( 97 ) अनसूया-सखि, मैवं मन्त्रयस्व । एषापि प्रियेण विना गमयति रजनी विषाददीर्घतराम् । गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥ १५ ॥ काश्यपः-शार्ङ्गरव, इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः । शाश्वः-आज्ञापयतु भवान् । काश्यपः- अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन- स्त्वय्यस्याः कथमप्यवान्धवकृतां स्नेहप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकामियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ १६ ॥ शार्ङ्गरवः-गृहीतः संदेशः। काश्यपः--वत्से, त्वमिदानीमनुशासनीयासि । वनौकसोऽपि -सन्तो लौकिकज्ञा वयम् । शार्ङ्गरवः--न खलु धीमतां कश्चिदविषयो नाम । काश्यपः-सा त्वमितः पतिकुलं प्राप्य शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥१७॥ कथं वा गौतमी मन्यते ? गौतमी-एतावान्वधूजनस्योपदेशः। जाते, एतत्खलु सर्वमवधारय। काश्यपः-वत्से, परिष्वजस्व मां सखीजनं च ।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१०३
दिखावट