसां दोषां च । बाहूनामित्यर्थः । त्रिंशतं शिरांसि दश बाहवः विंशतिः आहत्य त्रिशतं घोषाङ्किते गर्जनायुक्तं संगरे युद्धे पूषाञ्चद्युतिना सूर्यसदृशकान्तिना आशुगेन बाणेन हृतवान् । दोषान् निमार्ष्टीकृता निवृत्तकेन शेषाङ्गे शयित्तस्य तत्रभवतः महाविष्णोः वेषान्तरेणामुना रामेण एषा ममाञ्जलिपुटी अङ्गीक्रिय- ताम् । प्रार्थनायां लोट् ॥

लीलादारितमन्मथारिधनुषे सालावलीलाविने
शीलावर्जिततापसाय विशिखज्वालावलीढाब्धये ।

नीलादिप्लवगार्चिताङ्गियुगलीमूलाय लङ्कापते:
कालायाकलयामि भूमितनयाहेलासखायाञ्जलिम् ॥ ८५ ॥

लीलादारितमन्मथारिधनुषे अनायासखण्डितशैवचापाय । सालावलीलाविने छेदिने शीलं सद्भावः तेनावर्जिताः तापसाः यस्य तस्मै । विशिखज्वालावलीढाब्धये अवलीढः पीतः । नीलादिप्लवगार्चिताङ्गियुगलीमूलाय लङ्कापतेः कालाय । भूमितनया सीता । हेलासखाय क्रीडासुहृदे। अञ्जलि आकलयामि ॥

वाचावारितमप्यभीक्ष्णमहह प्राचामृषीणां मता-
नाचारानपहाय धावति मनो नीचावतीर्णे पथि।
हा चापल्यहतस्य तन्नियमने का चातुरी मे ततो
याचाम्यानय मे वशं त्विमिति त्वा चापपाणे विभो ॥८६॥

मे मनः वाचावारितमपि प्राचां ऋषीणां मतानाचारान् अपहाय त्यक्त्वा नीचावतीर्णे पथि नीचगम्ये पथि अभीक्ष्णं पुनः धावति गच्छति । अहह आश्चर्यम् । चापल्यहतस्य मम तन्नियमने तस्य मनसः नियमने स्थिरीकरणे का चातुरी । सामर्थ्य नास्तीत्यर्थः । हा इति खेदे। ततः तस्मात् कारणात् हे चापपाणे विभो, इदं पूर्वोक्तं मनः मे वशं नय इति त्वा त्वां याचामि प्रार्थयामि ॥

वाक्यानामुचितं पदं हृदय वाल्मीक्याननान्निर्यतां
कोक्यानन्दकृदन्वयं भज नमोवाक्या सुरेन्द्रानुजम् ।
केक्यारूढसुराभिरूपवपुषं पाक्याब्धिमस्रौजसा
नाक्याराध्यपदं च जीवपरयोरैक्यावबोधाप्तये ॥ ८७॥

हे हृदय । संबोधनम् । वाल्मीक्याननात् वाल्मीकिमुखात् निर्यता निर्गच्छता वाक्यानां पदानां उचितं योग्य पदं स्थानं कोकानन्दकृदन्वयं सूर्यवंशं सुरेन्द्रानुजं उपेन्द्र केक्या- रूढः सुब्रह्मण्यः तस्य इव आभिरूपवपुषं अस्त्रौजसा आग्नेयास्त्रतेजसा पाक्याब्धि शोषि- तसमुद्रं नाकिनः देवाः तैः आराध्यपदं रामं जीवपरयोः जीवात्मपरमात्मनोः ऐक्याव- बोधः अद्वैतज्ञानं तस्याप्तये प्राप्तये नमोवाक्या भज ॥

वासेनातिजुगुप्सितेपु नगरेष्वासेतुवाराणसि
ग्रासे बद्धरुचिर्न चैव कृतवानासेवनं ते विभो।
त्रासे सत्यधुनातिघोरनरकादासेदुषस्त्वां मम
व्यासेधस्तव किं क्षमो रघुपते दासेषु कर्तुं कृपाम् ।। ८८ ॥

आसेतुवाराणसि काशीरामेश्वरपर्यन्तेषु अतिजुगुप्सितेषु अतिनिन्दितेषु । नगरवासस्य निषिद्धत्वादिति भावः । [नगरेषु वासेन सहित इति शेषः ] ग्रासे भक्षणे बद्धरुचिः बद्धादरः सन् अहं हे विभो, ते आसेवनं न चैव कृतवान् । अधुनातिधोरनरकात् त्रासे सति हे रघुपते, त्वां आसेदुषः प्रपन्नस्य मम दासेषु कर्तु व्यासेधः निषेधः क्षमः किम् ।

