सामग्री पर जाएँ

विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)/ प्रश्नाः

विकिस्रोतः तः
← प्रशस्तिः विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)
प्रश्नाः
कालिदासः
श्लोकसूची →

(१) कीदृशं दृश्यकाव्यं विक्रमोर्वशीयं नाम ? तल्लक्षणमुपन्यस्य तस्यास्मिन् काव्ये समन्वयो विधातव्यः ।

(२) कीदृशं प्राकृतिकं वस्तुजातं समवलम्ब्योपनिबद्धं महाकविना विक्रमोर्वशीयम् ?

(३) विक्रमोर्वशीयमिति पदं व्युत्पाद्यताम् , कीदृशश्चास्मिन् पदे समासः, तत्र च विक्रमेति पदस्य प्रवृत्तिनिमित्तं प्रदर्श्यताम् । किमस्य काव्यस्य नेनुरभिधानं विक्रम इति ! भवदुत्तरमुखेन व्याख्यायतां वक्तृबोद्धव्यपुरस्सरं "अनुत्सेकः खलु विक्रमालङ्कारः" इति ।

( ४ ) रूपकाणि कतिविधानि ? विक्रमोर्वशीयं तत्र त्रोटकं नाटकं वा? त्रोटकं चेत् “प्रत्यङ्कं सविदूषकं” इति त्रोटकलक्षणस्य प्रकृते काव्ये प्रथमाङ्के विदूषकादर्शने सति कथं सङ्गतिः क्रियते आयुष्मद्भिः?

(५) विष्कम्भप्रवेशकयोः को मेदः? आद्यश्च कतिविधः? सलक्षणं लेख्यम् ।

(६) विक्रमोर्वशीयस्य वस्तूपगमः कविप्रतिभाया एवोतैतिह्यात् ? आद्यश्चेत् कथमिदं काव्यं प्रकरणाद्भिद्यते। परश्चेद्भवतः पक्षः यतः उद्धृतं वस्तु तन्नामोल्लिख्यताम् । यदि तदन्तर्गतवर्णनमुपन्यस्याख्यानात् भवन्मते भवेयुः कतिचिद् वैषम्यपदानि तानि प्रदर्श्यानि । एवञ्च कृतौ महाकवेः किं सिसाधयिषितं, कथं वा काव्यस्योपकृतं वैषम्येणेति स्फुटं प्रतिपाद्यताम् ।

(७) रूपकस्यास्येतिवृत्तं समासेनोपन्यस्यताम् । तत्र च “केशिनोर्वशीहरणं" "चित्ररथसमागमः", "लक्ष्मीस्वयंवरस्य दिवि प्रयोगवर्णनम्", "भरतस्य शापवार्ता," "कुमारीवनप्रवेशप्रसङ्गः", “सङ्गमनीयमणिकथानकं" "सत्यवतीप्रवेशः" "नारददर्शनं" चैतेषां प्रसङ्गानामुपादानेन नाटकीयवस्तुनः कथमुपकृतिरिति सोपपत्तिकं प्रतिपाद्यम् ।

(८) का वा उदयवती ? तस्यादर्शनस्य को वा प्रसङ्गस्तेन च को लाभो रूपकोपबृंहणे?

(९) अस्य रूपकस्य को नेता ? रूपकाणाञ्च नेतारः कतिविधाः? तेषु कीदृशो वास्य काव्यस्य ? लक्षणान्युपन्यस्य सनिदर्शनं लक्षणं सङ्गमनीयम् ।

(१०) कस्यापि रूपकस्याभिधानं नायकयोर्नाम्ना कविभिराद्रियते चेत् तदा नायिकाया एव प्रथमोद्देशः यथा मालतीमाधवमालविकाग्निमित्रमल्लिकामारुतादिप्रबन्धेषु; एवं सति प्रकृते काव्ये नायिकाया उत्तरोद्देशे किं बीजमित्यालोच्य वक्तव्यं चिरञ्जीविभिः। (११) कीदृशी च नायिकात्र ? साभिसारिका कृष्णा शुक्ला वा ? तस्या अभिसारवर्णनं संक्षेपतो विधेयम् ।

