गोभिलगृह्यसूत्रम्/चतुर्थः प्रपाठकः

विकिस्रोतः तः


अनुप्रहरति वपाश्रपण्यौ १ प्राचीमेकशूलां प्रतीचीमितराम् २ अवद्यन्त्यवदानानि सर्वाङ्गेभ्यः ३ अन्यत्र वामाच्च सक्थ्नः क्लोम्नश्च ४ वामं सक्थ्यन्वष्टक्याय निदध्यात् ५ तस्मिन्नेवाग्नौ श्रपयत्योदनचरुं च माँ सचरुं च पृथङ्मेक्षणाभ्यां प्रदक्षिणमुदायुवन् ६ शृतावभिघार्योदगुद्वास्य प्रत्यभिघारयेत् ७ कँ से रसमवासिच्य ८ प्लक्षशाखावति प्रस्तरेऽवदानानि कृत्वा ९ स्थालीपाकावृतावदानानां कँ सेऽवद्यति १० स्विष्टकृतश्च पृथक् ११ चरोरुद्धृत्य बिल्वमात्रमवदानैः सह यूषेण सन्नयेत् १२ चतुर्गृहीतमाज्यं गृहीत्वाष्टर्चप्रथमया जुहुयादग्नावग्निरिति १३ सन्नीतात्तृतीयमात्रमवदाय द्वितीयातृतीयाभ्यां जुहोति १४ उत्तरस्यां स्वाहाकारं दधाति १५ एवमेवावरे चतुर्थीपञ्चमीभ्यां षष्ठीसप्तमीभ्यां च १६ शेषमवदाय सौविष्टकृतमष्टम्यां जुहुयात् १७ यद्यु वा अल्पसम्भारतमः स्यादपि पशुनैव कुर्वीत १८ अपि वा स्थालीपाकं कुर्वीत १९ अपि वा गोर्ग्रासमाहरेत् २० अपि वारण्ये कक्षमुपधाय ब्रूयादेषा मेऽष्टकेति २१ न त्वेव न कुर्वीत न त्वेव न कुर्वीत २२ १


श्वस्ततोन्वष्टक्यम् १ अपरश्वो वा २ दक्षिणपूर्वेऽष्टमदेशे परिवारयन्ति ३ तथायतम् ४ तथामुखैः कृत्यम् ५ चतुरवरार्ध्यान्प्रक्रमान् ६ पश्चादुपसंचारः ७ उत्तरार्धे परिवृतस्य लक्षणं कृत्वाग्निं प्रणयन्ति ८ पश्चादग्नेरुलूखलं दृँ हयित्वा सकृत्संगृहीतं व्रीहिमुष्टिमवहन्ति सव्योत्तराभ्यां पाणिभ्याम् ९ यदा वितुषाः स्युः १० सकृदेव सुफलीकृतान्कुर्वीत ११ अथामुष्माच्च सक्थ्नो माँ सपेशीमवकृत्य नवायां सूनायामणुशश्छेदयेत् १२ यथा माँ साभिघाराः पिण्डा भविष्यन्तीति १३ तस्मिन्नेवाग्नौ श्रपयत्योदनचरुं च माँ सचरुं च पृथङ्मेक्षणाभ्यां प्रसव्यमुदायुवन् १४ शृतावभिघार्य दक्षिणोद्वास्य न प्रत्यभिघारयेत् १५ दक्षिणार्धे परिवृतस्य तिस्रः कर्षूः खानयेत्पूर्वोपक्रमाः १६ प्रादेशायामाश्चतुरङ्गुलपृथिवीस्तथावखाताः १७ पूर्वस्याः कर्ष्वाः पुरस्ताल्लक्षणं कृत्वाग्निं प्रणयन्ति १८ अपरेण कर्षूः पर्याहृत्य लक्षणे निदध्यात् १९ सकृदाच्छिन्नं दर्भमुष्टिं स्तृणोति २० कर्षूश्च २१ पूर्वोपक्रमाः २२ पश्चात्कर्षूणां स्वस्तरमास्तारयेत् २३ दक्षिणाग्रैः कुशैः २४ दक्षिणाप्रवणम् २५ वृषीं चोपदध्यात् २६ तत्रास्मा आहरन्त्येकैकशः सव्यं बाहुमनु २७ चरुस्थाल्यौ मेक्षणे कँ सं दर्वीमुदकमिति २८ पत्नी बर्हिषि शिलां निधाय स्थगरं पिनष्टि २९ तस्यां चैवाञ्जनं निघृष्य तिस्रो दर्भपिञ्जूलीरञ्जति सव्यन्तराः ३० तैलं चोपकल्पयेत् ३१ क्षौमदशां च ३२ शुचौ देशे ब्राह्मणाननिन्द्यानयुग्मानुदङ्मुखानुपवेश्य ३३ दर्भान्प्रदाय ३४ उदकपूर्वं तिलोदकं ददाति पितुर्नाम गृहीत्वासावेतत्ते तिलोदकं ये चात्र त्वानु याँ श्च त्वमनु तस्मै ते स्वधेति ३५ अप उपस्पृश्यैवमेवेतरयोः ३६ तथा गन्धान् ३७ अग्नौ करिष्यामीत्यामन्त्रणं होष्यतः ३८ कुर्वित्युक्ते कँ से चरू समवदाय मेक्षणेनोपघातं जुहुयात्स्वाहा सोमाय पितृमत इति पूर्वां स्वाहाग्नये कव्यवाहनाय इत्युत्तराम् ३९ २


