सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १३३

विकिस्रोतः तः
← अध्यायः १३२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १३३
[[लेखकः :|]]
अध्यायः १३४ →

श्रीनारायणीश्रीरुवाच-
कृष्णकान्त मम कान्त श्रुतं दानमहत्फलम् ।
पुण्ये दिने प्रदातव्यं यदुक्तं भवता प्रभो ।। १ ।।
पुण्याश्च दिवसाः सर्वे ज्ञातास्त्वयोदिता मया ।
तेषु पुण्यतमं चाहर्ज्ञातुमिच्छामि तद्वद ।। २ ।।
श्रीपुरुषोत्तम उवाच-
अनादिश्रीकृष्णनारायणस्य यत्र भूतले ।
प्राकट्यं मे दिने जातं दिनं पुण्यतमं हि तत् ।। ३ ।।
ऊर्जकृष्णाष्टमी सैषा सर्वोत्तमा प्रदानके ।
दातुर्जन्मदिनं चापि श्रेष्ठं दातुः कृते मतम् ।। ४ ।।
कल्पनाम्ना च दिवसाः श्रेष्ठतमा भवन्त्यपि ।
ब्रह्मणो मासदिवसाः श्रेष्ठा भवन्ति दानके ।। ५ ।।
मासाहत्रिंशन्नामानि कथयामि निबोध मे ।
येषां तु कीर्तनादेव वेदपुण्येन युज्यते ।। ६ ।।
प्रतिपत् श्वेतकल्पस्तु द्वितीयो नीललोहितः ।
तृतीयो वामदेवस्तु तुर्यो राथन्तराभिधः ।। ७ ।।
पञ्चमो रौरवाख्यश्च षष्ठो देवदिनाभिधः ।
सप्तमो बृहदाख्यश्चाऽष्टमः कन्दर्पनामकः ।। ८ ।।
नवमः सद्यनामा चेशानस्तु दशमो मतः ।
एकदशस्तमोनामा सारस्वतो द्वयंदश ।। ९ ।।
त्रयोदश उदानाख्यो गारुडस्तु चतुर्दशः ।
पञ्चदशस्तु कौमार्यः षोडशो नारसिंहकः ।। 3.133.१० ।।
सप्तदशः समानाख्यश्चाऽऽग्नेयोऽष्टादशात्मकः ।
एकोनविंशः सोमाख्यो विंशतिर्मानवो मतः ।। १ १।।
तत्पुमानेकविंशश्च दिवसो ब्रह्मणः स्मृतः ।
वैकुण्ठो द्वाविंशकश्च लक्ष्मीस्त्रिविंशकस्तथा ।। १ २।।
चतुर्विशस्तु सावित्री पञ्चविंशस्त्वघोरकः ।
वाराहः षड्विंशकश्च वैराजः सप्तविंशकः ।। १३ ।।
अष्टाविंशस्तु गौरीति नवविंशो महेश्वरः ।
त्रिंशस्तु पितृकल्पो वै या कुहूर्ब्रह्मणो मता ।। १४।।
एतेषु यानि भगवद्दिनानि श्रीदिनानि च ।
शिवादिनामतिथयः पुण्यास्ता दानकरिणः ।। १५।।
हरेर्जन्मदिनान्येव हरिणीजन्मराशयः ।
पुण्याः सन्ति व्रतार्हाश्च दानयोग्याः सदा रमे ।। १६।।
नहि कर्तुं समर्था वै सर्वे क्षुद्रहृदो जनाः ।
कुर्वन्त्युदारमनसो दानान्युक्तानि यानि ह ।। १७।।
यदा यस्य भवेद् बुद्धिर्दानधर्मपरायणा ।
तदा तस्मिन् दिने कार्यं दानं दात्रा तु सत्वरम् ।। १८।।
गता श्रद्धा गतः कालो गत उत्साह इत्यपि ।
गतं पात्रं गतं वस्तु पुनर्नाऽऽयास्यति क्वचित् ।। १९।।
गत्वराः सम्पदः सर्वा गत्वरं जीवनं तथा ।
गत्वराश्चापि संकल्पास्तान् सत्कार्ये नियोजयेत् ।।3.133.२०।।
नारायणं हरिं कृष्णं मामक्षरपतिं प्रभुम् ।
अवतारानीश्वराँश्च सुरानृषीन् सुतोषयेत् ।।।२ १ ।।
