लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १०६

विकिस्रोतः तः
← अध्यायः १०५ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १०६
[[लेखकः :|]]
अध्यायः १०७ →

श्रीपुरुषोत्तम उवाच-
यथा पत्नी तथा पुत्रो धर्माश्रयः पितुर्मतः ।
पिता पुत्रस्वरूपोऽस्ति पितृधर्मः सुते स्थितः ।। १ ।।
प्रच्छन्नो वा प्रकाशो वा पुत्रः पिता प्रकीर्तितः ।
आर्यत्वं धर्मशीलत्वं मार्दवं व्यवसायिता ।। २ ।।
भक्तिर्विवेक एते व्यञ्जयन्ति पुत्रमुत्तमम् ।
अनार्यत्वमनाचारः क्रूरता निष्क्रियात्मता ।। ३ ।।
अभक्तिश्चाऽविवेकश्च कालुष्यं व्यञ्जयन्ति वै ।
पित्र्यं वै भजते शीलं मातृजं वोभयं तथा ।। ४ ।।
शुद्धयोनिप्रजन्मा वै सांकर्यं भजते नहि ।
ज्यायानपि तु शीलेन हीनो मानं न चार्हति ।। ५ ।।
अपि शूद्रोऽपि शीलाढ्यः सद्वृत्तः पूज्यते जनैः ।
आख्यात्मानमेवाऽत्र शीलचारित्रकर्मभिः ।। ६ ।।
आत्मा पुत्र औरसः स्वः पिता स्वयं स कथ्यते ।
स्वक्षेत्रे तु नियोगेन परजन्यो द्वितीयकः ।। ७ ।।
स्वक्षेत्रे चाऽनियोगेन प्रच्छन्नजस्तृतीयकः ।
ऊढा गर्भवती भार्या तज्जातस्तु चतुर्थकः ।। ८ ।।
जन्मतः केनचिद्दत्तः पञ्चमः सः प्रवर्धितः ।
यौवने दत्तकतया गृहीतः षष्ठ इत्यपि ।। ९ ।।
शिष्यरूपेण सम्प्राप्तः सप्तमः पुत्र इत्यपि ।
क्रीतः प्रोक्तस्त्वष्टमश्चाऽनूढाजो नवमः सुतः ।। 3.106.१०।।
मनोजन्यो दशमश्च कथितो मानसः सुतः ।
पथि त्यक्तो जातमात्रो गृहीतः कृत्रिमः सुतः ।। ११ ।।
एकादशः स विज्ञेयः दौहित्रो द्वादशः स्मृतः ।
पुत्र्यश्चापि तथा बोध्या द्वादशधा तु वंशजाः ।। १ २।।
संस्काराश्चात्मवत्तेषां स्वामिवत् संभवन्ति हि ।
कानीनको ह्यनूढाजो मातृवर्णं प्रपद्यते ।। १३।।
गणिकानामपत्यानि मातृवर्णानि तानि वै ।
दासीनां पतिहीनानामपत्यानि तु यानि वै ।। १४।।
मातृवर्णानि बोध्यानि स्वामिवर्णानि वा तथा ।
भिक्षादीक्षालभ्यबाला अच्युतगोत्रका हि ते ।। १५।।
साध्व्यश्च साधवः सर्वे भवन्त्यच्युतगोत्रकाः ।
त्यागिवर्गाश्च वै पुत्राः पुत्र्यो नारायणस्य ह ।। १६।।
एवं वै भूतले लोके व्यवस्थाऽस्ति तु पद्मजे ।
ऐच्छिकी त्वन्यलोकेषु तथैषाऽपि प्रवर्तते ।। १७।।
भार्या चतुर्विधा लक्ष्मि प्रायशः संभवन्ति हि ।
पत्नी विवाहिता प्रोक्ता दासी या तु सहागता ।।१८।।
