गीतगोविन्दम्/सुप्रीतपीताम्बरः

विकिस्रोतः तः
← एकादशः सर्गः - सानन्ददामोदरः गीतगोविन्दम्
द्वादशः सर्गः
सुप्रीतपीताम्बरः
जयदेवः

॥ द्वादशः सर्गः ॥
॥ सुप्रीतपीताम्बरः ॥

गतवति सखीवृन्देऽमन्दत्रपाभरनिर्भर-स्मरपरवशाकूतस्फीतस्मितस्नपिताधरम् ।
सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियाम् ॥ ६८ ॥

॥ गीतम् २३ ॥

किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् ।
तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥
क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ १ ॥

करकमलेन करोमि चरणमहमागमितासि विदूरम् ।
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ २ ॥

वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।
विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ ३ ॥

प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।
मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ ४ ॥

अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् ।
त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ ५ ॥

शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिदानम् ।
श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ ६ ॥

मामतिविफलरुषा विकलीकृतमवलोकितुमधुनेदम् ।
मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥ ७ ॥

श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।
जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम् ॥ ८ ॥

माराङ्के रतिकेलिसंकुलरणारम्भे तया साहस-प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्भ्रमात् ।
निष्पन्दा जघनस्थली शिथिलता दोर्वल्लिरुत्कम्पितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ ६९ ॥

अथ कान्तं रतिक्लान्तमपि मण्डनवाञ्छया ।
निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥ ७० ॥

॥ गीतम् २४ ॥

कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।
मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे ।
निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥ १ ॥

अलिकुलगञ्जनमञ्जनकं रतिनायकसायकमोचने ।
त्वदधरचुम्बनलम्बितकज्जलमुज्ज्वलय प्रिय लोचने ॥ २ ॥

नयनकुरङ्गतरङ्गविकासनिरासकरे श्रुतिमण्डले ।
मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले ॥ ३ ॥

भ्रमरचयं रचहयन्तमुपरि रुचिरं सुचिरं मम संमुखे ।
जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥ ४ ॥

मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे ॥ ५ ॥

मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे ।
रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥ ६ ॥

सरसघने जघने मम शम्बरदारणवारणकन्दरे ।
मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे ॥ ७ ॥

श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने ।
हरिचरणस्मरणामृतकृतकलिकलुषभवज्वरखण्डने ॥ ८ ॥

रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-र्घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् ।
कलय वलयश्रेणीं पाणौ पदे कुरु नूपुरा-विति निगतितः प्रीतः पीताम्बरोऽपि तथाकरोत् ॥ ७१ ॥

यद्गान्ध्गर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतत्वमपि यत्काव्येषु लीलायितम् ।
तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥ ७२ ॥

श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ ७३ ॥

॥ इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥
॥ इति गीतगोविन्दं समाप्तम् ॥