नन्दको, नन्दयिता चेत्यर्थः । स नन्दको नन्दकाख्यः खड्गोऽभूत् । संनिहितोऽभूदित्यर्थः । संबन्धानुवादेन संनिधानमेवात्र विधेयं प्रकरणात् । अत्रानन्यसाधारणत्वपरोद्वेजकत्वंपदार्थाभ्यां विशेषणगत्या नन्दकस्य तदीयतासमर्थनात् पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ १९ ॥
न नीतमन्येन नतिं कदाचित्कर्णान्तिकप्राप्तगुणं क्रियासु ।
विधेयमस्या भवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः॥२०॥
न नीतमिति ॥ अन्येन पुरुषान्तरेण नतिमाकर्षणं भेदेन स्वानुकूल्यं च न नीतं न प्रापितम्, क्रियासु रणकर्मसु, हिताहितकृत्येषु च कर्णान्तिकं कर्णगो- चरं प्राप्तो गुणो मौर्वी, आप्तताधर्मश्च यस्य तद्विधेयं क्रियासु वश्यं दृढीयः दृढतरम् । पीडासहतरमिति यावत् । शृङ्गस्य विकारः शार्ङ्गं नाम धनुः मित्रमिवास्य हरेरन्तिकस्थं संनिहितमभवत् ॥ २० ॥
प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः ।
मन्दानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः ॥२१॥
प्रवृद्धेति ॥ धियं रातीति धीरो मनोहरः मन्द्रो गम्भीरोऽम्बुदस्य मेघस्येव धीरश्च नादः प्रवृद्धो येन सः प्रवृद्धमन्द्राम्बुदधीरनाद इत्युपमा । कृष्ण एवार्णवः समुद्रस्तस्याभ्यर्णचरोऽन्तिकचरः । 'उपकण्ठान्तिकाभ्यर्णा' इत्यमरः । स चासावेकहंसश्चेति श्लिष्टपरम्परितरूपकम् । मन्दानिलस्य आपूर आपूरणं तेन कृतं जनितं निध्वानं दधानः । अनाध्मातोऽपि मन्दमारुतप्रवेशादेव ध्वनतीति पाटवादतिशयोक्तिः । ध्वन्यसंबन्धेऽपि संबन्धकथनात् । पञ्चजनो नाम कश्चिदसुरस्तत्र भवः पाञ्चजन्योऽस्य शङ्खः । 'बहिर्देवपञ्चजनेभ्यश्च वक्तव्यम्' इति ञ्यप्रत्ययः । अश्रूयत श्रूयते स्म । पाञ्चजन्योऽपि संनिहितोऽभूदित्यर्थः । वीणा श्रूयते, पुष्पाण्याघ्रायन्ते इत्यादिवद्धर्मधर्मिणोरभेदोपचारात्पाञ्चजन्यस्य श्रवणोक्तिः ॥२१॥
रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रतिषिद्धमार्गम् ।
महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ॥२२।।
रराजेति ॥ महान् रथो यस्य स महारथो रथिकविशेषः। 'आत्मानं सारथिं चाश्वान् रक्षन् युध्येत यो नरः । स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः ॥' इति । रथाङ्गं चक्रमस्यास्तीति रथाङ्गी हरिः इष्टसिद्धेः संपादकं लक्षणवत्त्वात् । 'पुष्यः सर्वार्थसाधकः' इति शास्त्रादिति भावः । सर्वासु दिक्ष्वप्रतिषिद्धमार्गम् । अनिषिद्धगमनमित्यर्थः । अधिष्ठानशक्तेर्निरङ्कुशत्वात् । 'पुष्यो हस्तो मैत्रमप्याश्विनश्च चत्वार्याहुः सर्वदिग्द्वारकाणि' इति शास्त्रादिति भावः । क्षिप्रं क्षिप्रगामिनं, अन्यत्र क्षिप्रनामकम् । 'क्षिप्रं चाश्चिदिनेशपुष्यम्' इति शास्त्रात् । पुष्यरथं क्रीडारथम् । 'असौ पुष्यरथश्चक्रयानं न समराय यत्' इत्यमरः । अधिरूढः सन् पुष्यो रथ
इव तं पुष्यरथमधिरूढः पुप्यनक्षत्रगतः क्षपानाथश्चन्द्र इव रराज ॥२२॥