सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१३
त्रयोदशः सर्गः ।

णश्च ननृतुः नृत्यन्ति स्म । अत्रोपमयोः संसृष्टिः । वारिधरोपमया कलापिनां गजबृंहितेषु घनगर्जितभ्रान्तिमन्तरेण नृत्यासंभवाभ्द्रान्तिमदलंकारो व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ ५ ॥

 व्रजतोरपि प्रणयपूर्वमेकतामसुरारिपाण्डुसुतसैन्ययोस्तदा ।
 रुरुषे विषाणिभिरनुक्षणं मिथो मदमूढबुद्धिषु विवेकिता कुतः ॥६॥

 व्रजतोरिति ॥ तदा तस्मिन्समये असुरारिपाण्डुसुतसैन्ययोः हरिपार्थ- सैन्ययोः प्रणयपूर्व स्नेहपूर्वकमेकतामैक्यं व्रजतोर्गच्छतोः सतोरपि विषाणिभि- रुभयसेनावर्तिभिः गजैरनुक्षणं प्रतिक्षणं मिथः परस्परं रुरुषे चुक्रुधे । भावे लिट् । तथा हि-मदेन मूढबुद्धिषु विपरीतप्रज्ञेषु प्राणिषु विवेकिता कार्याकार्यविचारिता कुतः । नास्त्येवेत्यर्थः । अथ तेषां स्वामिसौहार्देऽपि स्वयं विरोधिता न दोषायेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥६॥

 अवलोक एव नृपतेः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः ।
 अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति संभ्रमेण सः॥७॥

 अवलोक इति ॥ दूरतो दूरादवलोके हरेर्दर्शन एव रभसाद्धर्षाद्रथादवत- रीतुमवरोढुम् । 'वृतो वा' (७।२।३८) इति विकल्पाद्दीर्घः । इच्छतो नृपतेर्ध- र्मराजात्प्रथमम् । तदवतरणात्पूर्वमेवेत्यर्थः । आत्मना स्वयमेव । प्रकृत्यादित्वात्तृ- तीया । अवतीर्णवान् रथादवरूढः सन् । 'निष्ठा' (३।२।१०२) इति तरतेः क्तव- तुप्रत्ययः 'ऋत इद्धातोः' (७।१।१००) इतीत्वं 'र्वोरूपधाया दीर्घ-' (८।२।७६) इति दीर्धे 'रदाभ्याम्-' (२।४२) इति निष्ठानत्वे 'रषाभ्याम्-' (४१) इति णत्वम् । स हरिः संभ्रमेण त्वराविशेषेण विनयं अनौद्धत्यं विशेषयति स्मातिशाययति स्म । एतेन हरेः पूज्यविषयो रत्याख्यो भावो ध्वन्यते ॥ ७ ॥

 वपुषा पुराणपुरुषः पुरःक्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना ।
 भुवनैर्नतोऽपि विहितात्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ८

 वपुषेति ॥ पुराणपुरुषो हरिः। सर्वलोकज्येष्ठोऽपीति भावः। तथा भुवनैर्लॊकैः नतो नमस्कृतोऽपि विहितं संपादितमात्मनो गौरवमुत्कर्षों येन स सन् । पूज्येषु नमस्याया औन्नत्यहेतुत्वादिति भावः । अत एवात्र विचित्रालंकारः । 'विचित्रं स्वविरुद्धस्य फलस्य स्यात्समुद्यमे' इति लक्षणात् । पुरःक्षितावग्रभूमौ परिपुञ्ज्य- माना परितः पुञ्जीक्रियमाणा पृथुः स्थूलो हारो मुक्तावलिः यष्टिरिव यस्य तेन वपुषा शरीरेण । न त्वञ्जलिमात्रेण । तथास्य पूज्यत्वादिति भावः । पूज्यत्वे हेतुमाह- पितृष्वसुस्तनयमिति पितृभगिनीपुत्रम् । धर्मराजमित्यर्थः ।'विभाषा स्वसृपत्योः' (६।३।२४) इत्यस्य वैकल्पिकत्वेन षष्ट्यालुक् । 'मातृपितृभ्यां स्वसा' (८।३।८४) इति षत्वम् । नाम प्रकाशं प्रणनाम । प्रणामं कृतवानित्यर्थः । प्रपूर्वान्नमेर्लिट् । 'उपसर्गादसमासेऽपि णोपदेशस्य' (८।४।१४) इति णत्वम् । अत्रापि पूर्ववद्धा- वध्वनिः । भुवनैर्नतोऽपि हरिः लोकन्नयानुवर्तितया स्वयमेनं नतवानिति विरोधा-

पाठा०-१ 'तां कुकुराधिनाथकुरुनाथसैन्ययोः'. २ 'कुकुराधिनाथकुरुनाथसैन्ययोः'.


शिशु० २७