अत ऊर्ध्वं प्राचीनावीतिना वाग्यतेन कृत्यम् १ सव्येन पाणिना दर्भपिञ्जूलीं गृहीत्वा दक्षिणाग्रां लेखामुल्लिखेदपहता असुरा इति २ सव्येनैव पाणिनोल्मुकं गृहीत्वा दक्षिणार्धे कर्षूणां निदध्याद्ये रूपाणि प्रतिमुञ्चमाना इति ३ अथ पितॄनावाहयत्येत पितरः सोम्यास इति ४ अथोदपात्रान्कर्षूषु निदध्यात् ५ सव्येनैव पाणिनोदपात्रं गृहीत्वावसलवि पूर्वस्यां कर्ष्वां दर्भेषु निनयेत्पितुर्नाम गृहीत्वासाववनेनिक्ष्व ये चात्र त्वानु याँ श्च त्वमनु तस्मै ते स्वधेति ६ अप उपस्पृश्यैवमेवेतरयोः ७ सव्येनैव पाणिना दर्वीं गृहीत्वा सन्नीतात्तृतीयमात्रमवदायावसलवि पूर्वस्यां कर्ष्वां दर्भेषु निदध्यात्पितुर्नाम गृहीत्वासावेष ते पिण्डो ये चात्र त्वानु याँ श्च त्वमनु तस्मै ते स्वधेति ८ अप उपस्पृश्यैवमेवेतरयोः ९ यदि नामानि न विद्यात्स्वधा पितृभ्यः पृथिवीषद्भ्य इति प्रथमं पिण्डं निदध्यात्स्वधा पितृभ्योऽन्तरीक्षसद्भ्य इति द्वितीयं स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम् १० निधाय जपत्यत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति ११ अपर्यावृत्य पुरोच्छ्वासादभिपर्यावर्तमानो जपेदमी मदन्त पितरो यथाभागमावृषायिषतेति १२ सव्येनैव पाणिना दर्भपिञ्जूलीं गृहीत्वावसलवि पूर्वस्यां कर्ष्वां पिण्डे निदध्यात्पितुर्नाम गृहीत्वासावेतत्त आञ्जनं ये चात्र त्वानु याँ श्च त्वमनु तस्मै ते स्वधेति १३ अप उपस्पृश्यैवमेवेतरयोः १४ तथा तैलम् १५ तथा सुरभि १६ अथ निह्नुते १७ पूर्वस्यां कर्ष्वां दक्षिणोत्तानौ पाणी कृत्वा नमो वः पितरो जीवाय नमो वः पितरः शूषायेति १८ मध्यमायां सव्योत्तानौ नमो वः पितरो घोराय नमो वः पितरो रसायेति १९ उत्तमायां दक्षिणोत्तानौ नमो वः पितरः स्वधायै नमो वः पितरो मन्यव इति २० अथाञ्जलिकृतो जपति नमो वः पितरः पितरो नमो व इति २१ गृहानवेक्षते गृहान्नः पितरो दत्तेति २२ पिण्डानवेक्षते सदो वः पितरो देष्मेति २३ सव्येनैव पाणिना सूत्रतन्तुं गृहीत्वावसलवि पूर्वस्यां कर्ष्वां पिण्डे निदध्यात्पितुर्नाम गृहीत्वासावेतत्ते वासो ये चात्र त्वानु याँ श्च त्वमनु तस्मै ते स्वधेति २४ अप उपस्पृश्यैवमेवेतरयोः २५ सव्येनैव पाणिनोदपात्रं गृहीत्वावसलवि पिण्डान्परिषिञ्चेदूर्जं वहन्तीरिति २६ मध्यमं पिण्डं पत्नी पुत्रकामा प्राश्नीयादाधत्त पितरो गर्भमिति २७ यो वा तेषां ब्राह्मणानामुच्छिष्टभाक् स्यात् २८ अभून्नो दूतो हविषो जातवेदा इत्युल्मुकमद्भिरभ्युक्ष्य २९ द्वन्द्वं पात्राणि प्रक्षाल्य प्रत्यतिहारयेत् ३० अप्सु पिण्डान्सादयेत् ३१ प्रणीते वाग्नौ ३२ ब्राह्मणं वा भोजयेत् ३३ गवे वा दद्यात् ३४ वृद्धिपूर्तेषु युग्मानाशयेत् ३५ प्रदक्षिणमुपचारः ३६ यवैस्तिलार्थः ३७ ३