(१२) विदूषकस्य कलहप्रियत्वं, वाक्पटुत्वं वा सोदाहरणोपन्यासं रूपकेऽस्मिन् निदर्शनीयम् ।

(१३) नायकयोः रूपकेऽस्मिन् के के सहायाः, कथं च साहाय्यं विहितं तैरिति प्रदर्शनीयन् ।

(१४) अत्र का च प्रतिनायिका, कीदृशी च सा, तल्लक्षणगुणाः रूपकान्तर्गतोपाख्यानप्रदर्शनपूर्वकं यथायथं योज्याः।

(१५) प्रतिनायिकायाः नायिकापेक्षया कीदृशो व्यतिरेक इति विविच्य लिख्यताम्।

(१६) तत्रभवतः पुरूरवसः चारित्र्यं लिखत । तस्य च कालिदासीयरूपकान्तरनायकाभ्यां साकं तुलना विधेया।

(१७) पुरूरवा विनयी भवन्नपि दक्षिणोऽपि शठ एव इति वचनं नायके संगच्छते न वेति सोपपत्तिकं प्रतिपाद्यताम् ।

(१८) औशीनर्याः प्रकृतिं निदर्शनेन प्रतिपादयत । तस्याः प्रियप्रसादनव्रतसंपादनेन किमीप्सितम् । तत्रभवतः कवेर्विषयस्यास्य अवतारणे किं बीजम् ? कथं च कविरुपचिकीर्षति नाटकीयं वस्तु घटनयानया इति विमृश्य विविच्यताम् ।

(१९) धारिण्या इरावत्या वा औशीनरीतः कीदृशो विशेषः ? स्वधवदाक्षिण्ये कतरा च विशिष्टा? प्रतिनायिका का च गरीयसी कलहान्तरिता चेति सयुक्तिकं समालोचनीयम्।

(२०) भारतीयरूपकेषु विदूषकानां कीदृशं पदं? कथञ्च एभिर्वस्तूपबृंहणं भवतीति लेख्यम् ।

(२१) केषाश्चिन्मते विदूषकस्य वैयर्थ्य एव अभिप्रेतं, परेषां रूपकेषु जीवातुः खलु विदूषकः ? इत्यभिप्रायः, अनयोः कतरदायुष्मतां मतम् ? परञ्चेदन्तरा हासोपस्थापनेनैवोपकारित्वं पात्रस्यास्य अन्यथा वा कथञ्चित् इति सविशदं प्रकटीकुरुत।

(२२) किञ्च दूतीलक्षणं? कीदृशी च चित्रलेखा ? तादृशलक्षणसमन्वयोऽस्याश्चरिते साधु सङ्गमनीयोऽत्रभवद्भिः।

(२३)" सदृशं खलु बालभावस्येति" कालिदासीयं वचनं कुमार आयुष्यपि सङ्गच्छते किमु ? सोदाहरणमभिधीयताम् ।

(२४) कोऽयं पूर्वो रागः? कतिविधश्च सः? अनुरागाच्च कथं भिद्यते? विक्रमोर्वश्यां पूर्वरागो दृश्यते न वा । स्याच्चेत् कुतः प्रवृत्तः कुत्रानुरागपदवीं भजते? (२५) नायकयोः रूपकेऽस्मिन् पूर्वरागे कीदृशो व्यवहारः, कथञ्चामुष्मिन् विषये स्थायी भावः पुष्यत इति सविस्तरं प्रदर्शनीयम् । परञ्च अस्यैव कवेः परेषु पूर्वरागेषु कीदृशी प्रोढिरित्यत्रत्यपूर्वरागप्रसङ्गनुलनया विवेचनीयङ्किल।

(२६) रूपकेऽस्मिन् कोऽङ्गी रसः कथञ्चाभिव्यज्यत इति प्रदर्शनीयम् । के च रसा अत्र गौणाः? यत्र कुत्रापि करुणो रसः त्रोटकेऽस्मिन् प्रतिभाति न वा? एवञ्चेत् कुत्र भवतीति विज्ञाप्यम् ।

