( 82 ) .. किं किंशुकैः शुकमुखच्छविभिर्न भिन्न किं कर्णिकारकुसुमैर्न कृतं नु दग्धम् । यत्कोकिलः पुनरयं मधुरैर्वचोभि- र्यूनां मनः सुवदनानिहितं निहन्तिः ॥ २० ॥ पुस्कोकिलैः कलवचोभिरुपात्तहर्षेः कूजद्भिरुन्मदकलानि वचांसि भृङ्गैः । लज्जान्वितं सविनयं हृदयं क्षणेन पर्याकुलं कुलगृहेऽपि कृतं वधूनाम् ॥ २१ ॥ आकम्पयन्कुसुमिताः सहकारशाखा विस्तारयन्परभृतस्य वचांसि दिक्षु । वायुर्विवाति हृदयानि हरन्नराणां नाहारपातविगमात्सुभगो वसन्ते ॥ २२ ॥ कुन्दैः सविभ्रमवधूहसितावदातै- रुद्दयोतितान्युपवनानि मनोहराणि चित्तं मुनेरपि हरन्ति निवृत्तरागं प्रागेव रागमलिनानि मनांसि यूनाम् ॥ २३ ॥ आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनु- र्ज्या॑यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम् । मत्तेभो मलयानिल: परभृतो यद्बन्दिनो लोकजित् सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः ॥ २८ ॥ -ऋतुसंहारे वसंतवर्णनम् । ..
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/६९
दिखावट