सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
यादवाभ्युदये


इति ताननघादेशस्समादिश्य जनार्दनः ।
अवधीरितदुग्धाब्धिर्मथुरायां मनो दधे ॥ ९८ ॥

इतीति । अनघादेशः अप्रतिहतनियोग: । जनार्दनः । इति उक्तप्र- कारेण । तान् विबुधान् । समादिश्य। अवधारितदुग्धाब्धिः अवमतक्षीरा- म्बुधिः सन् । मथुरायां मनो दधे, दुग्धाब्धि विहाय मथुरायामवतरित व्यमिति ऐच्छदित्यर्थः । एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यमुत्सृज्य ह्यागतो मथुरां पुरीम् । ' इति भागवतवचनार्थोऽत्रा- नुसहितः ॥ ९८ ॥

आश्वास्य वागमृतदृष्टिभिरादितयान्
दैतेयभारनमितां पृथिवीं च देवीम् ।
प्रादुर्बुभूषुरनघो वसुदेवपन्यां ।
पद्मापतिः प्रणिदधे समयं दयायाः ॥ ९९ ॥

अथ 'सर्वत्र भिन्नसर्गान्तः' इति लक्षणानुरोधात्सीवसाने वृत्तान्तर-

माह- आश्वास्येति । अनघो निरवद्यः तत्तत्कर्मानुरोधितया वैषम्य- नैर्घण्यदोषरहितः । पद्मापतिः श्रीपतिः । वागेवामृत तस्य वृष्टिभिः । अदितेरपत्यानि आदितेया देवाः तान् । अदितिशब्दात् 'कृदिकारा- दक्तिनः' इात डीष्प्रत्यये, 'स्त्रीभ्यो ढक्' इति ढक्प्रत्यये च रूपम् । एव दैतेयशब्दोऽपि । दैतेयानां भारेण नमिताम् । पृथिवी देवी च । आश्वास्य। वसुदेवस्य पत्न्यां देवक्याम् । प्रादुर्घभूषुः प्रादुर्भवितुमिच्छुस्सन् । दयायाः। समय अवसरम् । प्रणिदधे दध्यौ । असुरपीडितानां प्राणिनां देवकीवसु- देवयोश्च दयनीयतया (तत्तत्कर्मानुसारेण समयं प्रतीक्षितवानित्यर्थः । वसन्ततिलकाख्यमिदं वृत्तम् ॥ ९९ ॥