अन्वष्टक्यस्थालीपाकेन पिण्डपितृयज्ञो व्याख्यातः १ अमावास्यायां तच्छ्राद्धम् २ इतरदन्वाहार्यम् ३ मासीनम् ४ दक्षिणाग्नौ हविषः संस्करणम् ५ ततश्चैवातिप्रणयः ६ शालाग्नावनाहिताग्नेः ७ एका कर्षूः ८ तस्या दक्षिणतोऽग्नेः स्थानम् ९ नात्रोल्मुकनिधानम् १० न स्वस्तरः ११ नाञ्जनाभ्यञ्जने १२ न सुरभि १३ न निह्नवनम् १४ उदपात्रान्तः १५ वासस्तु निदध्यात् १६ माघ्या ऊर्ध्वमष्टम्यां स्थालीपाकः १७ तस्य जुहुयात् १८ अष्टकायै स्वाहेति जुहोति १९ स्थालीपाकावृतान्यत् २० शाकं व्यञ्जनमन्वाहार्ये २१ अथ पितृदैवत्येषु पश्षु वह वपां जातवेदः पितृभ्य इति वपां जुहुयात् २२ देवदेवत्येषु जातवेदो वपया गच्छ देवानिति २३ अनाज्ञातेषु तथादेशं यथाष्टकायै स्वाहेति जुहोति २४ स्थालीपाकावृतान्यत् २५ ऋणे प्रज्ञायमाने गोलकानां मध्यमपर्णेन जुहुयाद्यत्कुसीदमिति २६ अथातो हलाभियोगः २७ पुण्ये नक्षत्रे स्थालीपाकं श्रपयित्वैताभ्यो देवताभ्यो जुहुयादिन्द्रा य मरुद्भ्यः पर्जन्यायाशन्यै भगाय २८ सीतामाशामरडामनघां च यजेत २९ एता एव देवताः सीतायज्ञखलयज्ञप्रवपणप्रलवनपर्ययणेषु ३० आखुराजं चोत्करेषु यजेत ३१ इन्द्रा ण्याः स्थालीपाकः ३२ तस्य जुहुयादेकाष्टका तपसा तप्य मानेति ३३ स्थालीपाकावृतान्यत्स्थालीपाकावृतान्यत् ३४ ४