विद्धा य: कुहनामृगं विरहितं वध्वा निरीक्ष्योटजं
बुद्ध्वा पक्षिमुखात्प्रियां रिपुहृतां बद्धवालिमम्मोनिधौ ।
रुद्धा शत्रुपुरीं प्लवंगमभटैः क्रुद्ध्वा रणायागता-
न्युद्धवारीनजयत्स मे रघुपतिर्विध्वाकृतिः स्याद्गतिः ।। ८९॥

यः कुहनामृगं मारीचं विद्ध्वा वध्वा सीतया विरहितं उटजं निरीक्ष्य पक्षिमुखात् जटायुषो मुखात् प्रियां रिपुहृतां रावणहतां बुद्ध्वा ज्ञात्वा अम्भोनिधौ आलि सेतुं बद्ध्वा शत्रुपुरीं लङ्का प्लवंगमभटैः रुद्ध्वा रणाय आगतान् अरीन् क्रुद्ध्वा युद्ध्वा अजयत् सः विध्वा- कृतिः विष्णुरूपी । 'विक्षुः श्रीवत्सलाञ्छनः' इत्यमरः । रघुपतिः गतिः स्यात् ॥

विध्वादित्यविलोचन: समिति यो विद्ध्वा बलात्कैटभं
मध्वाधातमपि प्रकल्प्य जलधौ दध्वान शङ्खं वहन् ।
लब्ध्वा जन्म रघोः कुले निहतवान्व्यध्वावतीर्णस्थितिं
वध्वामोषकमाशरं हरतु मे स ध्वान्तमन्तर्गतम् ॥ ९0 ॥

विध्वादित्यविलोचनः चन्द्रसूर्यलोचनः यः समिति बलात् कैटभं विद्ध्वा हत्वा मध्वा- घातमपि तदाख्यासुरवधमपि प्रकल्प्य जलधौ शङ्ख बहन् दध्मौ । रघोः कुले जन्म लब्ध्वा सन् व्यध्वावतीर्णस्थितिं दुर्मार्गगामिनं वध्वामोषकं सीतापह्रर्तारं आशरं रावणं निहतवान् जधान सः मेऽन्तर्गतं ध्वान्तं पापं हरतु प्रार्थनायां लोट् ॥

वीरेऽप्यर्पितशासनो नृपरिपौ यो रेणुकासंभवे
यो रेजे दशकंधरस्मयहरं तारेशमप्यर्दयन् ।
पारेसिन्धु निशाचरा: समिदलंकारेण येनाहता
नौरतस्य कथा भवाब्धितरणे सारेति मोदामहे ॥ ९१ ॥

यः नृपरिपौ रेणुकासंभवे वीरेऽपि परशुरामेऽपि अर्पितशासनः । यः दशकंधरस्म- यहरं तारेशमपि वालिनमपि अर्दयन् पीडयन् । येन पारेसिन्धु निशाचराः रावणादयः रामिदलंकारेण युद्धवीरेण । येनेत्यस्य विशेषणमेतत् । एतस्य रामस्य कथा भवाब्धितरणे सारा दृढा नौः इति मोदामहे ॥

वेदान्ते हृदि यद्भजन्ति मुनयो नादान्तवेद्यात्मकं
खेदान्ताय कृतस्तवं शतमखश्रीदान्तकाम्भोधिपैः ।
वेदाङ्गोपममैथिलीकुचतटस्वेदाम्बुलेशाङ्कितं
मोदाम्भोधिविहारदं मनसि तत्पादाम्बुजं पातु माम् ॥१२॥

मुनयः वेदान्ते ब्रह्मशास्त्रे नादान्तवेद्यं बिन्दुस्वरूपेण वेशः आत्मा यस्य तथोक्तं यत्पा- दाम्बुजं खेदान्ताय जन्मखेदनिवृत्तये हृदि भजन्ति शतमखः इन्द्रः श्रीदान्तः विष्णुः कः ब्रह्मा । 'को ब्रह्मणि समीरात्मयमदक्षेषु भास्करे । मयूरेऽग्नौ च पुंसि स्यात्' इति मेदिनी। अम्भोधिपः समुद्रः एतैः कृतस्तवं वेदाङ्गोपममैथिलीकुचतटखेदाम्बुलेशाङ्कितं मनसि मोदाम्भोधिविहारदं तत्पादाम्बुजं मां पातु ॥

व्यग्रा मन्मथवह्निना मनसिजोदप्राकृतिं प्राप्य यं
विग्रा शूर्पणखा कृता निजवपुष्युग्रा सुमित्राभुवा ।
स ग्रावर्षिवधूकृदङ्घ्रिरजसा सग्राहकूर्माण्डजं
न्यग्राशिं पयसां प्रतप्य कृतवान्नृग्रामणीः पातु नः ।। ९३ ॥