ग्रहान् सन्तोषयेद् दानैर्लक्ष्मि मम स्वरूपिणः ।
सर्वकामाप्तये नित्यं ग्रहं शान्तं विधापयेत् ।।२२।।
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् ।
निजायुःपुष्टिकामो वा वंशेच्छुः सुखभावनः ।।२३।।
पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ।
ग्रहान् ग्रहादिदेवाँश्च संस्थाप्य होममाचरेत् ।।२४।।
ग्रहयज्ञोऽयुतहोमो लक्षहोमस्तथा मतः ।
कोटिहोमस्तथा चापि यथाकार्यबलानुकृत् ।।२५।।
अयुतेनाऽऽहुतीनां तु नवग्रहमखो मतः ।
गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् ।। २६।।
विप्रद्वयावृतां वेदिं वितस्युच्छ्रयशोभनाम् ।
चतुरस्रामुदङ्मुखां कृत्वाऽग्निनयनं ततः ।।२७।।
आवाहयेत् सुराँस्तस्यां सूर्यं सोमं च मंगलम् ।
बुधं गुरुं कविं शनैश्चरं राहुं च केतुकम् ।।२८।।
मध्ये सूर्यं दक्षिणे मंगलं गुरुं तथोत्तरे ।
बुधं पूर्वोत्तरे शुक्रं पूर्वे संस्थापयेत्तथा ।। २९।।
दक्षपूर्वे चन्द्रमसं शनिं तु पश्चिमे तथा ।
राहुं तु दक्षपश्चे तु केतुं पश्चोत्तरे तथा ।।3.133.३ ०।।
तण्डुलेषु स्थापयेद्वा तथोपदेवताः शुभाः ।
सूर्यस्येशं शशिनश्च पार्वतीं चोपदेवताम् ।।३ १।।
स्कन्दं भौमस्य च हरिं बुधस्याऽप्युपदेवताम् ।
ब्रह्माणं च गुरोरिन्द्रं शुक्रस्याप्युपदेवताम् ।।३२।।
यमं शनेस्तथा राहोः कालं तथोपदेवताम् ।
चित्रगुप्तं च केतोर्वै स्थापयेदुपदेवताम् ।।३३।।
अथ प्रत्युपदेवाँश्च स्थापयेत्तत्र तत्र च ।
क्रमादग्निं जलं पृथ्वीं विष्णुमिन्द्रं शचीं तथा ।।३४।।
प्रजापतिं भोगिनश्च ब्रह्माणं स्थापयेच्च तान् ।
विनायकं च दुर्गां च वायुमाकाशमित्यपि ।।३५।।
आवाहयेद् व्याहृतिभिस्तथैवाश्विकुमारकौ ।
ध्यायेद्रविं रक्तवर्णं मंगलं रक्तमित्यपि ।।३६।।
सोमशुक्रौ श्वेतवर्णौ बुधगुरू तु पिंगलौ ।
शनिराहू कृष्णवर्णौ धूम्रं केतुं स्मरेत्तदा ।।३७।।
ग्रहवर्णानि देयानि पुष्णाणि चाम्बराणि च ।
सुरभिर्धूप एवाऽत्र वितानकं तथोपरि ।।३८।।
फलपुष्पादि पूजार्हं सर्वं दद्यात् समर्हणे ।
गुडौदनं तु सूर्याय सोमाय घृतपायसम् ।।३९।।
मंगलाय तु संयावं बुधाय क्षीरकुल्लरीम् ।
दध्योदनं तु गुरवे शुक्राय तु गुडौदनम् ।।3.133.४०।।
शनैश्चराय कृशरां माषाँस्तु राहवे तथा ।
चित्रौदनं तु केतुभ्यस्ततः समर्चयेत् सुरान् ।।४१ ।।
प्रागुत्तरेण कलशं दध्यक्षतसमन्वितम् ।
चूतपल्लवसंयुक्तं फलवस्त्रयुगान्वितम् ।।४२।।
पञ्चरत्नसमायुक्तं स्थापयेद् वरुणं न्यसेत् ।
तीर्थानि च समुद्राँश्चावाहयेत् तत्र वै जले ।।४३।।
गजाश्वरथ्यावल्मीकचत्वरह्रदगोकुलात् ।
