विकिस्रोतः:ग्रन्थदीपः २०२०

विकिस्रोतः तः


नाम ग्रन्थदीपः २०२०
आरम्भदिनाङ्कः श्रावणशुक्लपूर्णिमा
०३-०८-२०२०
स्थितिः प्रचलति
अन्यप्रकल्पाः ग्रन्थार्पणम् ग्रन्थाञ्जलिः
संयोजकः संस्कृतविकिविभागः, बेङ्गलूरु

ग्रन्थदीपः इत्येतस्मिन् उपक्रमे प्रबन्धकैः चितस्य ग्रन्थस्य सूचितानां पुटानां पाठशुद्धिः करणीया । अपेक्षितस्य ग्रन्थस्य परिष्कारं बहवः सदस्याः मिलित्वा नियतरूपेण कार्यं कुर्वन्तः वेगेन कार्यं साधनीयम् । यथा दीपः स्वीयप्रकाशेन अन्धकारं निवार्य मार्गदर्शकरूपेण भवति तथा अत्र प्रत्येकं सदस्यः अपि विकिस्रोतसः दीपरूपेण भवेयुः ।

उद्देश्यम्[सम्पाद्यताम्]

  • विकिस्रोतसि शुद्धपाठवतां पुस्तकानां सङ्ख्यावर्धनम् ।
  • प्रत्येकं विकिसदस्याय चितस्य पुस्तकस्य कार्यं कर्तुम् अवसरकल्पनम् ।
  • विकिसूक्तौ प्रकाशनाय सूक्तिसङ्ग्रहः ।
  • विकिपीडियाप्रकल्पे लेखानाम् उल्लेखाय समृद्धसाहित्यसर्जनम् ।

स्वरूपम्[सम्पाद्यताम्]

  • विकिसदस्यः संस्कृतोत्सवे कार्याय नामाङ्कनं कुर्यात् ।
  • कार्यम् इत्यत्र सूचितानां पुटानां पाठशुद्धिः करणीया ।
  • यावच्छीघ्रं कार्यं समाप्य विकिप्रबन्धकाः सूचनीयाः । ते अग्रिमसूचनां प्रदास्यन्ति ।

साहाय्यम्[सम्पाद्यताम्]

विकिस्रोतसि पाठशुद्धिकार्यं कथम् करणीयम् इति ज्ञानार्थम् अधोविद्यमानानि प्रशिक्षणस्य चलच्चित्राणि द्रष्टुमर्हिन्ति ।

सामान्यप्रश्नाः[सम्पाद्यताम्]

  • अत्र के भागं ग्रहीतुम् अर्हन्ति?
यः पाठशुद्धिं कर्तुमिच्छति स सर्वोऽपि भागं ग्रहीतुं शक्नोति। वयोनियमादिकं नास्ति ।
  • विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
निश्चयेन शक्नुवन्ति। परन्तु विकिमध्ये सदस्यतां प्राप्य(sign up कृत्वा) पाठशुद्धिविषये ज्ञातव्यम्।