सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२५
तृतीयोऽङ्कः

 उर्वशी-हला ! किं एत्थ करणिज्जं । [सखि! किमत्र करणीयम् ।]

 चित्रलेखा-अलं आवेएण | अंतरिता दाणी सि तुमं । विहिणिअमवेसा राअमहिसी दीसदि । ता एसा चिरं ण चिट्ठिस्सदि त्ति । [अलमावेगेन । अन्तरितेदानीमसि त्वम् । विहितनियमवेषा राजमहिषी दृश्यते । तदेषा चिरं न स्थास्यति इति ।]

(ततः प्रविशति धृतोपहारपरिजना देवी।)

 देवी-(चन्द्रमालोक्य ) एसो रोहिणीजोएण अहिअं सोहदि भअवं मिअलंछणो। [एप रोहिणीयोगेनाधिकं शोभते भगवान् मृगलाञ्छनः।]

 {{bold|चेटी-णं संपज्जिसदि भट्टिणीसहिदस्स भट्टिणो विसेसरमणीअदा।[नूनं सम्पत्स्यते भट्टिनीसहितस्य भतुर्विशेषरमणीयता।]


 उर्वशी-सखि ! किमत्र करणीयम्-अस्माभिरधुना किं कर्तव्यमिति विचिकित्सति । अत्र क्षणेनैव देवी आगमिष्यति इत्यतः जनितमीतेर्गम्यमानत्वात् विद्रवाख्यं गर्भसन्ध्यङ्गम् । यदुक्तं दर्पणे "शङ्काभयत्रासकृतः सम्भ्रमो विद्रवो मतः" । अत्र भीतिजनितसम्भ्रमरूपो विद्रवः ।

 चित्रलेखा-अलमावेगेन सम्भ्रमेण । त्वमिदानीमन्तरिता अलक्ष्या असि । विहितः कृतः नियमव्रतोपवासादिसमुचितो वेषः यया सा एतादृशी महिषी राज्ञी दृश्यते । देव्या नियमोचितो वेषः कृतः अतः सा चिरं न स्थास्यति शीघ्रमेवेतो गमिष्यति देवी । पश्चात् आवां द्रक्ष्यावो राजानम् ।

 (ततः प्रविशति धृतो गृहीतः उपहारः पूजावस्तु परिजनेन यस्याः सा देवी)

 देवी-(चन्द्रमालोक्य) एषः नभसि वर्तमानो भगवान् मृगलान्छनः चन्द्रः रोहिणीयोगेन तदाख्यनक्षत्रसम्बन्धेन अधिक विशेषेण शोभते । रोहिणी नक्षत्रविशेषः । रोहिणी चन्द्रप्रियेत्युच्यते । भगवत्पदेन पूज्यत्वं व्यज्यते । मृगः लाञ्छनं चिन्हं यस्येति भृगलाञ्छनः । चन्द्रे दृश्यमानो यः कालिमा स कविभिः चन्द्रे मृगोऽयमिति कथ्यते।

 अत्र मृगलाञ्छनपदेन द्योत्सः कश्चन नायकः स्वनायिकया सह वर्तमानो विशेषेण शोभते, जनानां सुतरामाल्हादकश्च भवतीति वस्तु समासोकिभङ्गया ज्ञाप्यते।

 चेटी-नूनं निश्चये । भट्टिनी राजमहिषी तया सहितस्य भर्तुः राज्ञः विशेषरमणीयता विलक्षणमनोहारिता नूनं सम्पत्स्यते भविष्यति । यथा रोहिणीसम्बन्धेन चन्द्रमाः सुतरां शोभमानो दृश्यते तथैव त्वया पार्श्वगतया समलङ्कृतो राजाऽपि नूनं अधिकमेव शोभिष्यते इति चेटी देवीमाह ।