मृदमानीय च सर्वौषधिवारिसमन्विताम् ।।४४।।
स्नानार्थं विन्यसेत् तत्र यजमानस्य भूसुरः ।
होमं समाचरेत् सर्पिर्यवव्रीहितिलादिभिः ।।४५ ।।
अर्कः पालाशखदिरावपामार्गश्च पिप्पलः ।
औदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ।।४६।।
एकैकस्याऽष्टकशतमष्टाविंशतिमेव वा ।
होतव्या मधुसर्पिर्भ्यां दध्ना च समिधा तथा ।।४७।।
तत्काण्डान् प्रादेशमात्रानशाखानपलाशिनः ।
कल्पयेत् समिधस्तत्र जुहुयाद् देवमन्त्रतः ।।४८।।
पक्वं चरुं घृताभ्यक्तां समिधं भक्ष्यप्रभृति ।
दशाहुतीः प्रहुत्वा जुहुयाद् व्याहृतिभिस्तथा ।।४९।।
मन्त्रितं च चरुं तस्मै तस्मै देवाय चाऽर्पयेत् ।
पूर्णाहुतिं ततो दद्यात् स्नापयेत् यजमानकम् ।।3.133.५०।।
सुरास्त्वामभिरक्षन्तु सर्वे ये चात्र पूजिताः ।
तथाऽन्ये पूजनार्हाश्च त्वामवन्तु समन्ततः ।।५ १ ।।
इति स्नपितः सस्त्रीको यजमानस्तु दक्षिणाम् ।
ददद् विप्रेभ्य एवापि गृहेभ्यश्चापि तां यथा ।।५२।।
सूर्याय कपिलां धेनुं शंखं चन्द्राय चार्पयेत् ।
भौमाय वृषभं रक्तं बुधाय कनकं दिशेत् ।।५३।।।
गुरवे पीतवस्त्रं च शुक्राय श्वेतवाजिनम् ।
कृष्णां गां शनये दद्यादायसं राहवे तथा ।।५४।।
छागं दद्यात् केशवायाऽथवा गावस्तु यावताम् ।
सुवर्णं वा प्रदद्याच्च गुरुर्यथा प्रतुष्यति ।।५५।।
देये वस्तुनि देवस्य ममाराधनपूर्वकम् ।
दानं श्रेष्ठतमपुण्यप्रदं प्रजायते रमे ।।५६।।
मातस्त्वं पृथ्वीरूपा धेनुः कृष्णस्य वत्सला ।
पुण्या पापहरा मेऽस्तु नित्यां शान्तिं प्रयच्छ मे ।।५७।।
शंखस्त्वं पुण्यपुञ्जानां मूर्तिर्मंगलरूपिणी ।
कृष्णहस्तस्थितो नित्यं शान्तिं प्रयच्छ मेऽनिशम् ।।५८।।
धर्मदेवो वृषः कृष्णमूर्तौ प्रतिष्ठते भवान् ।
सर्वानन्दप्रमोदानामधिष्ठानं दधातु माम् ।।५९।।
कनक त्वं वह्निपुत्र हेमबीजं विभावसोः ।
अनन्तपुण्यफलदं शान्तिमृद्धिं प्रयच्छ मे ।।3.133.६ ०।।
पीताम्बरं सदा श्रेष्ठं दिव्यं श्रीकृष्णवल्लभम् ।
शान्तिं च सम्पदं देहि कुरु मां कृष्णवल्लभम् ।।६१ ।।
हयग्रीवो भवान् विष्णुरमृतौषधिवीर्यपः ।
देहि मे चामृतं शान्तिं माणिक्याश्वीपतिः प्रभुः ।।६२।।
कृष्णे गो त्वं कृष्णपत्नी कार्ष्णी नारी व्यजायथाः ।
कृष्णस्य धारिणी चास्ते मां प्रपोषय नित्यदा ।।६ ३।।
धातूनामायसं दासः सर्वकिंकरकार्यकृत् ।
सिताशरादिदेव त्वं नित्यां शान्तिं प्रयच्छ मे ।।६४।।
छाग त्वं कालरूपोऽसि स्वप्ने दृष्टो भयावहः ।
वह्निवाह सदा शान्तिं मे प्रयच्छ प्रपूजितः ।।६५।।
गावः कृष्णस्वरूपा वै सर्वेश्वरसुराश्रयाः ।
सर्वोद्धारसमर्थाश्च श्रियै मे सन्तु सर्वथा ।। ६६।।
