सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
यादवाभ्युदये

पुंसाम् । अनस्तमयभानुमान् अस्तमयरहितसूर्यः । त्वम् । अपुनस्खापजागरं पुनरावृत्तिरहितमपवर्गम् । आपादयसि । यथा उद्यन् भास्वान् निद्रितान् प्र- बोधयति । एवं त्वं हृदये स्फुरन् संसारिणो मोचयसीत्यर्थः । अत्र संसाराप- वर्गयोः जीवस्य स्वरूपतिरोभावाविर्भावाभ्यां तौ निद्राजागरभावेनाध्यव- सौयेते इति अतिशयोक्तिः। भगवति भानुत्वारोपस्य जागरापादनरूप- प्रकृतकार्योपयोगात् परिणामः । तत्र चानस्तमयत्वं विशेषणं सूर्यास्त- मयानन्तरभाविपुनस्स्वापराहित्ये हेतुरिति पदार्थहेतुकं काव्यलिङ्ग- मित्येतेषां सङ्करः। तेन च प्रसिद्धभानुमतो व्यतिरेको व्यज्यत इत्य- लकारेणालङ्कारध्वनिः ॥ ३२ ॥

त्वदेकशरणानां त्वं शरणागतजीवनः ।
विपदं नःक्षिप क्षिप्रं तमिस्रामिव भास्करः ॥ ६३ ॥

त्वदेकेति । शरणागतान् जीवयतीति शरणागतजीवनः त्राता।

त्वम् । त्वदेकशरणानां त्वं एकः शरण रक्षिता येषां तेषाम् । नः अस्माकम् । शरण गृहरक्षित्रोः' इत्यमरः । विपदम् । तमिस्रां अन्धकारम् । भास्कर इव । क्षिप्र शीघ्रम् । क्षिप निराकुरु । 'अथ ध्वान्ते तमिस्र स्यात्तमिस्रा चान्धमद्वयोः ।' इत्यमरशेष ॥ ६३ ॥

सति सूर्ये समुद्यन्तः प्रतिसूर्या इवासुराः ।
जगदाधाय जायन्ते जहि तान् स्वेन तेजसा ॥ ६४ ॥

सतीति। सूर्ये । सति विद्यमाने । समुद्यन्तः। प्रतिसूर्या इव । असुराः

कंसादिरूपिणः । जगतां बाधाय जायन्ते उपवाय संपद्यन्ते । प्रतिसूर्या अप्योत्पातिकत्वादुपद्रवकरा भवन्ति । स्वेन तेजसा प्रभावेन । सूर्यपक्षे ज्योतिषा। तान् । जहि संहर । 'हन्तेजः' इति जादेशः ॥ ६४ ॥ .