उपकुर्वाणिका या तु कञ्चित्कालं गृहे स्थिता ।
प्रच्छन्नयोगमापन्ना रक्षिता सा तु कीर्तिता ।। १९।।
स्वामिनोऽपि तथा सन्ति चतुर्धा पद्मजे! शृणु ।
विवाहितः पतिः प्रोक्तो लग्नितः श्रेष्ठ एव सः ।।3.106.२०।।
देवरादिर्गौणकान्तो द्वितीयः स प्रकीर्तितः ।
नियोगमाप्तस्तृतीयश्चोपकुर्वाणकः स हि ।।२१ ।।
प्रच्छन्नयोगमापन्नो रक्षितः स प्रकीर्तितः ।
प्रजास्तयोर्यथायोगं नार्या वा च नरस्य वा ।।२२।।
विवादेऽपत्यमेवाऽत्र यमिच्छेत् तस्य वै हि तत् ।
देशभेदात् कालभेदाद् रीतिभेदात् पृथग्वृषः ।।२३।।
दत्ता कन्या दानरूपा पुत्री कथं न कल्प्यते ।
कल्प्यते भोग्यरूपा सा तस्माद् रीतिर्हि कारणम् ।।२४।।
भावना यादृशी यत्र व्यवहारश्च तादृशः ।
भुक्त्वा क्रोधेन वै त्यक्ता वैराग्येण तथा च वा ।।२५।।
त्यागेनाऽपि विवेकेन त्यक्ता मातृसमा हि सा ।
तस्माल्लक्ष्मि! महामायाप्रवाहो मूर्छनात्मकः । । २६।।
मूर्छनासु विविधासु नयन्ति देहिनः सदा ।
यथाविधः प्रवाहोऽस्ति यदा यत्र युगे स्थले ।।२७।।
तथारीतिकृतो धर्मः सुखदः शान्तिदो भवेत् ।
देवानां रीतयश्चान्या योगिनामितराश्च ताः ।।२८।।
मानवानां विभिन्नाश्च पश्वादीनां तथेतराः ।
यथारीतिः स वै धर्मो यद्यनर्थं न चाऽऽवहेत् ।।२९।।
अनर्थं प्रापयन्पन्था धर्मात्मा नैव गण्यते ।
दुःखदो नैव धर्मोऽस्ति सुखदः सर्वथा वृषः ।।3.106.३०।।
अर्थो वृषानुसञ्जुष्टोऽनर्थोऽधर्मानुयोजितः ।
कामो धर्मार्थसहितस्तद्धीनो न पुमर्थकः ।। ३१ ।।
धर्मार्थकामपारं यो यातः स विन्दतेऽक्षरम् ।
अधर्म्यनर्थी विषयी विन्दते यमयातनाम् ।। ३ २।।
कुटुम्बादिव्यवस्थाऽपि पुरुषार्थपरायणा ।
अपुमर्थयुता रीतिः पाशवी न तु मानुषी ।। ३३ ।।
शास्त्रं शासनधर्मं वै मानुषादौ प्रवर्तते ।
तिर्यग्योनौ न वै शास्त्रं विद्याशून्यतया खलु ।। ३४।।
बलं रीतिः पशूनां तु मोहश्चेति निबन्धनम् ।
तदाधाराणि तिर्यञ्चि यादांसि कीटयोनयः ।। ३५।।
अथैवं वर्तमानानां भवपारो न विद्यते ।
यदृच्छया सतां योगे भवपारो भवेत् क्वचित् ।।३६ ।।
नह्यात्मा शक्यते हन्तुं तस्मादुद्धारमाचरेत् ।
स्नेहेन दर्शनं साधोः संवासं सेवयाऽऽचरेत् ।। ३७।।
ब्रह्मवासकृतारम्भं साधुं सेवेत मानवः ।
निहत्य मानं शोकं च क्रोधं हर्षं च वासनाम् ।। ३८ ।।
विश्रम्भपात्रं भूतानां शुचिं श्रीकृष्णदैवतम् ।
