अर्थितां त्वयि गतेषु सुरेषु म्लानदानजनिजो[१]रुयशःश्रीः ।
अद्य पाण्डु गगनं सुरशाखी केवलेन कुसुमेन विधत्ताम् ॥१३३॥
अर्थितामिति ॥ सुरशाखी कल्पतरुः सुरेषु त्वयि विषयेऽर्थितां याचकतां गतेषु सत्सु म्लाना विनष्टप्राया दानजा निजा स्वीया सहजा वा उर्वी महती यशःश्रीः यस्यैवंभूतः सन् अद्य केवलेन कीर्तिरहितेन कुसुमेन पुष्पेण कृत्वा गगनं पाण्डु श्वेतं विधत्तां करोतु । एतावन्तं कालं कीर्तिपुष्पाभ्यां श्वेतं कृतं, त्वया कीर्तेरपहृतत्वात्केवलेन पुष्पेणेति भावः।
'हास्यतैव सुलभा, न तु साध्यम्' इत्यस्योत्तरमाह-
प्रवसते भरतार्जुनवैन्यवत्स्मृतिधृतोपि नल त्वमभीष्टदः ।
स्वगमनाफलतां यदि शङ्कसे तदफलं निखिलं खलु मङ्गलम् ॥१३४॥
प्रघसत इति ॥ हे नल, भरतार्जुनवैन्यवत् भरतः शाकुन्तलेयः, अर्जुनः कार्तवीर्यः, पृथुर्वैन्यः तद्वत्स्मृतिधृतः स्मृतिगोचरः स्मृत इत्यर्थः । एवंभूतोऽपि नलः प्रवसते देशान्तरगामिने पुरुषायाभीष्टं ददातीत्यभीष्टदः स त्वं स्वगमनस्य अफलतां नैष्फल्यं यदि शङ्कसे संभावयसि तत्तर्हि निखिलं समस्तं वैन्यादिस्मरणलक्षणं मङ्गलं शकुनादि च त्वद्दृष्टान्तेन खलु निश्चितमफलं निष्फलम् । 'वैन्यं पृथुम्-' इत्यादीनां स्मरणस्यापि वैयर्थ्यप्रसङ्गात्स्वगमननैष्फल्यं त्वया नाशङ्कनीयम्, अतो गच्छेत्यर्थः । 'भरतादिवत्त्वयीति वा । भरतादेरभ्यर्हितत्वात्पूर्वनिपातः[२] ॥
इष्टं नः प्रति ते प्रतिश्रुतिरभूद्याद्यस्वराह्लादिनि
धर्मार्था सृज तां श्रुतिप्रतिभटीकृत्यान्विताख्यापदाम् ।
त्वत्कीर्तिः पुनती पुनस्त्रिभुवनं शुभ्राद्वयादेशना-
द्रव्याणां शितिपीतलोहितहरिन्नाम्नान्वयं लुम्पतु ॥ १३५ ॥
इष्टमिति ॥ हे नल, नोऽस्माकं इष्टमाकाङ्क्षितं प्रत्युद्दिश्य स्वराह्लादिनी अस्मदाह्लादनात्स्वर्गानन्ददायिनी स्वरेणाङ्गीकारसूचकमधुरस्वरेण वानन्दिनी तथा- धर्मार्था धर्मप्रयोजनिका या तव प्रतिश्रुतिः 'जीवितावधि किमप्यधिकं वा-' इत्यादिका प्रतिज्ञा- ऽभूजाता तां प्रतिश्रुतिमद्येदानी सत्यत्वेन श्रुतिप्रतिभटीकृत्य वेदसदृशीं कृत्वा अन्वितं श्रुतेः प्रतिभटा प्रतिश्रुतिरिति सार्थकमाख्यापदं संज्ञापदं यस्याः एवंभूतां सृज । सत्यां कुर्वित्यर्थः । श्रुतिप्रतिभटत्वे हि प्रतिश्रुतिशब्दः सार्थको भवति । सत्यत्वेन स्वीयं वचनं श्रुत्यन्तरं कुर्वित्यर्थः । अङ्गीकृतं परिपालयेति भावः । पुनः प्रतिज्ञासिद्धौ सत्यां त्रिभुवनं त्रिलोकीं पुनती पुनाना, अथ च उज्ज्वलं कुर्वाणा त्वत्कीर्तिः शुभ्रस्य श्वेतस्य