मनसिजोदप्राकृति मन्मथवद्रूपिणं यं निजवपुषि उग्रा । क्रूरशरीरेत्यर्थः । शूर्पणखा राक्षसी प्राप्य मन्मथवह्निना व्यग्रा सती पीडिता सती सुमित्राभुवा लक्ष्मणेन विग्रा विग- तनासिका । 'वेग्रो वक्तव्यः' इति नासिकाशब्दस्य ग्रा इत्यादेशः। कृताङ्गिरजसा प्रावर्षिव- धूकृत् प्रावाणं ऋषिवधूकरोतीति प्रावर्षिवधूकृत् अहल्याशापनिवृत्तिकर्ता सग्राहकूर्माण्डजं पयसां पति न्यग्राशि अल्पसरितं कृतवान् सः नृग्रामणीः नृश्रेष्ठः पातु नः ।।

व्याजानाकलितानि योगिहृदयाम्भोजानि यस्यास्पदं
पूजा यस्य जनाय यच्छति तपोभाजामलभ्यं पदम् ।
यो जानात्युदधिं विशोषयितुमप्योजायमानैः शरै
राजानं तमहं भजे त्रिजगतां श्रीजानकीनायकम् ।। ९४ ।।

यस्य व्याजानाकलितानि निष्कपटानि योगिदहृदयाम्भोजानि आस्पदम् । यस्य पूजा जनाय तपोभाजां तपस्विनां अलभ्यं पदं यच्छति। यः उदधिं ओजायमानैः तीक्ष्णैः शरैः वि- शोषयितुं जानाति । त्रिजगतां राजानं श्रीजानकीनायक सीतापति तं रामं अहं भजे ॥

शम्बालंकृतपाणिवर्णितशरस्तम्बाय पाथोनिधे.
र्जम्बालीकरणेषवे जनकजाबिम्बाधरास्वादिने ।
अम्बानाथजुषाब्जजेन मरुतां संबाध उक्तात्मने
कुम्बाकारकपिव्रजाय करुणालम्बाय तस्मै नमः ।। ९५ ॥

शम्बालंकृतपाणिः इन्द्रः तेन वर्णितः शरस्तम्बः शरसमूहः यस्य । पायोनिधेः समुद्रस्य जम्बालीकरणेषवे जम्बालीकरणं पङ्कीकरणम् । जनकजाबिम्बाधरास्वादिने मरुतां देवानां संबाधे संमर्दै अम्बानाथजुषा सशिवेन अब्जजेन ब्रह्मणा उक्तात्मने उक्तः आत्मा परमात्म- स्वरूपं यस्य । रावणवधानन्तरं ब्रह्मा रामं अस्तौषीदिति रामायणकथा । कुम्बाकारकपिब्र- जाय अतिनिबिडवानरसेनासमावृताय । 'कुम्बा सुगहना वृतिः' इत्यमरः । करुणालम्बाय

तस्मै नमः॥

शारीरद्युतिरेखया रुचिरया दूरीकृताम्भोधरं
वारीशस्मयभञ्जनं घनकृपाशारीविहारद्रुमम् ।
गौरीनाथधनुर्द्वहं पदरजोनारीकृतप्रस्तरं
मारीचद्विषमार्तरक्षणकलापारीणमीडे विभुम् ॥ ९६ ॥

रुचिरया शारीरद्युतिरेखया शरीरस्येयं शारीरा शरीरसंबन्धिनी या धुतिः कान्तिः तस्याः रेखया दूरीकृताम्भोधरं वारीशस्मयभञ्जनं घनकृपाशारीविहारद्रुमं शारी पक्षिवि- शेषः । गौरीनाथधनुर्बुहम् । पदरजोनारीकृतप्रस्तरम् । शैलीभूतां अहल्यां पादधूल्या परि- शुद्धामकार्षीत्यर्थः । मारीचद्विषम् ।आर्तरक्षणकलापारीणं विभुं ईडे स्तौमि । 'ईड स्तुतौ'।

शीलालंकृतये हरीशसखये सालागजालच्छिदे
कालायाधिसराय शक्रतनये शैलाकृषा सेनया ।
हेलानद्धजलाकराय कलये नीलाङ्गकायाञ्जलीं-
ल्लीलाकृतनिशाटनायकशिर:कीलालधाराकिरे ॥ ९७ ॥

