(४|१|१२०) इति ढक् स्यात् । गुणिनो गुणाढ्या अमी पूर्वश्लोकद्वयोक्ताः स्नातकादयः पृथक्पृथक् प्रत्येकमकृत्रिमामकपटां सस्कृतिं सत्कारमाभजन्ति अर्हन्ति । सममेषां प्रत्येकं पूजा कार्येत्यर्थः । अथ स्वाभिमतं पक्षान्तरमाह-अथवेति । अथवा गुणवत्तमोऽतिगुणवानेक एव पूज्य इत्ययमपि विधिः शास्त्रमनुष्टानं वेष्यते। वृद्धैरिति शेषः । अत्र स्नातकादीनां पूज्यत्वे गुणो विशेषणगत्या हेतुरिति काव्यलि- ङ्गभेदः । तदपेक्षया गुणवत्तमत्वमेकस्यैव पूज्यत्वे तथैव हेतुरिति काव्यलिङ्गान्तर- मिति सजातीयसंकरः॥ ५७ ॥
अत्र क एकस्तथा सर्वोत्तरः पुमानस्तीत्याकाङ्क्षायां कोऽन्यो हरिं विनेत्याह-
अत्र चैष सकलेऽपि भाति मां प्रत्यशेषगुणबन्धुरर्हति ।
भूमिदेवनरदेवसंगमे पूर्वदेवरिपुरर्हणां हरिः ॥ ५८ ॥
अत्रेति ॥ अत्रास्मिन्कालेऽपि भूमिदेवा ब्राह्मणाः नरदेवा राजानस्तेषां संगमे । ब्राह्मणक्षत्रियसमवाय इत्यर्थः । अशेषगुणानां बन्धुः सुहृत् । सर्वगुणाढ्य इत्यर्थः । असाधारणगुणानाह-पूर्वेति । पूर्वदेवाः सुरद्विषस्तेषां रिपुर्हन्ता एष हरिः कृष्णः अर्हणां पूजामर्हति प्राप्नोतीति मामधिकृत्य भाति । मम प्रतिभातीत्यर्थः । अन्ये तु नार्हन्तीत्यपि सिद्धमिति भावः । अत्र तत्रान्येषु च प्रसक्तायां पूजायां हरावेव नियमात्परिसंख्यालंकारः । 'एकस्य वस्तुनः प्राप्तावनेकत्रैकधा यदा । एकत्र नियमः सा हि परिसंख्या निगद्यते' इति तल्लक्षणात् ॥ ५८ ॥
ननु एतस्मिन्ब्राह्मणक्षत्रियसमूहे कथमस्यैव पूज्यत्वमित्याशङ्क्य सर्वोत्तमत्वा- दस्येत्याशयेनासर्गसमाप्तेरेनं स्तौति-
मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवम् ।
अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः॥५९॥
व्मर्त्येत्यादि ॥ आनमिताः प्रह्वीकृता दैत्या दितिसुताः, दानवा दनुसुताश्च येन तमेनं हरिं भवान्मर्त्यमानं मनुष्यमात्रं मावदीधरत् न जानीयात् । 'शेषे प्रथमः' (१।४।१०८) इति प्रथमपुरुषः । कुतः । एषः कृष्णो जनतातिवर्तिनः सर्वलोकातीतस्य प्रतिजनं जने जने कृतस्थितेः कृता स्थितिः येन तस्य । सर्वभूता- न्तर्यामिण इत्यर्थः । वेधसः परमात्मनोंऽशः कला । अतो न मर्त्यमात्रमित्यर्थः । अत एव वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ५९॥
पुनरप्यमानुषत्वमेव व्यनक्ति-
ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथम् ।
आमनन्ति यमुपास्यमादराद्दूरवर्तिनमतीव योगिनः ॥६० ॥
ध्येयमिति ॥ योगिनो नारदादयः एकमद्वितीयमुत्तमं सर्वोत्तमं यमेनं ध्येयं ध्यातव्यम् । एकार्थगोचरात्मधारणं ध्यानं तदहमित्यर्थः । तथापि धियो ज्ञानस्थापथेऽमार्गे स्थितम् । तदगोचरमित्यर्थः । 'पथो विभाषा' (५|४|७२) इति समासान्तः । 'अपथं नपुंसकम्' (२।४।३०) इति नपुंसकत्वम् । आमनन्ति । कथयन्ति । 'पाघ्रा-' (७|३।७८) इत्यादिना म्नाधातोर्मनादेशः । स्तुत्यं स्तोतुमर्हम् ।