( 176 )
- -
कियच्चिर श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः । तदर्धभागेन लभस्व काक्षितं वरं तमिच्छामि च साधु वेदितुम् ॥५०॥ इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् । अथो वयस्यां परिपार्श्ववर्तिनी विवर्तितानञ्जननेत्रमैक्षत ॥ ११ ॥ सखी तदीया तमुवाचं वर्णिनं निबोध साधो तव चेत्कुतूहलम् । यदर्थमम्भोजमिवोष्णवारणं कृतं तपः साधनमेतया वपुः ॥ ५२ ॥ इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी । अरूपहार्यं मदनन्य निग्रहात्पिनाकपाणिं पतिमाष्नुमिच्छति ॥ ५३॥ असह्यहुंकारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः । इमां हृदि व्यायतपातमक्षिणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥ ५४ ।। तदाप्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूमरालका । न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि ।। ५५॥ उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् । अनेकशः किंनरराजकन्यका वनान्तसंगीतमखीररोदयत् ।। त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यत । क्व नीलकण्ठ व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ॥१७ ।। यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्ति भावस्थमिमं कथं जनम् । इति स्वहस्तोल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः॥ ५८ ।। यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचिन्वती । तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ॥ ५९॥ द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि । न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः॥६०॥