शीलालंकृतये शीलं सच्चरितं अलंकृतिरलंकारः यस्य तस्मै । हरीशसखये वानरेशस्य सुग्रीवस्य मित्राय । 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिः' इत्यमरः ॥ सालागजालच्छिदे सप्तसालप्रभेन्ने शक्रतनये वालिनि कालाय अधिशराय शै- लाकृषा शिलाहारिण्या सेनया हेलानद्धजलाकराय नीलाङ्गकाय लीलाकृतनिशाटनायकशि- रःकीलालधाराकिरे लीलया अनायासेन कृत्तानि च्छिन्नानि निशाटनायकशिरांसि रावण- शिरांसि तान्येव कीलालानि जलानि तेषां धाराः ताः किरतीति तथोक्ताय ।।

श्रीपादन्यसनेन यो मुनिवधूशापापनोदं व्यधा-
त्सोपानं त्रिदिवस्य सेतुमकृताकपारगर्भे च यः ।
कोपादस्त्रमुचं रणे दशमुखं व्यापादयामास य-
श्चापालंकरणः स मेऽस्तु शरणं भूपालचूडामणिः ।। ९८ ॥

यः श्रीपादन्यसनेन दिव्यचरणस्पर्शेन मुनिवधूशापापनोदं अहल्याशापनिवृत्तिं व्यधात् चकार । यः अकूपारगर्भे समुद्रमध्ये त्रिदिवस्य स्वर्गस्य सोपानं तत्प्रापकं सेतुं अकृत । यः रणे कोपात् अस्त्रमुचं दशमुखं व्यापादयामास चापालंकरणःसः भूपालचूडामणिः मे शरणं अस्तु ॥

श्रीहीनं व्यथयन्ति ये धनमदादेहीति याहीति ता-
न्वाहीकानिव न स्मराम्यपि पतीन्दोहीयसीनां गवाम् ।
देहीतीरितमन्तरेण ददते यो हीहितं देहिनां
पाहीति ब्रुवतो रघुद्वह दयावाही स सेव्योऽसि मे ॥ ९९ ॥

ये नराः धनमदात् श्रीहीनं दरिद्रं एहि आगच्छ याहि गच्छ इति व्यथयन्ति पीड-

यन्ति तान् दोहीयसीनां पयस्विनीनां गवां अधिपतीनपि। इदमुपलक्षणम्। अतिसंपन्ना- नपि बाहीकानिव वेदबाह्यानिव न स्मरामि । यः रामः देहीति ईरितमन्तरेण याच्या विनैव देहिनां प्राणिनां ईहितं अभीष्टं ददते ददाति । 'दद दाने । लडेकवचनम् । हे रघूद्वह पाहीति ब्रूवतः मे दयावाही दयालुः त्वं सेव्योऽसि ॥

श्रुत्वा वेदशिरांसि तन्निगदितं मत्वा यथावन्नरः
स्मृत्वाभीक्ष्णमिदं लभेत विशयं हित्वात्मसाक्षात्कृतिम् ।
यत्त्वाह क्रममित्थमागमशिरस्तत्त्वावबोधोदये
सत्त्वाकार तदेव राम सुलभं न त्वामनत्वा नृणाम् ॥१०॥

नरः वेदशिरांसि वेदान्तानि श्रुत्वा गुरुमुखात् श्रवणं कृत्वा यथावत् साकल्येन अभीक्ष्णं पुनः पुनः स्मृत्वा मननं कृत्वा विशयं संशयं हित्वा आत्मसाक्षात्कृतिं मोक्षं लभेत इति निगमः वेदः इत्थमेव क्रममाह । तत्त्वावबोधोदये जगन्मिथ्या ब्रह्म सत्यमिति ज्ञानोत्पत्तौ सत्त्वाकारसद्रूपेण प्रकाशितरूप हे राम, पूर्वोक्तमोक्षप्राप्तिरपि त्वामनत्वाप्रणम्य । न त्वदु- पासनां विना कदाचिदपि अन्योपायेन मोक्षप्रसक्तिर्नास्तीत्यभिप्रायः ।।

संन्यासे नियतात्मभिः स्ववगमं वन्याविहारप्रियं
मुन्याराधनतत्परं वसुमतीकन्यासहायं भजे ।
तन्यादेष शुभान्यनन्यसदृशं मन्याशरेन्द्रादृता-
पन्यायक्षितिलोकरक्षणकलाधन्यायमानो विभुः ॥१०१॥

संन्यासे वैराग्ये नियतात्मभिः निश्चलचित्तैः अवगमं अवगन्तुं योगं वन्या वनसमूहः तत्र विहारप्रियं मुन्याराधनतत्परं बसुमतीकन्यासहायं भजे । अनन्यसदृशंमन्याः अहं- कारवन्तः ये आशरेन्द्राः राक्षसा रावणादयः तैः आदृतः आदरेण कृतः अपन्यायः य. स्मिन् तस्य क्षितिलोकस्य भूलोकस्य रक्षणकलाधन्यायमानः रक्षणविद्याप्रवीणः एषः विभुः शुभानि तन्यात् कुर्यात् ।।