(२७) रसोपबृंहणे त्रोटकेऽस्मिन् “न विना विप्रलम्भेन सम्भोगः पुष्टिमश्रुते” इत्यस्य कविसमयस्य महाकविनाऽनुसरणं अङ्गीकृतं न वा, अत्र सम्भोगविप्रयोगयोः कीदृशी प्रचितिः, अपि विच्छित्तिं वा पुष्णाति सा? रूपकान्तरविप्रलम्भेन विहिते साम्ये क्व भवन्मते रसपरिपोषः समीचीनः सन् सहृदयहृदयं चमत्करोतीति रसगुणैरुपपादनीयम् ।

(२८) शापोद्घातेन कविवरेण्यस्य काव्येऽस्मिन् किं अभिप्रेतम् ? नाटकीयकलायां च कवयितुः शापोन्मेषप्रकारो गुणः प्रत्युत दोष एव इति सोपपत्तिकं समालोचनलोचनैरायुष्मद्भिर्विशदीकर्तव्यम् ।

(२९) "काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला" इति भणितिरणितप्रसृतिमसहमानैः कैश्चित् विक्रमोर्वशीयं त्रोटकं तदपेक्षया रुचिरतरं सद्वरीवर्तते इति मन्यते । समालोच्य तादृशं मतं भारतीयरूपकविश्वस्मिन् विक्रमोर्वश्याः पदं निश्चिनुहि ।

(३०) कतमस्मिन् काले भारतं वर्षं महाकविः कालिदासोऽलञ्चकारेति नैककोविदाभिप्रायोपन्यासपुरस्सरं विषयेऽस्मिन् सिद्धान्तं स्थापयत ।

(३१) महाकवेर्जीवनचर्यायाः विषये किं ज्ञायते भवद्भिः? समुपलभ्यमानेषु तदीयग्रन्थेषु तदीयजीवनस्य महाकवेश्चारित्र्यस्य वा कथमपि बिम्बानुबिम्बत्वं प्रसज्यते किमु ? अन्यथा वा ऐतिह्यविरहिणि भारतेऽस्मिन् देशे महाकवेः जीवनोदन्तं कथं लभ्येतेति निर्णेतव्यम् ।

(३२) महाकवेः कति ग्रन्थाः प्रसिद्धाः वर्तन्ते ? तत्कृतत्वेन ख्यातेषु काव्येषु कानि भवद्भिः तदीयानीत्यङ्गीक्रियन्ते? ग्रन्थाभ्यन्तरप्रमाणैः स्वमतं विशदीकुरुत।

(३३) महाकविरयं काश्मीरिक इति केचित् , बङ्गीय इति परे, मालवीयश्चेति बहवो मन्यन्ते । सिंहले च गत्वा महान्तं कालमनैषीत् इति केचित्, धाराधीशस्य च सखा इत्यपरे, परे च मन्यन्ते यत् विक्रमादित्यसभाया रत्नमभूत् कविः कालिदासः । एतादृशि विचिकित्सापदे कीदृशो भवन्मते सिद्धान्त इति सोपपत्तिकं निगन्तव्यम् ।

(३४) "उपमा कालिदासस्येति" प्रथितं आभाणकं रूपकस्यास्य पर्यालोचनया साधयितुं शक्यतेऽत्रभवता किमु ? (३५) "यथाहि कीदृशोऽपि पवनः वेणुं प्रविष्टः मधुरमेव क्वणति एवमेव कीदृशमपि वस्तु महाकवेः प्रतिभायामनुप्रविष्टं रसायत एव" इति पाश्चात्यविपश्चितां अभिप्रायः । महाकवेः काव्याध्ययनचुञ्चुभिः सम्यगालोचनीयमिदं मतम् ।

(३६) निसर्गवर्णने पटीयसी खलु कवेः परिपाटीति विषयमवलम्ब्य विरच्यतां नातिविस्तरो निबन्धः ।

(३७) तदानीन्तनां भारतीयां सामाजिकी व्यवस्थां मुकुरीकरोति कालिदासीयः काव्यकदम्बो न वेति सप्रमाणं लिखत?

