( 132 ) राजा--श्रूयताम् । ( इति वाचयति ) स्वामिन् संभाविता यथाहं त्वयाज्ञाता तथा चानुरक्तस्य सुभग एवमेव तव ॥ १२ ॥ अनन्तरं च मे ललितपारिजातशयनीये भवान्त सुखा नन्दनवनवाता अपि शिखीव शरीरे ॥ १३ ॥ उर्वशी-किं नु सांप्रतं भणिष्यति ? चित्रलेखा--किं नु ? भणितमेवैतेन म्लानकमलनालोपमैरङ्गैः । विदूषकः---दिष्ट्या मया खलु बुभुक्षितेन स्वस्तिवाचनिकमिव लब्धं भवतः समाश्वासनकारणम् । राजा---समाश्वासनमिति किमुच्यते ? तुल्यानुरागपिशुनं ललितार्थवन्धं पत्रे निवेशितमुदाहरणं प्रियायाः । उत्पक्ष्मलं मम सखे मदिरेक्षणाया- तयाः समागतमिवाननमाननेन ॥ १४ ॥ उर्वशी--अत्रावयोः समभागा मतिः । राजा-क्यस्य, अङ्गुलीस्वेदेन मे लुप्यन्तेऽक्षराणि । धार्यतामयं स्वहस्ते निक्षेपः प्रियायाः । विदूषकः-( गृहीत्वा ) ततः किं तत्रभवत्युवंर्शी भवतो मनो- रथतरुकुसुमं दर्शयित्वा फले विसंवदिष्यति ? उर्वशी-सखि, यावदुपस्थानकातरमात्मानं समवस्थापयामि, तावत्त्वमात्मानं दर्शयित्वा यन्मेऽनुमतं तद्भण । चित्रलेखा तथा । ( इति तिरस्करिणीमपनीय राजानमुपसृत्य) जयतु जयतु महाराजः ।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३७८
दिखावट