( 131 ) उर्वशी--श्रुतम् । न पुनः पर्याप्तं हृदयस्य । विदूषकः--एतावान्मम मतिविभवः । राजा-(सनिःश्वासम् .) नितान्तकठिनां रुजं मम न वेद सा मानसीं प्रभावविदितानुरागमवमन्यते वापि माम् । अलब्धफलनीरसं मम विधाय तस्मिञ्जने समागममनोरथं भवतु पञ्चबाणः कृती ॥ ११ ॥ चित्रलेखा--श्रुतं त्वया ? उर्वशी---हा धिक्, हा धिक् । नामप्येवमवगच्छ । सखि, असमर्थास्म्यग्रतो भूत्वात्मानं दर्शयितुम् । तत्प्रभावनिर्मितेन भूर्जपत्रेण लेखं संपाद्यान्तरा क्षेप्तुमिच्छामि । चित्रलेखा--अनुमतं मे । (उर्वशी नाव्येनाभिलिख्य क्षिपति।) विदूषकः--अविधा अविधा भो , किं न्वेतत् ? भुजंगनिर्मोक: किं मां खादितुं निपतितः ? राजा--( दृष्ट्वा ) नायं भुजंगनिर्मोकः । भूर्जपत्रगतोऽयमक्षर- विन्यासः । विदूषकः-ननु खल्वदृष्टया उर्वश्या भवतः परिदेवितं श्रुत्वा भूर्जपत्रेऽनुरागसूचकान्यक्षराण्याभिलिख्य विसर्जितानि भवेयुः । राजा-नास्त्यगतिर्मनोरथानाम् । (गृहीत्वानुवाच्य च सहर्षम् ) सखे, प्रसन्नस्ते तर्कः। विदूषकः---यदत्राभिलिखितं तच्छ्रोतुमिच्छामि । उर्वशी--माधु साधु । आर्य, नागरोऽसि ।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१३७
दिखावट