अथर्ववेदः/काण्डं १९/सूक्तम् १२

विकिस्रोतः तः
← सूक्तं १९.११ अथर्ववेदः - काण्डं १९
सूक्तं १९.१२
वसिष्ठः
सूक्तं १९.१३ →
दे. उषा। त्रिष्टुप्।

उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता ।
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥१॥