ऊर्ध्वब्रह्मस्थितिं शान्तं सर्वेषां प्रियदर्शनम् ।। ३ ९।।
निःशेषितसमारंभं ध्याननिष्ठं वशेन्द्रियम् ।
निष्णातं ब्रह्मविद्यायां समनेत्रं दयापरम् ।।3.106.४० ।।
एतादृशं साधुजनं चाश्रयेत् प्रार्थयेत्तथा ।
अज्ञानाद् यत्कृतं पापं प्रक्षालय जगद्गुरो ।।४ १ ।।
मोक्षमार्गस्य सोपानं प्रदर्शय जगद्गुरो ।
वासनाग्रन्थिमुज्ज्वाल्य पावय स्वान् जगद्गुरो ।।४२ ।।
भक्तिं प्रदर्श्य परमां प्रमोक्षय जगद्गुरो ।
एवं वै प्रार्थनां कुर्याद् यथा कुर्यात् कृपां तथा ।।४३ ।।
वक्तव्यं च सतामग्रे तवाऽस्मीति पुनः पुनः ।
करवाणि यदाऽऽज्ञा स्यात् सर्वं कर्ताऽस्मि दुष्करम् ।।४४।।
यदि राज्यं यदि धनं यदि गा यदि स्वं गृहम् ।
यज्ञं दानं सुतं वाटीं ब्रूहि सर्वं ददामि ते ।।४५।।
इत्येवमर्थयेत् साधुं प्रतोषयेत् समर्पणैः ।
अशंकयाऽर्पयेत् सर्वं मुक्तिभाक् स भवेत् खलु ।।४६।।
माया हि संशयः प्रोक्तो ब्रह्मणि नास्ति संशयः ।
संशयश्चेत् सतां योगे सेवायां वचने कृतौ ।।४७।।
कदा मुक्तिः कदा शुद्धिः कथं सेवा भवेदिह ।
कदा शुद्धस्वरूपस्य निष्ठा वापि भवेदिह ।।४८।।
तस्मान्निःसंशयो भूत्वा सेवेत साधुमुत्तमम् ।
पापक्षालनशक्तं च मोक्षदं दिव्यवर्तनम् ।।४९।।
सन्तुष्टं ज्ञानकोशं च ब्रह्माधानं निराश्रयम्।
निरालम्बं मदालम्बं मन्मूर्तिं सेवयेत् सदा ।।3.106.५०।।
शृणु लक्ष्मि कथयामि साधुसेवाफलं परम् ।
सस्वामिपशुपक्ष्याप्तसुहृदां मोक्षणं यतः ।।५१ ।।
आसीत् कर्णाटके देशे भक्तिमान् तापसो मुनिः ।
नाम्ना शंभलवारश्च जात्या सूतीयसंभवः ।।५२।।
स तु नद्यास्तटे वासं चकारैकल एव ह ।
युवाऽपि स्त्रीं विनाऽनंगभोगेच्छुः समधारयत् ।।५३।।
तपः श्रेष्ठं परं कृत्वा भुक्त्वा भोगान् हि धर्मतः ।
यास्याम्यहं ततः स्वर्गं शाश्वतं परमं पदम् ।।५४।।
विचार्येत्थं तीर्थयात्रां कर्तुं गृहाद्विनिर्गतः ।
गोदावर्यास्तटे रम्ये समुत्सेधस्थले शुभे ।।५५।।
ग्रामे सत्राशयाख्ये वै निजावासं व्यधात् ततः ।
उच्छ्रये स तपः कर्तुं वीक्ष्यानुकूलभूतलम् ।।५६।।
मानवैः कृतसम्मानोऽन्नादिभिः स मनो दधे ।
पञ्चाग्निषु निषसाद षण्मासानथ तत्परम् ।।५७।।
उत्थितोऽभूद् वर्षमात्रं त्वेकपादेन तापसः ।
तपश्चचार परमं भजन् विष्णुं नरायणम् ।।५८।।
वर्षान्ते निजपादौ स बद्ध्वा वल्ल्या वटद्रमे ।
शाखायां निम्नमूर्द्धाऽसौ व्यलम्बत समान्तरम् ।।५९।।