शय्ये कृष्णेन संभुक्ता पावनी त्वं सुतप्रदा ।
सम्पत्प्रदाऽस्तु मे नित्यमशून्याऽस्तु मम स्त्रिया ।।६७।।
सर्वरत्नानि देवानां वासात्मकानि वै यतः ।
रत्नवासं गृहे मेऽत्र प्रकुर्वन्त्वर्पितानि ह ।।६८।।
भूमिदानं परं दानं तथा सुवर्णदानकम् ।
अन्नर्द्धिं च धनर्द्धिं च कुरुतं मे समर्पिते ।।६९।।
इत्यभ्यर्थ्य च सम्प्रार्थ्य दाने दद्याद् विशेषतः ।
सर्वान् कामानवाप्नोति प्रेत्य स्वर्गे महीयते ।।3.133.७०।।
यस्तु पीडाकरो नित्यमल्पवित्तस्य वा ग्रहः ।
तं तु यत्नेन सम्पूज्य तोषयेच्छेषसंयुतम् ।।७१।।
वर्मवच्चोपघातानां शान्तिर्भवति पूजनात् ।
सम्पूर्णां दक्षिणां दद्याद् वित्तशाठ्यं विवर्जयेत् ।।७२।।
विवाहोत्सवयज्ञेषु प्रतिष्ठादिक्रियादिषु ।
निर्विध्नार्थं प्रशान्त्यर्थं कुर्यादुद्वेगशान्तिदम् ।।७३।।
नवग्रहमखं भक्तोऽयुतहोमात्मकं शुभम् ।
अनादिश्रीकृष्णनारायणात्मकमहाध्वरम् ।।७४।।
प्रार्थयेद् यजमानोऽत्र मां देवानीश्वरान् सतीः ।
यजमानस्तीर्थजलैः स्नापितो वेदविज्जनैः ।।७५।।
स्नापयितृद्विजा दद्युराशीर्वादान् सुरक्षकान् ।
अनादिकृष्णनारायणो नारायणीयुतः ।।७६।।
मुक्तमुक्तानिकायुक्तस्त्वां सदा रक्षतु ध्रुवम् ।
श्रीकृष्णो राधिकायुक्तो नारायणः श्रिया सह ।।७७।।
वासुदेवादयो व्यूहा रक्षन्तु त्वां प्रपूजकम् ।
ब्रह्मविष्णुमहेशाश्च महेन्द्राद्या दिगीश्वराः ।।७८।।
धर्मपत्न्यः समग्राश्च सूर्याद्याश्च नवग्रहाः ।
वसवो निधयो रुद्राः ऋषयो मुनयो वृषाः ।।७९।।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसा गणाः ।।3.133.८० ।।
भूतप्रेतपिशाचाद्या रुद्रा गणा गणेश्वराः ।
योगिन्यः शक्तयः सर्वाः शस्त्राऽस्त्रवाहनानि च ।।८१ ।।
रत्नौषधानि विघ्नाश्च कालः कालस्य वंशजाः ।
सर्वेऽपि कालावयवास्तीर्थानि निखिलान्यपि ।।८२।।
एते त्वामभिषिञ्चन्तु रक्षन्तु वर्धयन्त्वपि ।
एवमाशीर्वर्धितश्च शुक्लाम्बरधरोऽर्पयेत् ।।८३।।
दक्षिणा विविधाः सर्वा विप्रेभ्यो गुरवे सते ।
भोजयेद् बहुधा विप्रान् साधून् साध्वीश्च योषितः ।।८४।।
बालाँश्च बालिकाँश्चापि दीनान्धकृपणाँस्तथा ।
भिक्षुकान् दैववृत्तींश्च मिष्टान्नपायसादिभिः ।।८५।।
होमानयुतसंख्याकान् कारयेद् विप्रपुंगवैः ।
यद्वा स्वयं प्रकुर्याच्च ब्रह्मशीलव्रतान्वितः ।।८६।।
ततः कुर्यात् परिहारं ग्रहाऽध्वरस्य सर्वथा ।
ग्रहशान्तिर्भवेत्तेन पीडा नश्येत् सुखी भवेत् ।।८७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पुण्यतमदिनप्रदर्शनं ग्रहशान्तिपूजादिप्रदर्शनं चेतिनिरूपणनामा त्रयस्त्रिंशदधिकशततमोऽध्यायः ।। १३३ ।।