जानकीचरणचामरम्
जानकीचरणचामरम् श्रीनिवासाचार्यः १९३० |
श्रीश्रीनिवासाचार्यविरचितं
जानकीचरणचामरम् ।
मुक्तावल्लिमतल्लितारकततिश्रीलक्ष्मवक्षःस्थली-
सुत्रामोपलदर्पणप्रतिफलत्सीतास्यशीतद्युतिः ।
अङ्कालंकृतिमैथिलीस्मितसमुन्मीलकपोलस्थली-
रत्नादर्शविशत्प्रसन्नवदनो देवः प्रसन्नोऽस्तु वः ॥१॥
आयान्ती स्फुरदगुलीयकहरिन्माणिक्यरश्मिच्छटा-
दूर्वाचर्वणजातकौतुकमृगीपोतानुकम्पाकुला।
मन्दस्मेरमुखाजलुब्धमधुकृजम्बूफलाकर्षिणा
खेलन्ती मणिबन्धकीरशिशुना सीता कदा लक्ष्यते ॥ २ ॥
खवलाञ्जलिमुक्तमौक्तिकफलैजोतालवालां सुधा-
संपृक्तः सुरसिन्धुनिझरशतैः सिक्वाभिमूलामहो ।
अनान्तं सरयूतटीसुरतरोरके कृतालंकृति
कांचित्काञ्चनकल्पवल्लिमबनेरुन्मीलितामाश्रये ॥ ३॥
स्मेरेन्दीवरसुन्दरां परिवृतामस्तोककोकश्रिया
राजच्छैवलमञ्जरीं जलरुहैरालोहितैर्मोहिनीम् ।
इन्दूत्तन्दिलदुग्धसिन्धुविहम्माधुर्यसिन्धून्मुखी
कामप्याकलये निरङ्कुशदयाकैवल्यकल्लोलिनीम् ॥ ४ ॥
उन्मीलकमलोपरिस्थकमलश्रीविनमं बिभ्रती
हंसोत्तंसवतंसहंसकचमत्कारेण चेतोहराम् ।
गङ्गासंगतगङ्गया कृतपरिष्वङ्गैस्तरङ्गैः स्थिरां
क्रामत्तामरसोल्लसदसधुनीं कामप्यवेक्षामहे ॥ ५ ॥
अङ्केन्मुक्तमृगाङ्कमण्डलगलत्पीयूषपानव्रतं
हित्वा यस्य रसं रसज्ञतिलकाः खैरं धिया गृह्णते ।
कौशल्यास्कृतेक्षुपाकसचिवः सर्वंसहाखर्गवी
पुण्यक्षीरविपाक एष भजते जीवस्य जीवातुताम् ॥ ६ ॥
यस्मिञ्शैलसुतालिकेन्दुकलिका कल्याणमाल्यायते
वाग्देवीकबरीविभूषणमणिग्रामः फलस्तोमति ।
नासामौक्तिकरश्मयः स्मरसरोजाक्ष्यास्तुषारन्त्यहो
मैथिल्याश्चरणांशुपल्लवचयः शय्यास्तु मच्चेतसः ॥ ७ ॥
मन्दाकिन्यवगाहनामलसुरीवन्दारुमौलिस्खल-
न्मन्दारादिमधूनि यस्य पदयोरिच्छन्ति मन्दानिलम् ।
विन्दानीति स वक्ति यं प्रति रसाद्धातारविन्दासनः
किंदास्येन लभेऽरविन्दनिलयापादारविन्दासवम् ॥ ८ ॥
नमद्वाणीन्द्राणीप्रमुखसुमुखीनां शिरसि यं
सुपूरं सिन्दूरं कतिचन विदू रङ्गरसिकाः ।
अवन्या नन्दिन्यास्त्रिभुवनजनन्याश्चरणयोः
परागो मे रागोदयकृतपरागो विधुनुताम् ॥ ९ ॥
रुचिं तावच्चिन्तामणिसदसि चिन्ताध्वनि गता
धुनीते, ध्येया या मुनिभिरभिधेया श्रुतिशतैः ।
भया सानायासापरिणतधिया साधु गदितुं
न शक्या जानक्याश्चरणनखमाणिक्यसुषमा ॥ १० ॥
खभाले बालेन्दुं यदकलयदेकस्त्रिनयन-
स्तदन्येषां तेषामपि तदभिलाषः प्रववृधे ।
तदानीं जानीमो जनकतनयापन्नखशिखा-
स्तदालीमिर्लूनाः किल तिलकयन्ति स्म निटिले ॥ ११ ॥
विराजन्ते चिन्तामणिसदसि लक्ष्मीपदनख-
प्रतिच्छायाच्छायापतय इव दर्शेन्दुसहिताः ।
प्रजल्पेदल्पज्ञस्तव कविरिमामस्मदुपमां
तदा मन्तुः क्षन्तुं समुचित इति क्षोणिलुठिताः ॥ १२ ॥
सकारुण्यारुण्या नखमणय एते चरणयो-
र्हरन्तोऽपि ध्वान्तं न खमणय इत्थं व्यवसिताः।
पुरस्तादेतेषामनिमिषहगम्भोजपरिष-
न्निमेषादुन्मेषं कथमितरथा मुञ्चति रमे ॥ १३ ॥
