सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 99 )

भर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥ १९ ॥ गौतमी-जाते, परिहीयते गमनवेला । निवर्तय पितरम् । अथवा चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् । काश्यपः--वत्से, उपरुध्यते तपोनुष्ठानम् । शकुन्तला-(भूयः पितरमाश्लिष्य ) तपश्चरणपीडितं तातशरी- रम् । तन्मातिमात्रं मम कृत उत्कण्ठितुम् । काश्यपः-( सनिःश्वासम् ) शममेप्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् । उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ २०॥ गच्छ । शिवास्ते पन्थानः सन्तु । (निष्क्रान्ता शकुन्तला सहयायिनश्च।) सख्या-(शकुन्तलां विलोक्य ) हा धिक्, हा धिक् । अन्तर्हिता शकुन्तला वनराज्या । काश्यपः- ( सनिःश्वासम् ) अनसूये, गतवती वां सहधर्मचारिणी । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् । उभे–तात, शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः। काश्यपः-स्नेहप्रवृत्तिरेवंदर्शिनी । ( सविमर्श परिक्रम्य ) हन्त भोः, शकुन्तला पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः ? अर्थों हि कन्या परकीय एव तामद्य संप्रेप्य परिग्रहीतुः । जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ २१ ॥ (इति निष्क्रान्ताः सर्वे ।) -शाकुन्तले चतुर्थोऽङ्कः।