सत्राणार्थमजात्मजस्य नृपतेः पुत्रायमाणो हरिः
सत्रासान्विधुरान्न केवलमसावत्रावनीमण्डले ।
सुत्रामप्रमुखैर्मरुद्भिरखिलैः सत्रा जवादेयिवा-
न्यत्रासन्नरकाश्च नारकिजनास्तत्रापि नस्त्रायसाम् ।। १०२॥

सत्राणार्थ सत्परित्राणार्थे अजात्मजस्य नृपतेः दशरथस्य पुत्रायमाणः पुत्रवदाचरमाणः असौ हरिः सत्रासान् भयसहितान् अत एव विधुरान् दुःखितान् अत्रावनीमण्डले केवलं न त्रायतां किंतु सुत्रामप्रमुखैः मरुद्भिः इन्द्रादिदेवैः सत्रा साकं जवात् एयिवान् आगतः सन् यत्र यस्मिन् लोके नरकाः निरयाः नारकिजनाः तत्रापि नः त्रायताम् ॥

संजातं सवितुः कुलादुपनिषत्कुजाधिवासिद्विपं
मञ्जानं वपुषा नवाम्बुदमहापुञ्जावलेपं भजे।
मञ्जावर्पितहस्तमस्ततटिताशिञ्जारुचा कार्मुके
कंजानुक्रियमाणलोचनरुचिं तं जानकीवल्लभम् ॥ १०३ ।।

सवितुः सूर्यस्य कुलात् संजातं उपनिषत्कुञ्जाधिवासिद्विपं उपनिषद्रहस्यवासिनं वपुषा शरीरेण नवाम्बुदमहःपुञ्जावलेपं नीलाम्बुदकान्तिपुञ्जगर्व भञ्जानं तिरस्कुर्वन्तं अस्ततटिता तटितोऽपि अधिककान्त्या शिञ्जारुचा ज्याकान्त्या मञ्जौ मनोज्ञे कार्मुके धनुषि अर्पितहस्तं कंजानुक्रियमाणलोचनरुचि कंजं पद्मं तं जानकीवल्लभं रामं भजे।।

संजज्ञे शुभधीः सकृद्दिविषदा म़ञ्जन्रिपूनायुधं
गुञ्जच्छिञ्जिनि संहितेषु च वहन्कंजच्छदाक्षो हि यः।
संजल्पं निगमैः शिरीषसुमनःकिञ्जल्करेणुद्युतिं
तं जप्याख्यमुमाधवेन करुणापुञ्जस्वरूपं भजे ॥ १०४ ॥

शुभधीः शुभं जगतां कर्तुं धीः यस्य तथोक्तः । दिविषदां देवानां रिपून् भञ्जन् गुञ्ज- च्छिञ्जिनि ज्याशब्दयुते धनुषीत्यध्याहर्तव्यम् । संहितेषु बाणं आयुधं चापादि च वहृन् कंजच्छदाक्षः पद्मपत्राक्षः यः संजज्ञे निगमैः संजल्प्यं शिरीषसुमनःकिञ्जल्करेणुद्युतिं उमा- धवेन जप्या आख्या यस्य तं करुणापुञ्जस्वरूपं दयाराशिरूपं भजे ॥

साधारण्यलसत्कृपो नतिकरे साधावसाधावपि
क्रोधाकृष्टधनुश्च्युतास्त्रशिखिनामेधायमानाम्बुधिः ।
आधारो यशसामवाप्तसरयूरोधामखानां विधौ
मेधामेधयतु स्तुतो रघुपतिर्मे धातृमुख्यैः सुरैः ।। १०५ ।।

नतिकरे नम्र साधौ असाधावपि साधारण्यलसत्कृपः साधारण्येन सामान्येन । निर्वि- शेषेणेति यावत् । लसन्ती कृपा यस्य स तथोक्तः क्रोधाकृष्टधनुश्चयुतास्त्रशिखिनां क्रोधेन कोपेन आकृष्टं यत् धनुः तस्मात् च्युतस्य अस्त्रस्य आग्नेयास्त्रस्य शिखिनां एधायमाना- म्बुधिः एधायमानः काष्ठवत् आचरितं अवाप्तसरयूरोधामखानां सरय्वाः रोधा तटं तत्र मखा यागाः । सप्ततन्तुर्मखः ऋतुः' इत्यमरः । अवाप्ताः सरयूरोधामखाः यैस्ते । दीक्षि. तानामित्यर्थः । विधौ करणविषये आधारः धातृमुख्यैः ब्रह्मादिभिः सुरैः स्तुतः रघुपतिः रामः मे मेधां प्रज्ञां एधयतु वर्धयतु ।।