चकोराणां प्राणान्यदवति नवेन्दुच्छविमतिं
वितन्वन्कोकानामपि निशि नवीनातपधियम् ।
मिलिन्दानां हेमाम्बुजघनरजःप्रेम पदयो-
र्नखानामारुण्यं तव जननि केषां न शरणम् ॥ १४ ॥
उदञ्चन्मन्दारस्खलितकुरुविन्दाङ्कितमुखै-
रपूर्वस्वर्वापीकनकनलिनापीडितदलैः ।
सवर्णा सौवर्णाम्बुजहृदि निषण्णां कथममी
वयं विद्मः पद्मानुपमपदपद्माङ्गुलिततिम् ॥ १५ ॥
मृणालश्रेणीयं म्रदिममहिमालोचनपथे
शिलाशीला लीलानलिनमैलिनः कण्टकसमम् ।
नवोन्नीतं पङ्कीभवति नवनीतं तदतुलं
परामर्शादर्शे प्रतिफलतु लक्ष्मीपदतलम् ।। १६ ॥
नखश्रेणीमेणीदृश उपनिषद्विश्रुतिजुष-
स्तव क्षोणीशोणीकरणकुशलामप्यविकलाः ।
यदेता लाक्षामिः स्मरजननि साक्षात्पिदधते
तदुत्प्रेक्षालक्ष्यीकृतनयनदोषापहृतये ॥ १७ ॥
न मृद्री माणिक्यावलिरपि सरोजं न विरज-
श्चिरं के केङ्केल्लेस्तरुणरुचयः पल्लवचयाः ।
किमु स्यादेतस्याश्चरणसदृशं पद्मवसते-
रिति प्रेक्षे यावत्तदनुफलनं तावदमृशम् ॥ १८ ॥
त्वमेव त्वन्मूर्ति मृदुभिरभिनिर्माय जैनकैः
कलाकारैर्हीरैर्मूखजटितमाणिक्यशकलैः ।
पदाङ्गुल्यावल्योर्नखदशकमस्याः सृजसि चे-
त्तदोदन्वत्कन्ये तुलितमिव मन्ये तव नखम् ॥ १९ ॥
चतुर्णां वर्णानां वरदमिदमेव स्मृतमहो
चतुर्णां वेदानां विशदमिदमेव स्तुतिपदम् ।
चतुर्णामर्थानां प्रकटमिदमेवार्पकमिति
ध्रुवं ब्रूते राकाविधुमुखि पताका तव पदे ॥ २० ॥
उपासाभिः कश्चित्कलयतु विलासाय तनिमा-
दिमाः सिद्धीः सिद्धीभवतु मितबुद्धेरपि पुरः ।
अनङ्के सुण्यङ्कस्तव स पदपङ्केरुहतले
समाजः सिद्धीनां तव चरण एवेति वदति ॥ २१ ॥
विलोक्य त्रैलोक्यस्थितललितमाणिक्यमखिलं
परिश्रान्तो मातर्मुनिशरणयोस्त्वञ्चरणयोः ।
अपश्यन्सादृश्यं क्वचिदपि न दृश्यं मम तदा
तयोरेवान्योन्यं समजनि समत्वव्यवसितिः ॥ २२ ॥
स्थलीं चुम्बच्चम्पाचटुलमुकुलश्रेणियुगली-
मुपान्ते निष्कान्ता निभृतविदलद्दाडिमदलात् ।
भजेद्बीजश्रेणी यदि रसमुखी तत्प्रियसखी
भवेदुर्वीजाते तव पदसरोजाङ्गुलिततिः ॥ २३ ॥
पदाम्भोजे भोजे¹ तब कुलिशचिह्नस्य मिषतः²
सदोंकारद्वन्द्वं कमलदलमृद्वङ्गि निवसत् ।
श्रुतीनामाद्यन्तस्थितमभिमुखं वाङ्मयमुखं
किमासां सर्वासामिह वदति तात्पर्यमिति नो ॥ २४ ॥
दशेमाः प्रेमाप्त्यै त्वदमलपदाग्रे श्रुतिशिखा
निमग्ना जानीमः किल नखशिखापङ्क्तिमिषतः।
नकारोऽयं काकुं ध्वनयति खकारस्तु खगुणं⁴
शिखाशब्दः शीर्षं कविरिति परंतु स्मरतु मे ॥ २५ ॥
समाजैः सम्राजां स्मृतमजरसां सर्वभुवना-
म्बुजानां साम्राज्यं भजदुपनतच्छत्रललितम् ।
अलंकुर्यात्तन्मे हृदयकमलं तेऽङ्घ्रिकमले
ललामं5 यत्कामं कमलनयनार्धाङ्गि कमलम्6 ॥ २६॥
सकम्पा शम्पा न त्यजति जलदालीजवनिकां
न संध्यान्तर्धानादुचितमपरं ध्यायति पुनः ।
विमुञ्चन्त्यारुण्यं तरणिकिरणास्तूर्णमन्घे
तवालोक्य श्लोक्याश्चरणनखचिन्तामणिरुचः ॥ २७ ॥
सदाशास्ते यस्त्वत्परिचरणशीलाचरणतः7