एवं कृत्वा तपः पश्चाद् वर्षान्ते मस्तकं भुवि ।
निधायोर्ध्वपदो भूत्वा तपश्चचार दारुणम् ।।3.106.६०।।
वर्षान्ते चोर्ध्वहस्तोऽभूदंगुष्ठमात्रतोलनः ।
अनिमेषोऽर्कदृष्टिश्च तपश्चचार दारुणम् ।।६१ ।।
षण्मासान् तत्परं नद्यां जलान्तरेऽवसत्ततः ।
पञ्चमे वत्सरे विष्णुर्जले मत्स्यस्वरूपधृक् ।।६२।।
आययौ चक्रचिह्नाढ्यश्चखाद चर्म तन्मुनेः ।
मांसं चखाद च तथापि न कम्पं ययौ मुनिः ।।६३।।
विष्णुर्मत्स्यस्य वाचा तं प्राह जलेऽत्र वर्तसे ।
कस्त्वं कथं स्थितस्त्वत्र वद कोऽर्थोऽत्र ते मतः ।।६४।।
श्रुत्वा शंभलवारस्तं मत्स्यमाह शुभाशयम् ।
तपः करोमि सौख्यार्थं सुखं धर्मफलं यतः ।।६५।।
राज्यं गृहं धनं भार्याः सुताः पुत्र्यश्च धेनवः ।
दासा दास्यो वाहनानि लभ्यन्ते तपसा सदा ।।६६।।
धर्मार्थकाममोक्षाश्च लभ्यन्ते गृहयोगतः ।
भूत्वा गृही प्रयास्यामि तपः कृत्वा परं पदम् ।।६७।।
इत्युक्तो मत्स्य आहाऽपि किं ते भोगेषु वासना ।
तपः कृत्वा फलं भुंक्ष्व मोक्षपदे परे पदे ।।६८।।
अनित्याः सन्ति भोगा वै दुःखदा बन्धनात्मकाः ।
तान् विहाय पदं याहि नारायणस्य शाश्वतम् ।।६९।।
श्रुत्वा शंभलवारश्च प्राह मत्स्यं तदा पुनः ।
भवान् मत्स्यो यथा ज्ञानी वर्तसे विषयेष्वपि ।।3.106.७०।।
तथा ज्ञात्वाऽपि विषयानभुक्त्वा न निवर्तनम् ।
भुक्त्वा विविधान् विषयान् तृप्तिमासाद्य सर्वथा ।।७१ ।।
वासनायाः क्षयं कृत्वा ततो यायात्परं पदम् ।
इत्येवं सुलभः पन्थास्तदन्यः संशयात्मकः ।।७२।।
सरागस्य गतिर्नास्ति रागं प्रशामयेत्ततः ।
अतोऽहं तपसाऽऽराध्य विष्णुं प्रसाद्य माधवम् ।।७३।।
वृत्त्वा भोगान् प्रभुक्त्वा तान् भक्त्या यास्यामि तत्पदम् ।
श्रुत्वा मत्स्यस्तदा प्राह पश्य मे रूपमैश्वरम् ।।७४।।
तपसा ते प्रतुष्टोऽस्मि नारायणोऽस्मि चागतः ।
वृणु यत्ते यथेष्टं तद् ददामि सर्वथा चिरम् ।।७५।।
मुनिर्वव्रे धनं राज्यं नारीः पुत्रान् पशून् सुताः ।
गजाश्ववृषभान् गाश्च पुरुषार्थचतुष्टयम् ।।७६।।
तथाऽस्त्विति हरिः प्राह दत्वा वरं तिरोऽभवत् ।
अथ शंभलवारोऽपि जलाद् बहिर्विनिर्ययौ ।।७७।।
मालामावर्तयन्नाम्ना नारायणस्य वै हरेः ।
उवासोत्सेधभागे च नद्यास्तटे मनोहरे ।।७८।।
अथ सत्राशयो ग्रामो दशसाहस्रमानवः ।
वर्षायां सरितः पूरैः समावृणोत् समन्ततः ।।७९।।
