राजा-(विदूषकवचनं परिगृह्योपविष्टः परिजनं विलोक्य ) अभिव्यक्तायां चन्द्रिकायां किं दीपिकापौनरुक्त्येन । तद्विश्राम्यन्तु भवत्यः।
परिजन: -जं देव आणवेदि । [ यद्देव आज्ञापयति ।]
(इति निष्कान्तः ।)
राजा-(चन्द्रमवलोक्य ) वयस्य ! परं मुहूर्तादागमनं देव्याः । तद्विविक्ते कथयामि स्वामवस्थाम् ।
{{bold|विदूषकः -भो, ण दीसदि एसा । किं दु ताए तारिसं अणुराअं पेक्खिअ सकं क्खु आसाबंधेण अत्ताणअं धारिदुम् । [भोः ! न दृश्यत एषा । किं तु तस्यास्तादृशमनुरागं प्रेक्ष्य शक्यं खल्वाशाबन्धेनात्मानं धारयितुम् ।]
राजा-एवमेतत् । बलवान् पुनर्मम मनसोऽभितापः ।
राजा-(विदूषकस्य वचनं परिगृह्य खीकृत्य उपविष्टः। परिजनं विलोक्य।)
अभिव्यक्तायां स्फुटायां चन्द्रिकायां कौमुद्यां दीपिकानां पौनरुक्त्येन द्विरावृत्त्या प्रकाशस्य सत्तया किं प्रयोजनम् । सत्यां तु चन्द्रिकायां दीपिकाः निष्प्रयोजना इति भावः । तत् हेतोः भवत्यः दीपवाहिन्यः दास्यः विश्राम्यन्तु विरमन्तु । अनेन राज्ञः विरहजन्यं विविक्तप्रियत्वं गम्यते ।
परिजन:-यद्देव आज्ञापयति । (इति परिजनो निष्क्रान्तः।)
राजा-(चन्द्रमवलोक्य)वयस्य मित्र ! देव्याः आगमनं मुहूर्तात् परं किञ्चित् समयानन्तरं भविष्यति । अतः विविक्ते निर्जने एकान्ते वा स्वामवस्थां दशां कथयामि।
विदूषकः-भोः! एषा तव प्रियतमा इह तु न दृश्यते । किन्तु तस्याः उर्वश्याः तादृशं गहनमनुरागं प्रेक्ष्य आशाबन्धेन समागमस्याशाविशेषेण आत्मानं धारयितुं स्थिरयितुं शक्यम् ।
एतदेव-"गुर्वपि हि विरहदुःखं आशाबन्धः सदैव सादयति" । एवमेव कियत्सुन्दरमभिहितं शेक्सपीयरमहाकविना ।
"Hope is a lover's staff; walk hence with that and manage it against despairing thoughts."
राजा-एवमेतत् यत्त्वयोच्यते तत्सत्यम् ।
पुनः किन्तु मम मनसोऽभितापः पीडा बलवान् खलु । पुनरिति विकल्पे।
इह प्रियोर्वशीसमुपोढरागस्य विदूषकवाक्योपबृंहितमदनाभिनिवेशस्य नायकस्य प्रेयसीसमागमाशाऽवगम्यते । किञ्चिल्लक्ष्यालक्ष्यभावेन ईषदुद्भिन्नस्य बीजस्यान्वेषणाद् गर्भसन्धिरित ऊर्ध्वं दर्शनीया । क्वचित् पताकाभावेऽपि न किञ्चिदपि ह्रीयते इति ज्ञेयम् । गर्भसन्धिलक्षणं यथा----
"गर्मस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः।
द्वादशाङ्कः पताका स्यान्न वा स्वात् प्राप्तिसम्भवः" इति रूपके ।