काम्येष्वत ऊर्ध्वम् १ पूर्वेषु चैके २ पश्चादग्नेर्भूमौ न्यञ्चौ पाणी प्रतिष्ठाप्येदं भूमेर्भजामह इति ३ वस्वन्तं रात्रौ धनमिति दिवा ४ इमं स्तोममिति तृचेन परिसमूहेत् ५ वैरूपाक्षः पुरस्ताद्धोमानाम् ६ काम्येषु च प्रपदः ७ तपश्च तेजश्चेति जपित्वा प्राणायाममायम्यार्थमना वैरूपाक्षमारभ्योच्छ्वसेत् ८ काम्येषु त्रिरात्राभोजनम् ९ त्रीणि वा भक्तानि १० नित्यप्रयुक्तानां तु प्रथमप्रयोगेषु ११ उपोष्य तु यजनीयप्रयोगेषु १२ उपरिष्टाद्दैक्षं सान्निपातिकम् १३ अरण्ये प्रपदं प्रयुञ्जीत दर्भेष्वासीनः १४ प्राक्तूलेषु ब्रह्मवर्चसकामः १५ उदक्तूलेषु पुत्रपशुकामः १६ उभयेषूभयकामः १७ पश्स्वुस्त्ययनकामो व्रीहियवहोमं प्रयुञ्जीत सहस्रबाहुर्गौपत्य इति १८ कौतोमतेन महावृक्षफलानि परिजप्य प्रयच्छेत् १९ यस्यात्मनि प्रसादमिच्छेत्तस्मै २० एकभूयाँ स्यात्मनो युग्मानि कुर्यात् २१ वृक्ष इवेति पञ्चर्चः २२ तस्मिन्प्रथमं पार्थिवं कर्म २३ अर्धमासमभुक्त्वा २४ अशक्तौ वा पेयामन्यतरं कालम् २५ यत्रात्मानं परिपश्येत् २६ एतद्व्रतमर्धमासव्रतेषु २७ पौर्णमास्यां रात्रावविदासिनि ह्रदे नाभिमात्रमवगाह्याक्षततण्डुलानृगन्तेष्वास्येन जुहुयात्स्वाहेत्युदके २८ अथापरम् २९ प्रथमयादित्यमुपतिष्ठेत भोगकामोऽर्थपतिचक्षुर्विषये सिध्यत्यर्थः ३० द्वितीययादित्ये परिविष्यमाणेऽक्षततण्डुलाञ्जुहुयाद्बृहत्पत्त्रस्वस्त्ययनकामः ३१ तृतीयया चन्द्र मसि तिलतण्डुलान्क्षुद्र पश्स्वुस्त्ययनकामः ३२ चतुर्थ्यादित्यमुपस्थायार्थान्प्रतिपद्येत स्वस्त्यर्थवानागच्छति ३३ पञ्चम्यादित्यमुपस्थाय गृहान्प्रपद्येत स्वस्ति गृहानागच्छति स्वस्ति गृहानागच्छति ३४ ५


भूरित्यनकाममारं नित्यं प्रयुञ्जीत १ न पापरोगान्नाभिचरणाद्भयम् २ अलक्ष्मीनिर्णोदः ३ यजनीयप्रयोगः ४ मूर्ध्नोऽधि म इत्येकैकया ५ या तिरश्चीति सप्तमी ६ वामदेव्यर्चः ७ महाव्याहृतयः ८ प्रजापत इत्युत्तमा ९ यशोऽहं भवामीति यशस्काम आदित्यमुपतिष्ठेत पूर्वाह्णमध्यन्दिनापराह्णेषु १० प्रातरह्णस्येति सन्नामयन् ११ सन्धिवेलयोरुपस्थानं स्वस्त्ययनमादित्य नावमित्युद्यन्तं त्वादित्यानूदियासमिति पूर्वाह्णे प्रतितिष्ठन्तं त्वादित्यानुप्रतितिष्ठासमित्यपराह्णे १२ आचितशतकामोऽर्धमासव्रतस्तामिस्रादौ व्रीहिकाँ सौदनं ब्राह्मणान्भोजयित्वा १३ तस्य कणानपरासु सन्धिवेलासु प्रत्यङ्ग्रामान्निष्क्रम्य चतुष्पथेऽग्निमुपसमाधायादित्यमभिमुखो जुहुयाद्भलाय स्वाहा भल्लाय स्वाहेति १४ एतयैवावृतापरौ तामिस्रौ १५ तामिस्रान्तरेषु ब्रह्मचारी स्यादा समापनादा समापनात् १६ ६