जलमग्नोऽभवच्चापि तद्राजा मरणं ययौ ।
अन्येऽपि बहवो लोका नरा नार्यो जनाः प्रजाः ।।3.106.८०।।
जलप्लवेन निधनं याताः पञ्चसहस्रिणः ।
ततः परे ययुर्देशान्तरे वासार्थमेव च ।।८१ ।।
सहस्रं मानवास्तत्र न्यूषुर्धैर्यप्रपालिताः ।
भक्ताः सर्वे तापसाश्च नारायणपरायणाः ।।८२।।
अथ शंभलवारोऽपि मानपात्रं परं शुभम् ।
तद्ग्रामवासिनां तत्र चाभवत्तापसो यतः ।।८३।।
ग्रामराज्यं प्रचकार प्रजाभिर्मानितस्ततः ।
एवं राजाऽभवत्तत्र सहस्रमानवार्चितः ।।८४।।
ग्रामप्रजा ददुस्तस्मै कन्यकाश्चैकविंशतिम् ।
गावः पशवो दासाश्च दास्यः प्रजाजनास्तथा ।।८५।।
अजावयोऽश्ववृषभाः सर्वे तस्याऽभवँस्ततः ।
एवं स तपसा राज्यं भोगान् स्त्रीश्च सुतादिकान् ।।८६।।
प्राप नारायणभक्तिं चक्रे सतां प्रसेवनम् ।
अस्य भक्त्या धर्मभृत्या व्यवर्धन्त प्रजाः पुनः ।।८७।।
दशसाहस्रसंख्योर्ध्वा अभवन् सत्रनागराः ।
सर्वा अनेन मुनिना वैष्ण्व्यस्ता कृतास्तथा ।।८८।।
नामसंकीर्तनं चापि पूजनं श्रीहरेस्तथा ।
अकारयद् यथायोग्यं मन्दिरं चाप्यकारयत् ।।८९।।
साधवोऽस्य गृहे नित्यं निवसन्ति सहस्रशः ।
भक्तिं च नवधा नित्यमकारयत् सुमन्दिरे ।। 3.106.९० ।।
अथाऽयं विगते काले प्रजाः प्राह विवेकवान् ।
पुत्रा मे चासते दैवाच्छतं पञ्च तथा स्त्रियः ।। ९१ ।।
एकविंशतिसंख्याश्च पुत्र्यो मे द्वे शते तथा ।
गावः सन्ति सहस्राणि वृषभा वाजिनस्तथा ।
शुकाश्च सारिकाश्चापि हस्तिनः सरमासुताः ।।९२ ।।
दासा दास्यो भवन्त्यत्र प्रजा यूयं सुखास्तथा ।
धर्मः कृतस्तथा चार्थः कामो दृष्टोऽथ मोक्षणम् । । ९३ ।।
कर्तुमिच्छामि सहसा दत्वा राज्यं सुताय मे ।
ज्येष्ठाय च ततो यास्ये नारायणाक्षरं पदम् ।। ९४। ।
प्रजास्तथास्त्विति प्राहुः प्राहुश्चान्यच्छुभाऽऽस्पदम् ।
वयं सर्वाः प्रयास्यामः सहैव परमं पदम् ।।९५।।
स्वस्वसुतान् प्रसंस्थाप्य यथाधिकारकर्मसु ।
एवं सम्मन्त्र्य राजाऽसौ समाधौ योगमाप्तवान् ।।९६।।
सर्वं पुत्रे सन्निधाय मोक्षे वृत्तिं समादधत् ।
राज्ञ्यः सर्वाः प्रजाः सर्वास्तत्स्थले श्रीहरौ तदा ।। ९७।।
योजयित्वेन्द्रियप्राणान् लग्ना आसन् निजात्मसु ।
भजन्तः श्रीपतिं नारायणं प्रियं प्रभुं पतिम् ।।९८।।
आययौ तत्र वै विष्णुर्विमानैः सह पार्षदैः ।
प्रभासयन् दिशः सर्वा गर्जयद्भिर्दिगन्तरान् ।। ९९।।