सुप्रज्ञातबलोऽर्कजेन कपिनाप्यप्रत्ययध्वंसना-
त्स्वप्रस्थानपथार्पणाय जलधौ क्षिप्रप्रकीर्णाशुगः ।
विप्रत्राणपरो विरोधिनगरीवप्रच्छिदाकृच्छरः
स प्रष्ठो रघुवंशलब्धजनुषां तृप्रक्षयायास्तु नः ॥ १०६ ।।

अप्रत्ययध्वंसनात् दुन्दुभिकलेवरक्षेपसप्तसालप्रभेदना अनिश्चयनिवारणेन अर्कजेन कपिनापि सुग्रीवेणापि प्रज्ञातबलः स्वप्रस्थानपथार्पणाय त्वसेनागभनाय जलधौ समुद्रे क्षिप्रकीर्णाशुगः । विप्रत्राणपरः विरोधिनगरीवप्रच्छिदाकृच्छरः शत्रुनगरसालभिद्बाणः रघु- वेशलब्धजनुषां रघुवंश्यनृपाणां । प्रष्ठः अग्रगामी । 'प्रष्ठोऽग्रगामिनि' इति निपातः। स रामः नः तृप्रक्षयाय पापक्षयाय अस्तु ।

सुत्रामप्रमुखैर्दशाननचमूवित्रासितैरर्थितः
पुत्रायेष्टिकृतोऽभवदशरथान्मित्राभिजातान्वये ।
पित्रानृण्यविधित्सया दयितया सत्रानुजेनापि यः
सत्रावासमवापितः किमितरैः स त्रातुमस्मानलम् ॥ १०७ ।।

यः दशानलचमूवित्रासितैः रावणसैन्यवित्रस्तैः सुत्रामप्रमुखै इन्द्रादिभिः अर्थितः . पुत्राय पुत्र प्राप्तुं इष्टिकृतः दशरथात् मित्राभिजाताः सूर्यवंश्याः रघवः तेषां अन्वये वंशे अभवत् । पित्रामृण्यविधित्सया पितृऋणनिवृत्त्यर्थ दयितया सीतया अनुजेन लक्ष्मणेन सत्रा साकं सत्रावासं सत्राणां यागानां आवास स्थानभूतं अवापितः प्राप्तः । इतरैःविष्यवा- दिभिः किम् । सः रामः अस्मान् त्रातुं अलं पर्याप्तम् ॥

सेतुर्येन समस्तपापदलनाहेतुर्निबद्धोऽर्णवे
जेतुर्यस्य रणे रिपूपशमने चातुर्यमन्यादृशम् ।
धातुर्यत्प्रकृतिर्गिरा प्रकटिता यातुप्रभौ पातिते
जातु द्रष्टुममुं लभेय किमहं हा तुद्यते मे मनः ॥ १०८ ॥

येन समस्तपापदलनाहेतुः समस्तपापनिवृत्तिहेतुः सेतुः अर्णवे समुद्रे निबद्धः। जेतुर्ज- यशीलस्य यस्य रणे रिपूपशमने शत्रुहननविषये चातुर्यं सामर्थ्यं अन्यादृशमदृष्टचरम् । यातुप्रभौ राक्षसप्रभौ पातिते सति यत्प्रकृतिः यस्य रामस्य प्रकृतिः यथातथ्यं धातुः ब्रह्मणः गिरा प्रकटिता । इमं रामं जातु कदाचित् द्रष्टुमहं लभेय किं इति मे मनः तुद्यते दुःखितं भवति । हा इति खेदे ।।

सेवित्वा कपयोऽपि यं मुमुचिरे त्रैविध्यबोधं विना
यो विष्णोस्तनुभेद एव धरणावाविर्बभूव स्वयम् ।

सावित्रान्वयनजं तमाशरचमूलावित्वरावच्छरं
देवि त्वं भज धारणे हरधनुर्द्वैविध्यविद्यागुरुम् ॥ १०९॥

कपयोऽपि यं रामं सेवित्वा त्रैविध्यबोधं विना श्रवणमननादिभ्रमं विना मुमुचिरे मुक्ता अभवन् । विष्णोः हरेः तनुभेद एव यः धरणौ स्वयं रामरूपेण आविर्वभूव । सावित्रा- न्वयज आशरचमूलावित्वरावच्छरं राक्षससैन्यनाशे अतिवेगयुक्तबाणं हरधनुर्वैविध्यविद्या- गुरुं शिवचापभञ्जनप्रवीणं तं रामं हे देवि मते, त्वं भज ॥