अवसानं जोषयेत १ समं लोमशमविभ्रँ शि २ प्राच्य उदीच्यो वा यत्रापः प्रवर्तेरन् ३ अक्षीरिण्योऽकण्टका अकटुका यत्रौषधयः स्युः ४ गौरपाँ सु ब्राह्मणस्य ५ लोहितपाँ सु क्षत्रियस्य ६ कृष्णपाँ सु वैश्यस्य ७ स्थिराघातमेकवर्णमश्ष्कुमनूषरममरुपरिहितमकिलिनम् ८ दर्भसम्मितं ब्रह्मवर्चसकामस्य ९ बृहत्तृणैर्बलकामस्य १० मृदुतृणैः पशुकामस्य ११ शादासम्मितम् १२ मण्डलद्वीपसम्मितं वा १३ यत्र वा श्वभ्राः स्वयंखाताः सर्वतोऽभिमुखाः स्युः १४ तत्रावसानं प्राग्द्वारं यशस्कामो बलकामः कुर्वीत १५ उदग्द्वारं पुत्रपशुकामः १६ दक्षिणाद्वारं सर्वकामः १७ न प्रत्यग्द्वारं कुर्वीत १८ अनुद्वारं च १९ गृहद्वारम् २० यथा न संलोकी स्यात् २१ वर्जयेत्पूर्वतोऽश्वत्थं प्लक्षं दक्षिणतस्तथा न्यग्रोधमपराद्देशादुत्तराच्चाप्युदुम्बरम् २२ अश्वत्थादग्निभयं च प्लक्षाद्ब्रूयात्प्रमायुकान्न्यग्रोधाच्छस्त्रसंपीडामक्ष्यामयमुदुम्बरात् २३ आदित्यदेवतोऽश्वत्थः प्लक्षो च यमदेवतः न्यग्रोधो वारुणो वृक्षः प्राजापत्य उदुम्बरः २४ तानस्वस्थानस्थान्कुर्वीत २५ एताश्चैव देवता अभियजेत् २६ मध्येऽग्निमुपसमाधाय कृष्णया गवा यजेत २७ अजेन वा श्वेतेन २८ सपायसाभ्याम् २९ पायसेन वा ३० वसामाज्यं माँ सं पायसमिति संयूय ३१ अष्टगृहीतं गृहीत्वा जुहुयात् ३२ वास्तोष्पत इति प्रथमा ३३ वामदेव्यर्चः ३४ महाव्याहृतयः ३५ प्रजापतय इत्युत्तमा ३६ हुत्वा दश बलीन्हरेत् ३७ प्रदक्षिणं प्रतिदिशम् ३८ अवान्तरदेशेषु ३९ आनुपूर्व्येणाव्यतिहरन् ४० इन्द्रा येति पुरस्ताद्वायव इत्यवान्तरदेशे यमायेति दक्षिणतः पितृभ्य इत्यवान्तरदेशे वरुणायेति पश्चान्महाराजायेत्यवान्तरदेशे सोमायेत्युत्तरतो महेन्द्रा येत्यवान्तरदेशे वासुकय इत्यधस्तादूर्ध्वं नमो ब्रह्मण इति दिवि ४१ प्राच्यू र्ध्वावाचीभ्योऽहरहर्नित्यप्रयोगः ४२ संवत्सरेसंवत्सरे नवयज्ञयोर्वा ४३ ७


श्रवणाग्रहायणीकर्मणोरक्षताञ् छिष्ट्वा १ प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य चतुष्पथेऽग्निमुपसमाधाय हये राक इत्येकैकयाञ्जलिना जुहुयात् २ प्राङुत्क्रम्य वसुवन एधीत्यूर्ध्वमुदीक्षमाणो देवजनेभ्यः ३ तिर्यङ्ङितरजनेभ्योऽर्वाङवेक्षमाणः ४ अनपेक्षमाणः प्रत्येत्याक्षतान्प्राश्नीयादुपेतैरमात्यैः सह ५ स्वस्त्ययनम् ६ वशंगमौ शङ्खश्चेति पृथगाहुती व्रीहियवहोमौ प्रयुञ्जीत ७ यस्यात्मनि प्रसादमिच्छेत्तस्मै ८ नित्यप्रयोगः ९ एकाक्षर्यायामर्धमासव्रते द्वे कर्मणी १० पौर्णमास्यां रात्रौ खदिरशङ्कुशतं जुहुयादायुष्कामः ११ आयसान्वधकामः १२ अथापरम् १३ प्राङ् वोदङ्वा ग्रामान्निष्क्रम्य चतुष्पथे पर्वते वारण्यैर्गोमयैः स्थण्डिलं प्रताप्यापोह्याङ्गारान्मन्त्रं मनसानुद्रुत्य सर्पिरास्येन जुहुयात् १४ ज्वलन्त्यां द्वादश ग्रामाः १५ धूमे त्र्यवरार्ध्याः १६ अमोघं कर्मेत्याचक्षते १७ वृत्त्यविच्छित्तिकामो हरितगोमयान्सायंप्रातर्जुहुयात् १८ त्रिरात्रोपोषितः पण्यहोमं जुहुयादिदमहमिमं विश्वकर्माणमिति १९ वाससस्तन्तून् २० गोर्वालान् २१ एवमितरेभ्यः पण्येभ्यः २२ पूर्णहोमो यजनीयप्रयोगः २३ इन्द्रा मवदादिति च २४ यशस्कामः पूर्वां सहायकाम उत्तराम् २५ ८


