दुत्साहार्थमेकेनोपश्लोकयति । वेत्तीति विदो ज्ञाता । इगुपधलक्षणः कप्रत्ययः । कसो विद्यास्थानस्य विदः कोविदः । गुणदोषयोः कोविदो विवेक्ता । करणीय- वस्तुषु कर्तव्यार्थेष्वात्मनैव स्वयमेव । परोपदेशानपेक्षयैवेत्यर्थः । प्रकृत्यादित्वा- तृतीया । किं न वेत्सि । सर्वं जानासीत्यर्थः । तथापि ज्ञातापि त्वं गुरून्न पृच्छ- सीति न, किंतु पृच्छस्येवेति यत् । ज्ञानप्रसक्तपृच्छानिवारणाय नञ्द्वयम् । तत्र गुर्वनुयोगे अयं क्रम इति एषा सदाचारपरिपाटीत्येतदेव कारणं न त्वज्ञा- नमित्यर्थः । अत्र कर्तव्यार्थप्रश्नस्याज्ञानहेतुकत्ववारणेनापरहेतुकत्वे नियमनात्पूर्वो- क्तलक्षणपरिसंख्यानम् ॥ ५४ ॥
एवं राजानमुपश्लोक्य प्रश्नस्योत्तरमाह-
स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् ।
अर्घभाज इति कीर्तयन्ति षट् ते च ते युगपदागताः सदः॥५५॥
स्नातकमिति ॥ स्नातको गृहस्थविशेषस्तम् , गुरुं पित्रादिकम् , अभीष्टमिष्ट- बन्धुम्, ऋत्विजं याजकम्, संयुज्यत इति संयुक् संबन्धी जामाता तेन सह मेदिनीपतिं राजानं च । तं च मेदिनीपतिं चेत्यर्थः । षट् षडेतेऽर्घभाजः पूजा इति । इतिशब्देनाभिहितत्वान्न कर्मणि द्वितीया यथाह वामनः-'निपातेनाप्य- भिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्' इति । कीर्ययन्ति कथ- यन्ति । वृद्धा इति शेषः । न च ते दूर इत्याह-ते च षडपि ते तव सदः सभां युगपदागताः प्राप्ताः । अत्र स्नातकादीनां प्रकृतानामेवार्घभाक्त्वसाधादौपम्या- वगमात्तुल्ययोगिताभेदः ॥ ५५ ॥
शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः ।
त्वन्मखं मुखभुवः स्वयंभुवो भूभुजश्च परलोकजिष्णवः॥५६॥
शोभयन्तीति ॥ किंच १प्रतापयितुं शीलं येषां ते प्रतापिनः शत्रुतापकाः । ताच्छील्ये णिनिः । अन्यत्र तेजस्विनः। 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । 'अत इनिठनौ' (५।२।११५) इति इन्प्रत्ययः । मन्त्रशक्त्या वेदमहिम्ना, अन्यत्र विचारसामर्थ्येन विनिवारिता आपदो दैवमानुषविपत्तयो यैस्ते । वेद- भेदे गुप्तवादे मन्त्रः' इत्यमरः । परलोकस्य लोकान्तरस्य, शत्रुजनस्य च जिष्णवो जयशीलाः । स्वयंभुवो ब्रह्मणो मुखभुवो मुखजाता ब्राह्मणाः । 'ब्राह्मणोऽस्य मुखमासीत्' इति श्रुतेः । भूभुजो राजानश्च । त्वन्मखं तव ऋतुं परितः शोभ- यन्ति परिष्कुर्वन्ति । सर्वेऽप्यागत्य वसन्तीत्यर्थः । अत्र राज्ञां ब्राह्मणानां च प्रकृतानामेव प्रतापित्वादिसाधर्म्येणौपम्यावगमात्तुल्ययोगिताभेदः । साधर्म्यं च लेषनिबन्धनमिति संकरः ॥ ५६ ॥
आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी।
एक एव गुणवत्तमोऽथवा पूज्य इत्ययमपीष्यते विधिः ॥५७॥
आभजन्तीति ॥ हे पार्थ पृथापुत्र, 'तस्येदम्' (४।३।१२०) इत्यण् ।सामान्यस्य योग्यविशेषपर्यवसाननियमादपत्यार्थलाभः । अन्यथा 'स्त्रीभ्यो ढक्'
पाठा०-१'प्रतापनशीला: प्रतापिनस्तीव्रतपसः'.