सोमेनोपमितानने दशमुखक्षेमेतरप्रापके
भूमेरात्मजयानुजेन च गुणारामेण संसेविते ।
वामे धन्य करे शरं तदपरे रामे दधाने घन-
श्यामे जाग्रति रक्षणार्थमितरा का मे गतिःक्ष्मातले ॥ ११० ।।

सोमेन चन्द्रेण उपमितानने। दशमुखक्षेमेतरप्रापके दशमुखस्य रावणस्य क्षेमेतरं नाशः तत्प्रापके । भूमेरात्मजया सीतया गुणारामेण गुणशालिना अनुजेन लक्ष्मणेन च संसेविते वामे करे धनुः तदपरे अवामे पाणौ शरं दधाने घनश्यामे रामे रक्षणार्थे जाग्रति सति क्ष्मातले भूतले मे इतरा रामभिन्ना का गतिः । न कापि इत्यर्थः । राम एव मां रक्षेदित्यर्थः ।

स्वर्वीणाधरवन्दितेन रणभूवर्दीकरणेषुणा
निर्वीरां कृतवान्निशाचरपतेर्गुर्वीडनीयां पुरीम् ।
स्वर्वीभावितसर्ववैरिविभवां कुर्वीत मे संपदं
गुर्वीमेधितमित्रबान्धवजनामुर्वीकुमारीपतिः ॥ १११ ॥

स्वर्वीणाधरवन्दितेन नारदवन्दितेन रणभूदर्वीकरेणेषुणा रणभूमिदवीकरवत् अतिघोरः इषुः तेन बाणेन निशाचरपतेः रावणस्य गुर्वीडनीयां गुरुणा बृहस्पतिना ईडनीयां स्तुत्यां पुरीं लङ्का निर्वीरां वीररहितां कृतवान् । उर्वीकुमारीपतिः सीतापतिः श्रीरामः खर्वीभा- वितसर्ववैरिविभवां खर्वीभावितः अल्पीकृतः सर्ववैरिविभवः यथा गुर्वी एधितमित्रबान्ध- वजनां संपदं मे कुर्वीत ॥

स्वर्भजेऽरिचमूर्यदाशुगहताविर्भरिके संयुगे
नुर्भेतव्यकरी च येन भवरुर्भेेषजाप्यस्यते ।
दर्भणास्त्रयुजामुना खगतनावर्भे मघोनो वयं
गर्भेणाजसुतस्य सुन्दरमणीनिर्भदिना सेश्वराः ॥ ११२ ।।

आविर्भवन्तः शब्दायमानाः भेर्यः यस्मिन् तस्मिन् आविर्भरिके संयुगे युद्धे यदाशुगहता यस्य रामस्य आशुगहता बाणहता अरिचमुः शत्रुसैन्यम् । खरिति अव्ययम्। खर्गे भेजे जगाम । नुः मनुष्यस्य भेतव्यकरी भयंकरी भवरुक् संसारव्याधिः निर्भेषजाचिकित्सा- रहिता येन रामेण अस्यते निरस्यते। 'असु क्षेपणे'। कर्मणि लट् । प्रथमपुरुषैकवचनम् । खगतनौ वायसरूपिणि मघोनः इन्द्रस्य अर्भे अर्भके जयन्ते दर्भण कुशेन अस्त्रयुजा अस्त्र- कार्य कुर्वता सुन्दरमणीनिर्भेदिना ताटकाघातिना अमुना अजसुतस्य दशरथस्य गर्भेण वयं सेश्वराः सनाथाः॥

स्तोमाय निदिवौकसामुपहृतक्षेमाय हत्वा रिपू-
न्रामाय प्रथमानसुन्दरगुणप्रामाय तस्मै नमः ।
श्यामाय त्रिपुरारिचापदलनोद्दामाय लङ्कापुरी-
भीमाय क्षितिकन्यकारमणिनः कामाय कोदण्डिने ॥ ११३॥

रिपून् हत्वा त्रिदिवौकसां देवानां स्तोमाय संघाय उपहृतक्षेमाय उपहृतः क्षेमः येन तस्मै । प्रथमानसुन्दरगुणग्रामाय श्यामाय त्रिपुरारिचापदलनोद्दामाय लङ्कापुरीभीमाय क्षितिकन्यारमाणिनः सीतायाः कामाय कामरूपाय कोदण्डिने रामाय तस्मै नमः ।

