सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

-( ) अये. Dialogues दुष्यन्तशकुन्तलासंवादः। King Dushyanta during his hunting excursion, accidently meets Shakuntala while she was engaged along with her female friends in watering trees. इत इतः सख्यौ। राजा- कर्ण दत्वा ) अये, दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावत्र गच्छामि । ( परिक्रम्यावलोक्य च एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवाभिवर्तन्ते ( निपुणं निरूप्य ) अहो, मधुरमासां दर्शनम् । शुद्धान्तदुर्लभभिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरूद्यानलता वनलताभिः ॥ १५ ॥ यावदिमां छायामाश्रित्य प्रतिपालयामि । ( विलोकयन्स्थितः । ) ( ततः प्रविशति यथोक्तव्यापारा सह सखीम्यां शकुन्तला ) शकुन्तला- -इत इतः सख्यौ । अनसूया–हला शकुन्तले, त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरा इति तर्कयामि । येन नवमालिकाकुमुमपेलवा त्वमप्येतेषामालवालपूरणे नियुक्ता। शकुन्तला - न केवलं तातनियोग एव । अस्ति मे सोदरस्नेह एतेषु । ( इति वृक्षसेचनं रूपयति । राजा-कथमियं सा कण्वदुहिता ? असाधुदर्शी खलु तत्रभवान् काश्यपः, य इमामाश्रमधर्मे नियुक्ते । )