प्रहारं प्राग्भारं कमपि कुसुमानां कलयितुम् ।
अशोकस्य स्तोकोद्गतकिसलयं तस्य विदुषां
रसज्ञा सर्वज्ञे कथयतु कथं त्वत्पदसमम् ॥ २८॥
सुधोदग्रोदञ्चद्रससुरतरोश्चित्किसलये8
सुमस्तोमे प्रेमात्मनि यदि कलङ्केन विकलाः।
कलाः प्रालेयांशोः किल मधुलिहस्त्वत्पदपुन-
भवानां दृष्टान्तं दधतु वसुधानन्दिनि तदा ॥ २९ ॥
मणीमुद्रोद्गच्छत्किरणपटलच्छत्रविशदः
प्रदेशिन्या¹ श्लिष्टः शशिवदनया² रागघनया³।
घनुष्पाणेः प्राणेश्वरि भवतु ते राजति⁴ भव
पदाङ्गुष्ठो जुष्टश्चतुरमुनिभिः प्राणचमरैः॥ ३० ॥
कृपारूपे चापायुधविधुमुखि त्वत्पदनखा-
त्कृपास्रोत्श्चोद्यात्यनिशमिदमुद्योतकपटात्।
जितेन्दुर्यद्बिन्दुः सृजति सुखसिन्धून् सपदि ता-
न्यदूर्मौ निर्मज्जन्त्यहह निखिला मुक्तिमहिलाः ॥ ३१ ॥
चकोरश्चन्द्रांशुं चुलोकयति चिद्रूपिणि यथा
तथा चन्द्रोऽपि त्वच्चरणनखचन्द्रांशुनिचयम्।
चकासत्त्वच्चि6न्ताचरणचणचण्डीशचिकुरे
क्षयाचान्तोऽप्यञ्चत्ययमुपचयं तेन चतुरः ॥ ३२ ॥
यदम्भोदम्भोलिर्दुरितगिरिदर्पोपशमने
शिरः शंभोरम्भोरुहनयनरम्भोरु भजते।
सदङ्गा सा गङ्गा त्वदिन7समरङ्गासनतला
नुषङ्गत्त्वात्तुङ्गाङ्घ्रिजरुचितरङ्गान्वहति के ॥ ३३ ॥
करं डिम्भः शंभोरमरसरिदम्भोरुहधिया
सुधास्रोतःप्रोतस्मृतिरहिपतिः सर्वरसनाः।
विरञ्चे9र्विश्चञ्चुं बिसचयरसाच्चञ्चलयति
त्विषां पूरे दूरादमृतनिधिपुत्रीपदरुहां ॥ ३४ ॥
द्युग10ङ्गागाङ्गेयाम्बुजगणरजःपिञ्जरतनू-
न्प्रवालास्यैरालम्बितन¹²खमृणालाङ्कुरलवान्।
मरालानां बालाननुसरति किं तावकपदा-
ङ्गूलीनां मालेयं गतिजितमरालेऽब्जनिलये ॥ ३५॥
इयं लाक्षा साक्षात्कृतसुकृतकल्पद्रुमफला
शिलापट्टे पिष्टा ज्वलदनलकल्लोलितजले ।
परिक्षिप्ता व्यक्तीभवदतुलरक्तिः श्रुतिशिरो-
विमृश्यं सौभाग्येश्वरि तव पदं रञ्जयति या ॥ ३६ ॥
सखीपक्ष्मप्रक्षालितभवदलक्ताङ्घ्रिसलिलं
दयाक्लिन्ने क्लिन्नां विरचयति यां कामपि महीम् ।
अहं तस्याः पांसुः कथमहह भूयासमथवा
कुतो न स्यां मन्त्रैर्यदि कुलिशपत्रैश्च दलनम् ।। ३७ ॥
सुरैर्मुक्ता मुक्तास्तवकनिकरास्त्वच्चरणयोः
पुरः सोमस्तोमा इव सपदि तत्तद्भुवनतः ।
उपेतास्त्वामेते शरणममले त्वत्पदसुहृ-
त्सरोजानामोजःक्षपणकृतमागः क्षपयितुम् ॥ ३८ ॥
किमेतौ लौहित्याम्बुघिसमुदितौ विद्रुमतरू
प्रवालावाहोखिल्लवणिमरसालस्य सरसौ ।
प्रसत्तिखर्वापीकमलमुकुलौ किंस्विदतुलौ
हरेराह्लादिन्याः किमुत चरणौ सर्वकरुणौ ॥ ३९ ॥
यदग्रे प्रत्यग्रं जलजमजतामेव रसना-
प्रसिद्धः संनद्धो नवकिसलयः पल्लवतया।
यदस्यैतस्यैवंरसमपि तवैकापि न तुला
तदप्येतल्लप्यं कथमपि तुलाकोटिकलितम् ॥ ४०॥
स्पृशन्ती यां शक्रोपलशकलचक्रांशुलहरी-
सवर्णेयं वेणी कलयति वलच्छैवलरुचिम् ।
स्पृशन्त्यकं प्रेमाङ्कितविरचितं कुङ्कुममयं
प्रिये विष्णोः पार्ष्णिः कनकनलिनीकन्द इव ते ॥४१॥
मदग्रे माध्वीकब्रजमदरबः किं पिकवधू.
