(96) शकुन्तला--(गतिभङ्गं रूपियत्वा ) को नु खल्वेष निवसने में -सज्जते ? (इति परावर्तते।) काश्यपः-वत्से, यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसूचिविद्धे । श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥ १३ ॥ शकुन्तला-वत्स, किं सहवासपरित्यागिनीं मामनुसरसि ? अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् । काश्यपः- उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्ति बाष्पं कुरु स्थिरतया विहतानुबन्धम् । अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥ १४ ॥ शार्ङ्गरवः ---भगवन् , उदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं सरस्तीरम् । अत्र संदिश्य प्रतिगन्तुमर्हसि । काश्यपः-..'न हीमां क्षीरवृक्षच्छायामाश्रयामः । (सर्वे परिक्रम्य स्थिताः ।) काश्यपः--( आत्मगतम् ) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम् ? ( इति चिन्तयति। ) शकुन्तला-( जनान्तिकम् । ) हला, पश्य नलिन पत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्यारटति । दुष्करमहं करोमि ।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३४२
दिखावट