(३८) मानवीयाभ्यन्तरभावोद्बोधने अनुपमा किल कवेर्लेखिनीति बिरुदमिदमवितथं इति प्रमाणीकुरुत।

(३९) रूपकेऽस्मिन् वस्तुकालयोर्वरीवर्तते विसंवादः इत्यालोचकानां प्रायोऽभिप्रायः, मतमिदमभिप्रेतश्चेत् कुत्र कथमिदमुपपद्यत इति ब्रूथ नो चेत् विसंवादस्थलानि उपन्यस्य भवतो वैमत्यबीजं तत्र तत्र संस्थापयत ।

(४०) अपि नाम महाकविः स्वीयरूपकेषु कालवस्तुस्थानरसानां संवादाय सुतरां प्रयतते? अपि एतादृशसंवादसंसाधनं सुरभारतीकवीनां सम्प्रदायोऽस्ति न वेति तौलनिकधिया समस्तमिदं वस्तु विविच्यताम् ।

(४१) त्रोटकेऽस्मिन् समेषामेव सन्धीनां उपन्यासोऽस्ति न वा? एवञ्चेत् तत्तत्स्थाननिर्देशपुरस्सरं सन्धयः तदवस्थाश्च स्थाने उपस्थापयितव्याः।

(४२) कीदृश्या वृत्त्या उपनिबद्धमिदं त्रोटकं तल्लक्षणं पुरस्कृत्य तद्गुणानुपस्थाप्य तल्लक्षणसमन्वयो विधातव्यः ।

(४३) का च रूपकेऽस्मिन् रीतिः? कीदृशी चास्य सङ्घटनेति सोदाहरणं प्रदर्शयत।

(४४) काव्येऽस्मिन् कीदृशः पाकः सहृदयानां रसचर्वणापदवीमधिरोहतीति साधु वर्णनीयः।

(४५) के च गुणाः प्राधान्येन काव्यस्यास्य परिपुष्णन्ति अभिख्याम् ? ते च पुना रीतिवृत्तिसंघटना अनुसरन्ति न वा, विमृश्य लिख्यताम् ।

(४६) विक्रमोर्वशीये खलु सन्ति केचनांशा अकालिदासीयाः परैश्चान्तरा योजिताः इति मन्वद्भिः कैश्चिद् संख्यावद्भिः भवतां अस्त्यैकमत्यं न वा? यदि भवेत्तादृशानि स्थलानि सकारणं निर्देष्टव्यानि ।

(४७) रूपकस्यास्य चतुर्थोऽङ्कः संगीतरागगतिविशेषमहिम्ना नायकोन्मादगरिम्णा च शाकुन्तलीयतुरीयाङ्कापेक्षया वरीयान् वरीवर्तत इति प्रेक्षावतां धीः, विषयेऽस्मिन् भवतामभिप्रायः समालोच्य प्रकाशनीयः।

(४८) महाकविना निर्मितेषु रूपकेषु पूर्वापरधिया विक्रमोर्वश्याः कालो निर्धारयितव्यः ।

(४९) महाकवेर्ज्योतिःशास्त्रपारदृश्वत्वं सङ्गीतकलाकुशलित्वं तन्त्रान्तरापरतन्त्रत्वं तदीयकाव्योदाहरणपूर्वकं साधयत । (५०) वक्तृबोद्धव्यावसरनिर्देशपुरस्सरं छन्दोऽलंकारदोषविवेकपूर्वकं अधस्तनानामंशानां मल्लिनाथरीत्या सुष्ठु व्याख्या विधेया-----

या तपोविशेषशङ्कितस्य............बन्दिग्राहं गृहीता. (पृ० ११)

अस्यास्सर्गविधौ.  (पृ. २०)

ननु वज्रिण एव०  (पृ. ३२)

एषा मनो मे प्रसभं०  (पृ. ३७)

आ लोकान्तात्प्रतिहततमो वृत्तिरासां प्रजानाम्  (पृ. ४४)

निषिञ्चन् माधवीं ... (पृ. ५२)