प्राह भक्तं शंभलं तं समागच्छ विमानके ।
नत्वाऽऽर्च्य भगवन्तं तं प्राह शंभलवारकः ।। 3.106.१०० ।।
भगवन् कृपया सर्वाः प्रजा यास्तु समुत्सुकाः ।
आगन्तुं मोक्षमेवाऽत्र सज्जास्ता नय वै सह ।। १०१ ।।
गवाऽश्ववृषभाऽजाश्चावयो गावः शुकादयः ।
तथाऽन्ये ये भवन्त्यत्र तव प्रसादपाविताः ।। १ ०२।।
मम पुत्राश्च पुत्र्यश्च राज्ञ्यश्चापि कुटुम्बिनः ।
सज्जा ये ये भवन्त्यत्र तांस्तान् नय निजं पदम् ।। १०३ ।।
इतीच्छां मे हरे कृष्ण प्रपूरय कृपां कुरु ।
हरिः प्राह तथास्त्वेवं तव भक्त्या करोम्यहम् ।। १ ०४।।
पुत्रास्ते भिन्नजातीया भिन्ननारीसमुद्भवाः ।
ब्राह्मणाः क्षत्रियाश्चान्ये वैश्याः शूद्रास्तथाऽपरे ।। १ ०५।।
भिन्नजातीयराज्ञीनां सुताः पुत्रास्तथाऽनुगाः ।
दासा भृत्याश्च दास्यश्च येऽन्येऽन्या भक्तिमार्गगाः ।। १ ०६।।
आरोहन्तु विमानं मे नयामि मम धाम तान् ।
इत्युक्ताः सर्व एवैते ये ये मुमुक्षवोऽभवन् ।। १ ०७।।
आरुरुहुर्विमानं ते नवसाहस्रसंख्यकाः ।
पशवः पक्षिणः सर्वे कृपया श्रीहरेस्तदा ।। १ ०८।।
आरुरुहुर्विमानं तद् दिव्यदेहाश्चतुर्भुजाः ।
चतुर्भुज्यश्च कमला नार्यः शर्वास्तदाऽभवन् ।। १ ०९।।
प्रजाः सर्वा आरुरुहुर्विमानं दिव्यभास्वराः ।
एकैकपुत्रं सन्त्यज्य वंशबीजं यथायथम् ।। 3.106.११ ०।।
सर्वाः प्रजास्तथा राजा राजकुटुम्बसंयुतः ।
सर्वे ययुर्विमानेन वैकुण्ठं परमं पदम् ।। १११ ।।
एवं शंभलवारो वै साधुर्गृहे स्थितोऽपि सन् ।
तापसोऽपि भुवो भोगान् भुक्त्वा प्रपूज्य केशवम् ।। १ १२।।
ययौ पदं तु परमं भक्त्या नारायणाश्रितः ।
भिन्नजातीयपत्नीनां पतिः पुत्रादिसंयुतः ।। १ १३।।
एवं साधुप्रसंगेन कुटुम्बं सर्वथा रमे! ।
प्रयाति परमं धाम योग्यायोग्ये न तत्र वै ।। १ १४।।
पठनाच्छ्रवणादस्य भोगवैराग्यवान् भवेत् ।
भक्त्या भुक्तिं समालभ्य मुक्तिं व्रजेद् बलाद्धरेः ।।१ १५।।
साधुवृत्त्या व्रजेन्मुक्तिं नयेन्मुक्तिं सहस्रशः ।
यया शंभलवारोऽसौ ययौ मुक्तिं प्रजायुतः ।। १ १६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने विविधपुत्राः, विविधपत्न्यो विविधपतयः, साधुयोगे मुक्तिः, सूतजातीयस्य शंभलवारस्य साधुभक्तस्य भक्त्या तपसा राज्यसुतपशुपक्ष्यादिप्राप्त्युत्तरं सप्रजस्य मुक्तिरित्यादिनिरूपणनामा षडधिकशततमोऽध्यायः ।। १०६ ।।