कलः किं बल्लक्याः कणितमपि किं पङ्कजदृशाम् ।
क्वणन्त्येवं देवि ध्वनयितुमिमाः सर्वनमतां
शरण्ये किङ्किण्यस्तव चरणयोः किंकिमिति किम् ॥ १२ ॥
त्रयीचूडाक्रीडत्रिदशतटिनीस्वर्णनलिनी-
सभोत्तंसो हंसः स्पृशति न शुचिं त्वत्पदगतिम् ।
मदान्धोऽयं पुष्पंधयनिचयसंबन्धमलिनः
स्पृशेदम्बे स्तम्बेरमकुलमणिस्तां तव कथम् ।। ४३ ।।
बहिर्द्वारि द्वैमातुरसुरपतिप्रख्यमखभु-
क्कदम्बे संबद्धाञ्जलिवलितमौलि स्थितवति ।
चकोरीभूयासौ किमवनिकिशोरीचरणयो-
नखेन्दूनामंशून्रसयतु वसन्दूरमजिरात् ॥ ४४ ॥
महःसिन्धू पङ्केरुहकुमुदबन्धू त्रिभुवन-
प्रदीपौ यद्दीप्तौ भवत इव खद्योतपृथुकौ ।
अशेषस्थानेषु ध्रुवसुखविशेषं विदधती
विचित्रोर्वीपुत्रीपदरुहततिर्मङ्गलमयी ।। ४५ ॥
सुधाफेनच्छायाखचितसिचयेन प्रियसखी-
शतैर्या पर्यङ्कान्तिकमुपसृता केसरधियम् ।
स्पृशन्ती स्मेरं ते वदनमवलोक्यानमति सा
पदे रेखाराजी तव जयति राजीवनयने ॥ ४६ ॥
त्रपावश्या पश्यंस्त्यजति ननु गीः कोशलपते-
रसूर्यंपश्यायाः पदकिसलयस्नानसलिलम् ।
भवेद्योगे नद्यो हिमवदहिमांशुप्रभवयो-
निलीना सेदानीमपि न पदवीं रोहति दृशोः ॥ ४७ ॥
स्फुटः स्यां चेद्याचेद्वितरणगुणं खं मणिगणः
खयं स्वर्गो वर्गः कुलमपि सुपर्वक्षितिरुहाम् ।
कविर्वा कुर्वीत प्रतिममितरैर्मामिति भृशं
विमृश्यादृश्यत्वं तव भजति गुल्फः किमु रमे ॥ ४८ ॥
मिलिन्दत्वं विन्दे यदि वसुमतीनन्दिनि तदा
त्वदीयाङ्घ्रिच्छायार्पितसरसमाल्यस्य रजसा ।
परिष्वक्तः शश्वद्गतिरहह यां यां दिशमिया-
बहं तस्यां तस्यां दिशि तदनुगः स्यामनुयुगम् ॥ १९ ॥
पटीरः स्यां कस्यामपि भुवि यदि क्षीरधिसुते
तदा केचिद्धन्याः शुभपरशुभिः खण्डश इमम् ।
सृजेयुर्मां धर्मावृति दृषदि मज्जेयुरपरे
दचीरन्वा धीरं तव पदरुहे केऽपि कृतिनः ॥ ५० ॥
निलिम्पस्त्रीहस्ताङ्गुलिकलितशक्राश्मशकलो-
र्मिकालोकस्तोकेतरमधुपसंपर्कमधुरम् ।
विहारक्ष्माहीरच्छविकुलसुधापल्वलनिभं
मदीयं वैदेहीचरणनलिनद्वन्द्वमखिलम् ॥ ५१ ॥
यदुन्मेषे भूषास्त्यजति गिरिजाजानिरुडपः
कलङ्कं पर्यङ्कं नलिननयनः पत्रमनिलः ।
स मञ्जीयान्संजीवयतु जगतां मातुरुषसि
व्रजन्त्या मञ्जीरध्वनिरशरणं जीवहरिणम् ॥ ५२ ॥
भ्रमन्त्यास्त्वच्चिन्तामणिगृहसमन्ताद्यदुदये
विपञ्ची खं चोलं प्रविशति विरञ्चेर्मृगदृशः ।
शुकोऽप्यस्याः पश्यत्यभिमुखमहो पञ्जरमुखं
जगन्मातुः(तः) प्रातः स जयति भवन्नूपुररवः ॥ ५३ ॥
यदप्याशाधीशास्तव दश लभन्तेऽङ्घ्रिजशिखाः
शनैर्नूनं लूनास्तदपि वरुणस्तत्र करुणः ।
दिशि स्वस्यां यस्तां प्रमुदितसमस्तां प्रकटय-
त्यपूर्वेन्दुं सर्वेऽप्यभिदधति यां निर्वृतिमयीम् ॥ ५४ ॥
मणीनेकैकस्यां दशदश फणीशो वहति य-
त्फणायां विच्छायीकृतनवदिनेशानवनिजे ।
नखानां ध्यानाय प्रतिफणमयं तत्प्रतिकृती:
प्रतीमः सप्रेमा कलयत इमास्त्वच्चरणयोः ॥ ५५ ॥
तपःस्फूर्जन्नूर्जखलनखकुलं तेऽङ्घ्रिकमलं
