कृतापचार इति ॥ परैः शत्रुभिः कृतः अपचारोऽपकारः, अपथ्यं च यस्य सः, तथाप्यनाविष्कृतविक्रियोऽन्तर्गुढविकारः । अत एवासाध्योऽप्रतिसमाधेयः सन् गदो यथा रोग इव । 'इववद्वा यथाशब्दः' इति दण्डी। काले बलक्षयाव- सरे प्राप्ते सति कोपं कुरुते । प्रकुप्यतीत्यर्थः । तदुक्तम्-'वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः । तमेव चागते काले भिन्द्याद्धटमिवाश्मना ॥' इति ॥ ८४ ।।
इतश्च क्षन्तव्यमिदानीमित्याह-
मृदुव्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते ।
प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥ ८५ ॥
मृद्विति ॥ मृदुना मृदुवस्तुना व्यवहितमन्तर्हितं तेजः अर्थान् भोक्तुं प्रकल्पते प्रभवति । तथा हि-प्रदीपोऽभ्यन्तरस्थया मध्यस्थया दशया वर्त्या॑ । 'दशा वर्ता- ववस्थायां स्नेहस्तैलादिके रसे' इति विश्वः । स्नेहं तैलादिकमर्थमादत्ते । अन्यथा स्वयमेव नि1र्वाहादिति । ततः क्षान्तिपूर्वमेव क्षात्रं फलतीति सर्वथा प्रथमं क्षन्त- व्यमिति भावः । विशेषेण सामान्यसमर्थनादर्थान्तरन्यासः ॥ ८५ ॥
तर्हि पौरुषं मा भून्नित्यं, क्षममाणस्य दैवमेव श्रेयो विधास्यतीत्याशङ्क्याह-
नालम्बते दैष्टिकतां न निपीदति पौरुषे ।
शब्दार्थों सत्कविरिव द्वयं विद्वानपेक्षते ॥ ८६ ॥
नालम्बत इति ॥ विद्वानभिज्ञः दिष्टे मतिर्यस्येति दैष्टिकः । दैवप्रमाणक इत्यर्थः । 'दैवं दिष्टं भागधेयम्' इत्यमरः । 'अस्तिनास्तिदिष्टं मतिः' (४/४/६०) इति ठक् । तद्भावं दैष्टिकतामेव नालम्बते । सर्वथा यद्भविष्यस्य विनाशादिति भावः। तथा पौरुषे केवलपुरुषकारेऽपि । युवादित्वादण्प्रत्ययः। न निषीदति न तिष्ठति । दैव- प्रातिकूल्ये तस्य वैफल्यादिति भावः । किंतु सत्कविः सत्कव2यिता शब्दार्थाविव, तयोः काव्यशरीरत्वादिति भावः । यथाह वामनः-- 'अदोषौ सगुणौ सालंकारौ शब्दार्थों काव्यम्' इति । द्वयं पौरुषं, दैवं चापेक्षते । अतः पौरुषमप्यावश्यकम् किंतु काले कर्तव्यमिति विशेषः। पौरुषादृष्टयोः परस्परसापेक्षत्वादिति भावः ॥८६॥
अथ क्षान्तेः फलमाह-
स्थायिनोऽर्थे प्रवर्तन्ते भावाः संचारिणो यथा ।
रसस्सैकस्य भूयांसस्तथा नेतुर्मही3भृतः ॥ ८७ ॥
स्थायिन इति ॥ रस्यते स्वाद्यत इति रसः शृङ्गारादिः । रसतेः स्वादनार्थ- त्वाद्रस्यन्त इति ते रसा इति निर्वचनात् तस्य रसस्य रसीभवतः स्थायिभावस्य रत्यादेः । रतिर्हासश्च क्रोधश्च शोकोत्साहभयानि च । जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥' इत्युक्तत्वात् । एकस्यैवार्थे स्वादुभावरूपे प्रयोजने भूयांसः संचारिणो व्यभिचारिणो भावा निर्वेदादयः । विभावादीनामुपलक्षण-
पाठा०-१ निर्वापात्', 'निर्वायात्'. २ 'कविता'. ३ 'महीभुजः'.