हर्यक्षेभरतक्षुखड्गचमरीकिर्यच्छभल्लाकुलं
निर्यद्भोगि वनं ङ्गिरा पितुरगाद्धुर्यः स्वधर्मस्य यः ।
निर्यत्नं खरदूषणत्रिशिरसः स्वर्यद्धता लेभिरे
पर्यस्यत्वहिमांशुवंशजनुषां वर्यः स पापानि नः ॥ ११४ ॥

खधर्मस्य धुर्यः निर्वाहकः यः पितुः गिरा हर्यक्षेभतरक्षुखड्गचमरीकिर्यच्छभल्लाकुलं सिंहगजव्याघ्रचमरीवन्यवराहाच्छभल्लाकुलं निर्यद्भोगि निर्यन्तः संचरन्तः भोगिनः सर्पाः यस्मिन् तत् वनं अगात् । निर्यत्नं प्रयत्नं विना यद्धताः येन रामेण हताः खरदूषणत्रि- शिरसः स्वः खर्गे लेभिरे प्राप्ताः । अहिमांशुवंशजनुषां सूर्यवंश्यानां वर्यः सः नः पापानि पर्यस्यतु निवर्तयतु ॥

हन्तुं प्राक्तनदुष्कृतानि जगतां भन्तुं भृशानित्यतां
कन्तुं जेतुममुत्र चेह समुपारन्तुं फलेष्वादरात् ।
यन्तुश्चेन्द्रियजातमागमशिरो गन्तुं च वक्राद्गुरो-
स्तन्तुं चण्डकरान्वयस्य कलये तं तुङ्गचापं प्रभुम् ॥ ११५ ॥

प्राक्तनदुष्कृतानि प्रारजन्मार्जितपापानि हन्तुं जगतां भृशानित्यतां मन्तुं अवगन्तुं कन्तुं विषयासक्ति जेतुं अमुत्र परलोके इह फलेषु आदरात् समुपारन्तुं इन्द्रियजातं यन्तुं वशीकर्तुं गुरोः आचर्यस्य वक्रात् आगमशिरः तत्त्वशास्त्रं गन्तुं तुङ्गचापं चण्डकरान्वयस्य तन्तुं प्रभु कलये ध्यायामि ।

श्रोणिस्थस्य यदर्चया किल पदश्रेणिर्भवेन्नाकिनां
गाणिक्येन सदोचिता गणयितुं माणिक्यमालानिभा ।
प्राणिश्रोत्रसुखावहा सुरनदीवेणीस्मयोत्सारिणी
पाणिश्लिष्टधनुः स मेऽस्तु शरणं तूणीभृतांसो विभुः ॥११॥

इति श्रीरामभद्रदीक्षितविरचितो रामविषयकाष्टप्रासः समाप्तः ।

यदर्चया यस्य रामस्य अर्चया पूजया नाकिनां देवानां गाणिक्येन गणिकासमूहेन सदा गणयितुं उचिता माणिक्यमालानिमा माणिक्यरत्नप्रोतमालासदृशा प्राणिश्रोत्रसुखावहा श्रोतृजनश्रोत्रसंतोषकारिणी सुरनदीवेणीस्मयोत्सारिणी गङ्गाप्रवाहगर्वभञ्जिनी अखिलपद- प्राप्तिः सुप्तिड्डन्ताद्यखिलपदप्राप्तिः । कवनशक्तिरिति यावत् । यद्वा अखिलपदप्राप्तिः अ- खिलानां ब्रह्मादिदेवानां वा पदप्राप्तिः सत्यलोकादिपुण्यलोकप्राप्तिः वा भवेत् पाणिश्लिष्ट- धनुः सशरचापहस्तः तूणीमृतांसः सः विभुः रामः मे शरणं अस्तु ॥ एतद्वन्थे शार्दूल- विक्रीडितं वृत्तम्-'सूर्याश्र्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् ॥

श्रीमलक्ष्मणजानकीसहचर श्रीरामचन्द्रप्रभो
मद्वाञ्छां शृणु मन्मनोऽभिरमतां त्वत्पादपङ्करुहे।
नीडामङ्गलवासिने नम इदं तुभ्यं दयाम्भोनिधे
संतानाख्यजुषे दयार्द्रमनसे पापौधविद्वेषिणे ।।

त्रिशिरनगरवर्ये काचिदभ्यासशाला द्रविडसहितनामा वर्तते ज्ञप्तिपालैः ।
उशन्विषम्यैः सद्भिराचार्यमुख्यैर्नटननृपतिजाता नन्दनीया सुधीभिः ।।

तत्रस्थेन पण्डितेन सेतुशास्त्रिणा टीकेयं कृता ।

"https://sa.wikisource.org/w/index.php?title=रामाष्टप्रासः&oldid=288059" इत्यस्माद् प्रतिप्राप्तम्