मुनिः कश्चित्सचिन्मयि शिरसि दध्यौ प्रतिपलम् ।
स एष श्रीशेषः शिरसि शिरसि त्वञ्चरणयोः
प्रपेदे सारूप्यं दश दश मणीन्बिभ्रति शुमान् ॥ ५६ ॥
विवाहे वैदेह्याः पदरहमहःपाटलकलाः
कृशानौ संक्रान्तास्तदवधि किलायं दशकलः ।
प्रविश्यामुं क्षामच्छविरपि रविर्घाम लमते
नवीनं दीनेन्दुः खमिदमनुसृत्य प्रसरति ॥ ५७ ॥
तृणंमन्यश्चिन्तामणिमपि मुनिर्यः कलयति
प्रियं प्राणात्पृथ्वीदुहितरिदमङ्घ्रेस्तव नखम् ।
कथं तन्माणिक्यप्रमित(तिम)मिति शक्यं कथयितुं
किमारोपस्थानी द्युमणिरपि यस्यैककिरणे ॥ ५८ ॥
ससंकोचाः सिञ्चन्त्यमरललनाः कुङ्कुमरसै-
नमच्छंभुं संभावयति च कुसुम्भाक्तसिचयैः ।
पिधत्ते या पिष्टातकपटलतो दिङ्मुखमियं
श्रियं दिश्याल्लक्ष्मीचरणरुहलौहित्यलहरी ।। ५९ ॥
विरिञ्चाद्यैरर्च्ये तव चरणयोरर्चनकृते
शुभैः पुष्पैः शोभाजुषि मरकताकाशचषके ।
चकास्तीदं चन्द्रोज्ज्वलनमखिलामोदजनकं
ससंकोचं नो चेत्कथममुकयोः स्पर्धि कमलम् ॥ ६० ॥
कुरुक्षेत्रं क्षेत्रं कुरु चरणयोः सच्चरणयोः
सरखत्या कान्त्याङ्गुलिवलयशक्रोपलरुचा ।
समुद्यत्कालिन्द्याजनजननि वृन्दावनमिदं
मखाग्रप्रत्यग्रद्युतिगगनधुन्या सुखवनम् ॥ ६१ ॥
दरोन्मीलत्कल्पद्रुमकुसुमसौरभ्यलहरी-
धुरीणैर्धम्मिल्लैः सुरयुवतिभिर्धूतरजसी ।
त्रिलोकीनिःशोकीकरणनिपुणे रामरमणी-
पदत्राणे प्राणेशितुरिव रतेर्नौमि शरधी ॥ ६२ ॥
स्फुरामि द्युखामिप्रमुखहृदयान्तर्ध्रुवमहं
मदन्तः सीतायाः स्फुरति वसुमत्याः पदमिदम् ।
अमुष्यान्तः किं किं न सुखमिति किङ्किण्यनुरण-
त्कृतैरङ्घ्रित्राणं भणति धरिणीनन्दिनि तव ॥ ६३ ॥
वनं म्लानीकर्तुं विमृशति हिमानी वनरुहा-
मियं सेना तेषां खलु मधुलिहामम्बुजधिया ।
झटित्यावां धावेदिति किमु पदाभ्यां तव धृते
पदावन्यावन्यादृशमणिधरे प्रेयसि हरेः ॥ ६४॥
प्रणामं कुर्वाणः पदकमलयोस्ते विमलयो-
स्त्रयाणां त्राणाय प्रभवति मनोजाम्ब जगताम् ।
प्रवीणे तत्राणे नमयति शिरो यः कृतिवरः
स कां सिद्धिं विद्यादिह बहुतरां मुह्यति मनः ॥ ६५ ॥
पदखेदामोदप्रसरणसमाहूतमधुपे
विमुक्ते मञ्चस्याक्रमणसमये भूमिसुतया ।
पदत्रे सुत्रामद्रु मकिसलयप्रश्लथनव-
प्रसूने केनेमे शिरसि सरसं न प्रणिहिते ॥ ६६ ॥
न साक्षादस्प्राक्षीन्मृगरिपुमृगाक्षीपदयुगं
तदप्येतां चिन्तां वरमकृत चिन्तामणिकुलम् ।
विना याञ्चां वाचामविषयफलं दातुमुचिते
यदासक्तं नक्तंदिवमवनिजापत्रयुगले ॥ ६७ ॥
खशोणिम्ना निम्नानमरमणिमौलीन्विदधती
सुखोद्योते हेतू बत नयनयोरभ्युदयदे।
जगद्वन्द्ये संध्ये इव सकुरुविन्दे त्रिजगतः
सवित्रि त्वत्पत्रे परमनुसृते तारकवरैः ॥ ६८ ॥
अमी नूनं चामीकरतनुगुणैः पूर्णनिपुणैः
प्रणीताः पत्राणे तव नवतराः कल्पतरवः ।
प्रयच्छन्तो वाञ्छोपरि विदधते लाञ्छनधुरं
पुराणं गीर्वाणद्रुमगणमलिन्नातकपटात् ॥ ६९ ॥
मृशामः सुत्रामद्युमणिवरुणास्त्वत्पदवनीं
समर्थाः स्प्रष्टुं न व्यवसितपुमर्थास्तदपि ते ।
