महाभारतम्-05-उद्योगपर्व-136

विकिस्रोतः तः
← उद्योगपर्व-135 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-136
वेदव्यासः
उद्योगपर्व-137 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

विदुलोपाख्यानोपसंहारः ।। 1 ।।
विदुलोपाख्यानश्रवणफलकथनम् ।। 2 ।।

मातोवाच।

5-136-1x

नैव राज्ञा दरः कार्यो जातु कस्यांचिदापदि।
अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ।।

5-136-1a
5-136-1b

दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते।
राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतीः ।।

5-136-2a
5-136-2b

शत्रुनेके प्रपद्यन्ते प्रजहत्यपरे पुनः ।
अन्ये तु प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः ।।

5-136-3a
5-136-3b

य एवात्यन्तसुहृदस्त एनं पर्युपासते।
अशक्तयः स्वस्तिकामा बद्धवत्सा इला इव ।।

5-136-4a
5-136-4b

शोचन्तमनुशोचन्ति पतितानिव बान्धवान् ।
अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः ।।

5-136-5a
5-136-5b

ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः ।
मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः ।।

5-136-6a
5-136-6b

प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव।
विदधत्या समाश्वासमुक्तं तेजोविवृद्धये ।।

5-136-7a
5-136-7b

यदेतत्संविजानासि यदि सम्यग्ब्रवीम्यहम्।
कृत्वा सौम्यमिवात्मानं जायायोत्तिष्ठ सञ्जय ।।

5-136-8a
5-136-8b

अस्ति नः कोशनिचयो महानविदितस्तव।
तमहं वेद नान्यस्तमुपसंपादयामि ते ।।

5-136-9a
5-136-9b

सन्ति नैकशता भूयः सुहृदस्तव सञ्जय ।
सुखदुःखसहा वीर संग्रामादनिवर्तिनः ।।

5-136-10a
5-136-10b

तादृशा हि सहाया वै पुरुषस्य बुभूषतः।
इष्टं जिहीर्षतः किंचित्सचिवाः शत्रुकर्शन ।।

5-136-11a
5-136-11b

तस्यास्त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः ।
तमस्त्वपागमत्तस्य सुचित्रार्थपदाक्षरम् ।।

5-136-12a
5-136-12b

पुत्र उवाच।

5-136-13x

उदके नौरियं धार्या वक्तव्यं प्रवणे मया।
यस्य मे भवती नेत्री भविष्यद्भूतिदर्शिनी ।।

5-136-13a
5-136-13b

अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् ।
किञ्चित्किञ्चित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः ।।

5-136-14a
5-136-14b

अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात्।
उद्यच्छाम्येष शत्रूणां नियमार्थं जायय च ।।

5-136-15a
5-136-15b

कुन्त्युवाच।

5-136-16x

सदश्च इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः।
तच्चकार तथा सर्वं यथावदनुशासनम् ।।

5-136-16a
5-136-16b

इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् ।
राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम् ।।

5-136-17a
5-136-17b

जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा।
महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति ।।

5-136-18a
5-136-18b

इदं पुंसवनं चैव वीराजननमेव च।
अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते ।।

5-136-19a
5-136-19b

विद्याशूरं तपःशूरं दानशूरं तपस्विनम् ।
ब्राह्मया श्रिया दीप्यमानं साधुवादे च संमतम् ।।

5-136-20a
5-136-20b

अर्चिष्मन्तं बलोपेतं महाभागं महारथम् ।
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ।।

5-136-21a
5-136-21b

नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् ।
ईदृशं क्षत्रिया सूते वीरं सत्यपराक्रमम् ।।

5-136-22a
5-136-22b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
षट्त्रिंशदधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-136-1 दरो भयम् ।। 5-136-4 इला धेनवः ।। 5-136-10 शतार्हा अनिवर्तिन इति कo खo पाठः। शतार्हाः शतवेतनयोग्या इति रत्नगर्भः ।। 5-136-12 स्वल्पचेतसोपि तस्य तमोपागमदिति संबन्धः ।। 5-136-13 उदके भूरियं धार्या मर्तव्यं प्रवणे मया इति झo पाठः । तत्रायमर्थः। उदके मज्जन्तीव भूः पित्र्यं राज्यं ।(धूरिति पाठेपि स एवार्थः) इयं मया धार्या मग्नं राज्यं वा उद्धर्तव्यम्। प्रवणे प्रपाते वा युद्धाख्ये वा मर्तव्यं नतु एवमेव निर्व्यापारेण स्थेयम्। नेत्री शिक्षयित्री। उदके सूर्यवद्यस्मिन्सक्तव्यं प्रवणे मया इति डo पाठः ।। 5-136-14 अपरापरं उत्तरोत्तरम्। प्रतिवदन् प्रतिकूलं वदन् ।। 5-136-15 बान्धवात् बन्धुतः । उद्यच्छामि उद्यमं करोमि। नियमार्थं निग्रहार्थम् ।। 5-136-19 पुंसवनं पुत्रप्रसवकरम् ।।

उद्योगपर्व-135 पुटाग्रे अल्लिखितम्। उद्योगपर्व-137