पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३
लघुवाक्यवृत्तिः।


क्रमेणाभ्यस्यतां यत्नाद्ब्रह्मानुभवकाक्षिभिः ॥ १२ ॥
सविकल्पकजीवोऽय ब्रह्म तन्निर्विकल्पकम् ।
अह ब्रह्मेति वाक्येन सोऽयमर्थोऽभिधीयते ॥ १३ ॥
सविकल्पकचिद्योऽहं ब्रह्मैक निर्विकल्पकम् ।
स्वत सिद्धा विकल्पास्ते निरोद्धव्या प्रयत्नतः ॥ १४ ॥
शक्य' सर्वनिरोधेन समाधिर्योगिनां प्रियः ।
तदशक्तौ क्षण रुद्धा श्रद्धालुर्ब्रह्मतात्मनः ॥ १५ ॥
श्रद्धालुर्ब्रह्मता स्वस्य चिंतयेगुद्धिवृत्तिभिः ।
वाक्यवृत्त्या यथाशक्ति ज्ञात्वाद्धाम्यस्यता सदा ।। १६ ॥
तचिंतन तत्कथनमन्योन्यं तत्प्रबोधनम् ।-
एतदेकपरत्वं च ब्रह्माभ्यास विदुर्बुधाः ॥ १७ ॥
देहात्मधीवब्रह्मात्मधीदार्ढ्ये कृतकृत्यता ।
यदा तदायं म्रियता मुक्तोऽसौ नात्र सशयः ॥ १८ ॥

॥ इति लघुवाक्यवृत्ति समाप्ता ॥


---