वसन्त्योतप्रोता यदिह मिथिलाधीशतनये
शचीशग्रावाणस्तरणिमणयो मौक्तिकगणाः ॥ ७० ॥
त्रिवेणीयं चित्रा त्वदमलपदत्राणजटिता-
रुणश्वेताश्वेताद्भुतमणिमयूखैः परिणता ।
गिरां देवी यस्यामपि सुरसरिद्भास्करसुता
जनानां धुन्वाना सकलशमलं मज्जतितराम् ।। ७१।
यदीहन्ते हन्त श्रवणकुहरेऽनाहतरुता-
नुसंधानं हित्वाद्भुतसुखनिधानं शमधनाः ।
दिवो गव्याः स्तव्यं सुरमणिरणन्नूपुरनुतं
मम प्राणः क्षोणीदुहितृचरणत्राणरणनम् ।। ७२ ।।
दयानन्ते चिन्तामणिमपि पदस्यावनि मृदु-
खनैः कर्णे कुर्वन्त्यमृतरससर्वखमधुना ।
सखीहस्तन्यस्तोभयकरतलां स्निग्धतरलां
दृशोरध्वानं मे गमय कमलामात्तकमलाम् ॥ ७३ ।।
दयाशीले लीलापरिषदि शुकः स्यां तब तदा
चलच्चञ्चुश्चुम्बन्पदकवचयोस्ते कबचितम् ।
मणिग्रामं कामं विदलविदलद्दाडिमधिया
करोमि स्मेरां त्वां सह सहचरीभिर्मुहुरहम् ।। ७४ ॥
अये रामक्षामोदरि मयि कृपां कल्पय तथा
सदासौ त्वत्सौधावनिषु हरिणीभूय विहरन् ।
यथा दूर्वापूर्वाङ्कुरचयधिया चुम्बति भव-
त्पदत्राणप्रोतत्रिदशपतिमाणिक्यकिरणान् ।। ७५ ।।
पदाङ्गुल्यस्तुल्यांस्तव कुसुमशस्त्रस्य विशिखा-
ञ्जगज्जिष्णूञ्जेतुं कथमकलयन्वज्रकवचम् ।
अनायासावासं स्मृतिमयमयं वर्म कलय-
न्सुजिह्मब्रह्मास्त्राण्यपि विफलयत्यम्ब शतशः ॥ ७६ ॥
इलालीलोन्मीलत्कुतुकलतिकापत्रजरजः
कृपावीरः कश्चिद्वितरति समीरः सकृदपि ।
विमुक्तिक्षामाङ्गीवदनकमलामोदलहरी-
मुरीकर्तुं को वा स्पृहयतु तदा क्ष्वेडलहरीम् ॥ ७ ॥
पदत्रेऽस्मिन्मुक्ताखिलकलुषमुक्ताफलमिषा-
त्कविर्देहव्यूही निवसति बलेरेष सचिवः ।
कथं नो चेद्वैरोचनिरनिमिषाधीशनगरी-
मुरीकुर्याद्भूयो दनुजदमनप्राणदयिते ।। ७८ ।।
कृती वंशोत्तंसः स किल नलिनाक्षस्य महिले-
ऽखिलैर्मुक्तेत्युक्ता कवचयति यत्संततिरियम् ।
चिरं चित्ते चिन्त्यं चरणकवचं तेऽभिदधती
नियुक्तं मुक्तानामपि सुखविधानेष्विदमिति ॥ ७९ ॥
कृपायुक्ते मुक्तामयभवदुपानत्प्रसृमर-
प्रभापूरक्षीराम्बुधिरयमगम्यो मम गिराम् ।
लभन्ते ध्यायन्तोऽप्यमितममृतं यं सकृदपि
श्रियोऽसंख्याः संख्यावदभिमतदिव्या अधिगवीः ॥ ८० ॥
परित्यज्य प्राज्यानपि मखभुजो मय्यवनिजा
पदाभ्यामभ्यस्या वसतिरिति पद्गाहिनि मदम् ।
जहीहि त्रायेथामिति कथयतः क्वापि सभये
न किं हित्वापि त्वां मम वसतिमायास्यत इमे ।। ८१ ।।
द्विजोत्तंसैर्हंसैरविरतमुपास्याम्बुधिसुता-
पदावन्यावेते कनककमलिन्यावनुपमे ।
यदुद्दामेन्द्राश्मद्युतिविततनालेषु दिविष-
द्विशालाक्षीरिङ्गत्करकमललक्षं विजयते ॥ ८२ ।।
विदूराद्वन्दारुत्रिदशवरकोटीरशिखर-
स्फुरद्धीरक्षीरोज्ज्वलकरसहस्रद्युसरितः ।
यदिन्द्राश्मश्रेणीकिरणवरुणागारशरणा
विराजन्ते सन्तः स्मरत तदिलाजाङ्घ्रिकवचम् ॥ ८३ ॥
मुखब्रह्मब्रह्मप्रमुखसुरकोटीरशिखर-
स्फुरद्धीरक्षीरच्छविहरमहःपूरनिवहः ।
यदिन्द्राश्मश्रेणीकिरणनिकरे सागर इव
प्रवाहः खर्वाप्यास्तदवतु सवित्र्यङ्घ्रिकवचम् ।। ८४ ॥