अग्रे स्त्री नखपाटलं कुरबकं श्यामं द्वयोर्भागयोः० (पृ. ५५)

सखि प्रेक्षस्व प्रेक्षस्व.. ...भवनमुपगते स्वः० (पृ० ६३)

नितान्तकठिनां रुजं मम न वेद सा मानसीं (पृ० ६९)

सामिअ संभावितआ.,,,,, (पृ०७३)

वासार्थ हर संभृतं० (पृ. ८९)

सर्वः कल्पे वयसि यतते • (पृ० १०४)

उदयगूढशशाङ्कमरीचिभिः० (पृ० ११०)

इदं तस्या रथक्षोभात्० (पृ० १२३)

एषा देवतामिथुनं.. वर्तितव्यम् (पृ० १३२)

गूढं नूपुरशब्दमात्रमपि मे० (पृ० १३६)

सहअरिदुक्खालिद्धअं० (पृ. १४९)

नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः० (पृ० १५७)

तिष्ठेत् कोपवशात्प्रभावपिहिता० (पृ० १६३)

हृतोष्ठरागैः० (पृ० १७१)

मृदुपवनविभिको० (पृ. १७५)

मधुकर मदिराक्ष्या० (पृ० १८६)

मामाहुः पृथ्वीमृतां० (पृ० १९४)

अपि वनान्तरमल्पभुजान्तरा० (पृ० १९७)

तरङ्गभ्रूभङ्गा० (पृ० २००

पुव्वद्दिसा पवणाह्रअ कल्लोलुग्गअ बाहओ० (पृ. २०२)

त्वयि निबद्धरतेः. (पृ. २०७ )

प्रभालेपी नाऽयं हरिहतगजस्यामिषलवः० (पृ. २१२)

तन्वी मेघजलार्द्र (२१६)

बाष्पायते निपतिता पददृष्टिरस्मिन् (पृ. २३५)

नहि सुलभवियोगा० (पृ. २४९) शमयति गजान्० (पृ० २५०)

अमरमुनिरिवात्रिः (पृ० २५६)

तव पितरि पुरस्तात् (पृ. २५७)

(५१) अधोनिर्दिष्टानां पदानां नातिदीर्घा वैयाकरणी वस्तुपरिचायिका टिप्पणी कार्या-

नान्दी, प्रस्तावना, मारिषः, सूत्रधारः, भावः, कुररी, नरसखः, केशी, मेनका, सोमदत्तः, दिष्ट्या वर्धसे, हेमकूटः, कल्पः, पुरा नारायणेनेयं अतिसृष्टा मरुत्वते, चित्ररथः, जयोदाहरणं, देवच्छन्दकः, ब्रह्मबन्धुः, निपुणिका, अतिमुक्ता, अहल्या, शिखाबन्धिनी, प्रतिष्ठानं, तिरस्करिणी, पत्रवाणः, अविदाविद भोः, स्वस्तिवाचनिकं, मदिरेक्षणा, निक्षेपः,भरतः, लक्ष्मीस्वयंवरं, भट्टिनी, कौलीनं, भूमिका, शुद्धान्तः, वलभी, मणिहर्म्यं, प्रियप्रसादनं, खण्डमोदकः, अभिसारिका, शिखरिणी, रोहिणीयोगः,आर्यपुत्रः. वज्रलेपः, पुरोभागिनी, प्रावेशिकी, आक्षिप्तिका, द्विपदिका, गन्धमादनं, उदयवती, जम्भलिका, खण्डधारा, चर्चरी, प्रावृषेण्यः, भिन्नकः, नवशाद्वलं, खुरकः, वलन्तिका, ककुभः, पत्तलिका, कुटिलिका, द्विचतुरस्रकः, स्थानकं, सुरभिकन्दरः, संगममणिः, अकलुषः, महासेनः, वेधकः, कुम्भिलकः, आयुः, ऐलसूनुः, सत्यवती, जातकर्मादिविधानं, च्यवनः, जयन्तः, पौलोमी, अब्रह्मण्यं, दम्यः, गन्धद्विपः, अत्रिः, पाकशासनः, भरतवाक्यं, प्रवेशकः ।