पुरुषाधिपत्यकामोऽष्टरात्रमभुक्त्वा १ औदुम्बरान्स्रुचमसेध्मानुपकल्पयित्वा २ प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य चतुष्पथेऽग्निमुपसमाधाय ३ आज्यमादित्यमभिमुखो जुहुयादन्नं वा एकच्छन्दस्यं श्रीर्वा एषेति च ४ अन्नस्य घृतमेवेति ग्रामे तृतीयाम् ५ गोष्ठे पशुकामः ६ विदूयमाने चीवरम् ७ प्रतिभयेऽध्वनि वस्त्रदशानां ग्रन्थीन्बध्नीत ८ उपेत्य वसनवतः ९ स्वाहाकारान्ताभिः १० सहायानां च स्वस्त्ययनम् ११ आचितसहस्रकामोऽक्षतसक्त्वाहुतिसहस्रं जुहुयात् १२ पशुकामो वत्समिथुनयोः पुरीषाहुतिसहस्रं जुहुयात् १३ अविमिथुनयोः क्षुद्र पशुकामः १४ वृत्त्यविच्छित्तिकामः कम्बूकान्सायंप्रातर्जुहुयात्क्षुधे स्वाहा क्षुत्पिपासाभ्यां स्वाहेति १५ मा भैषीर्न मरिष्यसीति विषवता दष्टमद्भिरभ्युक्षञ्जपेत् १६ तुर गोपायेति स्नातकः संवेशनवेलायां वैणवं दण्डमुपनिदधीत १७ स्वस्त्ययनार्थम् १८ हतस्ते अत्रिणा कृमिरिति कृमिमन्तं देशमद्भिरभ्युक्षञ्जपेत् १९ पशूनां चेच्चिकीर्षेदपराह्णे सीतालोष्टमाहृत्य वैहायसं निदध्यात् २० तस्य पूर्वाह्णे पाँ सुभिः परिकिरञ्जपेत् २१ ९


उत्तरतो गां बद्ध्वोपतिष्ठेरन्नर्हणा पुत्र उवास सेति १ इदमहमिमां पद्यां विराजमन्नाद्यायाधितिष्ठामीति प्रतितिष्ठमानो जपेत् २ यत्रैनमर्हयिष्यन्तः स्युः ३ यदा वार्हयेयुः ४ विष्टरपाद्यार्घ्याचमनीयमधुपर्कानेकैकशस्त्रिस्त्रिर्वेदयेरन् ५ या ओषधीरित्युदञ्चं विष्टरमास्तीर्याध्युपविशेत् ६ द्वौ चेत्पृथगृग्भ्याम् ७ पादयोरन्यम् ८ यतो देवीरित्यपः प्रेक्षेत ९ सव्यं पादमवनेनिज इति सव्यं पादं प्रक्षालयेद्दक्षिणं पादमवनेनिज इति दक्षिणं पादं प्रक्षालयेत् १० पूर्वमन्यमपरमन्यमित्युभौ शेषेण ११ अन्नस्य राष्ट्रिरसीत्यर्घ्यं प्रतिगृह्णीयात् १२ यशोऽसीत्याचमनीयमाचामेत् १३ यशसो यशोऽसीति मधुपर्कं प्रतिगृह्णीयात् १४ यशसो भक्षोऽसि महसो भक्षोऽसि श्रीर्भक्षोऽसि श्रियं मयि धेहीति त्रिः पिबेत् १५ तूष्णीं चतुर्थम् १६ भूय एवाभिपाय शेषं ब्राह्मणाय दद्यात् १७ आचान्तोदकाय गौरिति नापितस्त्रिर्ब्रूयात् १८ मुञ्च गां वरुणपाशाद्द्विषन्तं मेऽभिधेहीति तं जह्यमुष्य चोभयोरुत्सृज गामत्तु तृणानि पिबतूदकमिति ब्रूयात् १९ माता रुद्रा णामित्यनुमन्त्रयेत २० अन्यत्र यज्ञात् २१ कुरुतेत्यधियज्ञम् २२ षड् अर्घ्यार्हा भवन्ति २३ आचार्य ऋत्विक् स्नातको राजा विवाह्यः प्रियोऽतिथिरिति २४ परिसंवत्सरानर्हयेयुः २५ पुनर्यज्ञविवाहयोश्च पुनर्यज्ञ विवाहयोश्च २६ १०
इति चतुर्थः प्रपाठकः
इति सामवेदस्य गोभिलीयगृह्यसूत्रं समाप्तम्