समुद्रान्तर्निद्राप्रवणभगवच्चन्द्रवदना-
पदाधारोद्धारी स्फुटपुरटपीठोद्भवतटात् ।
पटुप्रेमप्रह्वामरकमुकुटोद्धृष्टकटका-
दुदञ्चद्धिः पुञ्जैः कनकरजसां पिञ्जरमुखः ।। ८५ ।।
पदावन्योर्धन्ये तव वितरणं वेत्यनिमिष-
द्रुमाली त्वल्लीलावनमुपगता नन्दनवनात् ।
भवत्यां खेलन्त्यामुपवनसरस्यां यदनयो-
स्तलस्थेये प्रेम्णा सृजति कुसुमैरर्चनमियम् ।। ८६ ॥
अजस्रं यः संस्रत्यभिनवमवत्पत्कवचयोः
समन्तात्सीमन्ताभरणनवसिन्दूरशबलः ।
तमेव खर्वामासुरभिकबरीमाल्यरजसां
कदम्बं हेरम्बः शिरसि कुरुते लम्बकरतः ।। ८७ ॥
पिधत्तस्त्वत्पत्रे चरणशतपत्रे तव जग-
त्प्रसिद्धे सिद्धीशे सुरतरुसुमौघः पुनरिमे।
इमं तावद्भावग्रहिलविबुधोत्तंसमहिला-
कबर्यस्ता एताश्चतुरमधुकर्यः पिदधते ॥ ८८ ॥
जगद्योगक्षेमौ जनकजगतीजानितनये
त्वदीये पादाब्जे वहत इमके रत्नकवचे ।
मम प्रेमप्राणावपि वहत एते पुनरहं
वहाम्येतौ तस्मादिह मम समानोऽस्तु कतमः ॥ ८३ ॥
बहिर्मुक्ते लीलागृहगमनवेलासु वसुधा-
दुहित्रेत्यङ्ग्रित्रे निजविफलतां मा कलयताम् ।
विना वां किं वास्याः पदकिसलयौ द्रष्टुमधिको-
सुकानां लोकानां जनयतु विनोदं नयनयोः ॥ ९० ॥
परिष्वक्ते मुक्तावलिभिरभितस्तेऽङ्घ्रिकवचे
नमन्तो दूरेण प्रणयरसपूरेण तरलाः ।
सुपर्वाणः के नो पशुतरुविशेषान्यतरतां
स्तुवन्तो निन्दन्ति त्रिदशपदवीं रामदयिते ॥ ९१ ॥
उपस्तीरोत्तीर्णत्रिदशपुरपूर्णेन्दुवदना-
ञ्जलस्रस्तस्वर्णाम्बुजनवरजस्यर्णवसुते ।
त्वदङ्घ्रिस्पृक्पीठाङ्घ्रिषु परिधिभूते घृणिरयं
लुठित्वा तद्रागं जगति सविभागं वितरति ॥ ९२ ॥
पुरःपश्चात्पार्श्वे प्रणमदमरान्तर्गतगजा-
ननापर्णापर्णारमणतिलकार्धेन्दुकिरणैः ।
चतुःस्रोतःपूर्णं तव सविधुरत्नासनमये
सवर्णं स्वर्णार्देः स्रवदमरसिन्धोः प्रतिदिशम् ॥ ९३ ।।
पुरो नम्रान्कम्रोत्तमरमणपत्पद्मसुषमा-
समुद्रामग्नं ते स्पृशतु हृदयं मा स्पृशतु वा ।
परं त्वेतानन्तस्तव चरणपीठं मणिमयं
स्पृशत्येव स्तुत्ये प्रसरदनुरागोर्मिनिकरम् ।। ९४ ।।
दरोदञ्चत्पञ्चद्रुमसुमचयो यच्चरणयो-
र्न सीम्नि स्थेमानं वहति सहसोन्नीत इतरैः ।
सुनासानां तासामपि शयपुटैश्चुम्बितरुचो
जयन्त्युर्वीजाते तव चरणपीठस्य चरणाः ॥ ९५ ॥
तपस्तप्तं पद्मैः पयसि गलितं केवलहिमे
दुरापा तत्प्राप्ता सुरपुरवधूपाणिपदवी ।
सुरद्रूणां पुष्पैरहह सहवासश्च विहितः
पुटीभूतैः स्पृष्टास्तदुपरि भवत्पीठचरणाः ।। ९६ ॥
श्रियो लीलाहर्म्यात्पदकमल उन्मीलति मना-
ङ्निमीलत्यालीनामुषसि करनालीकनिकरः ।
निमीला कीलालाशयशतदलैर्यत्कुवलयै-
र्द्रुतं मुक्ता युक्तं तदपि शशिकृत्यं विमृशताम् ॥ ९७ ।।
समस्तो विन्यस्तस्तव चरणयोः प्रेमरसिकै-
र्भैरोऽमूभ्यां मूल्योज्झितमणिनिषद्योपरि पुनः ।
तयात्मीयाम्नायाङ्घ्रिषु च त इमे दुर्वहतमं
पुमर्थानां भारं ददति नमतो मूर्धनि बलात् ।। ९८ ॥
अयः स्पर्शस्पर्शात्कनकमिव मुक्ताकवचितं
