पूर्णं मध्यमनुभवन्त्य इव शुशुभिर इति प्रतीयमानोत्प्रेक्षा वा। प्रीतेतिपाठे-स्वोद्दीपकत्वेन प्रीतात्कामाद्धृतं वरेण लब्धं वह्निपदं येनेत्यर्थः । मुक्ताफलोत्पत्तिहेतुभूताः शुक्तयः पुत्रविरहेण मातरो यथा हृदयान्तर्दहन्ति, तथा कुङ्कुमरूपमन्तर्दाहं वहन्त्यः शुशुभिर इति वा ॥
अङ्कचुम्बिधनचन्दनपङ्कं यत्र गारुडशिलाजममत्रम् । |
अङ्केति ॥ यत्र देवागारे अङ्कचुम्बी मध्यवर्ती घनश्चन्दनपङ्को यस्य तस्य गारुडशिलाजमतिनीलस्थूलगरुडोद्गारमणिघटितममत्रं पात्रं केल्यालीलामात्रेण कवलीभवन् ग्रासीभवन् मुखमध्यवर्त्यर्धभाग इन्दुर्यस्य सिंहिकासुतमुखस्य राहुवदनस्य शीतान्नभोजन- सुखानि प्राप। तत्सममभूदित्यर्थः । गारुडमणिपात्राणि यत्र चन्दनभृतानि सन्तीति भावः । अमत्रमिति जात्येकवचनम् । भवदिन्दोभाषितपुंस्कम् ॥
गर्भमैणमदकर्दमसान्द्रं भाजनानि रजतस्य भजन्ति |
गर्भमिति ॥ यत्र देवागारे एणमदः कस्तूरी तस्य कर्दमस्तेन सान्द्रं पूर्ण गर्भ मध्यं भजन्ति विभ्राणानि रजतघटितानि भाजनानि अङ्करङ्कुकलङ्कमृगस्तेन कलुषीकृतो मलिनीकृतः कुक्षियस्य तस्यामृतांशोश्चन्द्रस्य साम्यमगमत् । देवपूजार्थं रजतपात्राणि कस्तूरीपूर्णानि यत्र सन्तीति भावः ॥
उज्जिहानसुकृताङ्कुरशङ्का यत्र धर्मगहने खलु तेने। |
उज्जिहानेति ॥ धर्मेण गहने निबिडे, अथ च-पुण्यकाननरूपे यत्रोच्चवर्तुलधवलतराणां सुगतसौधानां बौद्धदेवालयानां सखायः सदृशास्तेषां भूरिः शर्करा येषु तेषां करम्भबलीनां दधिसक्तूपहाराणां ध्योदनोपहाराणां वा आलिभिः पङ्क्तिभिरुज्जिहान उद्गच्छन् सुकृताङ्कुरस्तस्य शङ्का संभावना खलु निश्चितं तेने व्यरचि । आम्रादिवने ह्याम्राद्यङ्कुरा एवोद्गच्छन्ति, तथा धर्मकानने धर्माङ्कुरा एवेति । यत्र शर्करामिश्रद्ध्योदनबलिश्रेणय उपकल्पिताः सन्तीति भावः। सखाना, 'राजाहः-' इति टच् ॥
खर्वमाख्यदमरौघनिवासं पर्वतं क्वचन चम्पकसंपत् । |
खर्वमिति ॥ यत्र क्वचन प्रदेशे विकसितचम्पककुसुमानां संपदुच्चतरपुञ्जोऽमरौघानां निवासभूतपर्वतं मेरु खर्वं हस्वमाख्यत् । सुवर्णमेरुवर्णश्चम्पकराशिर्मेरोरप्युच्चतरो यत्रास्तीत्यर्थः । तथा-- मल्लिकाकुसुमराशिः स्फटिका एव शिखराणि यस्य तं कैलास-