पदस्पर्शात्पीठं तव भवति माणिक्यमनघम् ।
विमुक्तं यन्मुक्तामयमिव पुनर्भाति स भव-
त्पदाभ्यां विश्लेषाद्धवलिमविशेषोऽस्य वरदे ॥ ९९ ।।
सहस्रेणाप्यक्ष्णां तव चरणयोर्वीक्षणविधा-
वतृप्तः संसद्यामिनरमणि दृक्संभवति ते।
महेन्द्रो मायामिः पुरुवपुरभूद्धृत्सु च वहं-
स्त्वदङ्घ्री संक्रान्तौ बहिरपि गिरां पश्यति बहिः ।। १००॥
सुमोल्लोचस्यूतायतसितसहस्रच्छदलता-
सहस्रं संक्रान्तं मणिमयभवन्मण्डपभुवि ।
सहस्रं शेषाणामिव धरणिमूलोन्नतशिरः-
सहस्राणां स्तोतुं तव पदमिदं कौतुकनिधे ॥ १०१ ॥
अहो पूर्वापूर्वामरगुरुयुगं तेऽङ्घ्रियुगलं
न शक्नोति स्तोतुं कलियुगजनेः कात्र गणना ।
प्रलापं श्रुत्वा मे तदपि नखकोटीन्दुशकल-
प्रभाजालव्याजाद्धसति मुदितं वत्सलमिदम् ।। १०२ ।।
मनोभूवामाक्षीस्मयहरमृगाक्षीपरिषदो
दृशः सक्ता नक्तंदिवमवनिजे त्वत्प्रियदृशोः ।
तैयोस्तावद्धावस्तव नयनयोस्त्वन्नयनयो-
स्तवैवाङ्घ्र्योस्तस्मान्मम हृदयमत्रैव रमते ॥ १०३ ।।
चिदानन्दां मन्दस्मितदमितराकेन्दुशतकां
मुकुन्दाङ्के लग्नां घुसृणरसमग्नाम्बरधराम् ।
स्फुरन्नासामुक्तामुरसि नवहारेण मधुरां
तडित्काञ्चीं काञ्चित्स्मरत चतुराश्चारुचरणाम् ॥ १०४ ॥
दुकूलेनाचूडामणि पिहितमानूपुरमहि
खरूपं तेऽनन्ते चरणयुगलं मुक्तमतुलम् ।
नखज्योतिःस्रोतः सुरमुकुटरत्नांशुनिकरा-
त्परावृत्तं रत्नांशुकमिव विधत्ते पुनरिदम् ॥१०५ ॥
शरज्योत्स्नाजालोज्वलमपि दुकूलं विजयते
यदङ्गानां सङ्गात्सपदि रजनीरञ्जितमपि ।
पुनर्यस्या हास्यैरमृतसरसीकेन सदृशं
श्चियः पश्याम्यस्याश्चरणकिरणैर्विश्वमरुणम् ॥ १०६ ।।
सुधावीचीनीचीकरणनिपुणापाङ्गकरुणा-
तरङ्गैरुत्तुङ्गैश्चरणशरणं सिञ्च कृपणम् ।
मम प्रज्ञावापीभवनवकाव्याम्बुजवने
पदन्यासं कुर्याः सरसिजनिवासव्यसनिनि ॥ १०७ ॥
वितानाधस्तानाः शतदशकमुक्तामयलताः
सभायामाभान्ति त्रिदशसरिदोघा इव तव ।
प्रभाभिर्वीचीभिस्तव नखमयूखामृतनिधे-
विलोलैः कल्लोलैः सह परिमिलन्त्यो रसनिधे !! १०८ ॥
सुराः सर्वे सर्वास्तव चरणमूले सुरतरो-
स्त्वमासीना मूलेऽनुचितमिति मत्वा सुरतरुः ।
भवन्मञ्चाधस्ताद्धवि विविधरत्नेषु बहुधा
विशन्प्रायश्चित्तं चरति बहुरूपैः परतरे ॥ १०९ ॥
कपिद्वारा वारामुपरि जलधेः सेतुतरणि-
र्यथोदारा धाराधरसुरुचिरामेण रचिता ।
मैया द्वारा नारायणविधुमुखीपन्नतिरियं
भवोद्धारा साराश्रयहृदयरामेण विहिता ॥ ११० ॥
प्रकृत्या भृत्योऽहं श्वसन इह सामन्ततिलको
मनश्छत्रं पीठं हृदयशतपत्रं विकसितम् ।
सुमानां सम्राजोर्जगदहमहंपूर्वमवतो-
र्वचः स्फीतं सीतारुणचरणयोश्चामरमिदम् ॥ १११ ।।
प्रेमरत्नरचिताक्षरहैमदण्डमण्डितमुपासकगृह्यैः ।
गृह्यतां दशमुखप्रतिमल्लवल्लभाचरणचामरमेतत् ॥ ११२ ॥
इति श्रीमद्रामचरणचन्द्रिकाचकोरायमाणश्रीमारुतिसिद्धान्तविहरमाणविद्वद्धुरीणकौन्तेयाचार्यसूनुश्रीनिवासाचार्यविरचितं सीताचरणचामरस्तोत्रम् ॥