५९
"शक्तिर्निपुणता लोककाव्यशास्त्राद्यवेक्षणात् ।
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥” (का. प्र. ३)
इति मम्मटभट्टोक्तदिशा कवित्वबीजरूपसंस्कारविशेषरूपायाः प्रतिभापरनामधेयायाः शक्तेरेव काव्यनिर्माणे कारणत्वं लोकशास्त्रनिपुणतायास्तु सहकारित्वम् । उत्तमकार्यनिर्माणे प्रधानकारणस्योत्तमता एव प्रयोजिका नतु तादृशी उत्तमता सहकारिकारणानामपेक्षिता । अत एव सत्खपि बहुषु कविपण्डितेषु संस्कृतसाहित्ये सुतरां मान्यः कविः कालिदास एव । पण्डितवरेण दण्डिना कालिदासं प्रशंसता उक्तम्------
“लिप्ता मधुद्रवेणासन् यस्य निर्विषया गिरः ।
तेनेदं वर्त्म वैदर्भ कालिदासेन शोभितम् ॥"
एवं स्वप्रतिभामहिम्ना यत्किञ्चिदपि कालिदासो लिलेख तत्सर्वमेव कविकुलमान्यं, माधुरीपरिप्लुतं, भावगभीरं, वाग्वैदग्ध्यसम्मानितं, उत्तमकाव्यतामभजत् किम्बहुना अलौकिक्या प्रतिभया असौ कविवरेण्यः पूतः विभूषितश्च ।
महाकवेर्वाक्सरणीः-महाकवेः कालिदासस्य गीर्वाणवाणी नैसर्गिकी रसस्रोतोवहाऽप्रतिहतगतिर्माधुर्येण परिपाकेन चाश्वघोषादीनां तत्पूर्वतनानां कवीनां लेखिनीं परिहसन्त्यपि बन्धस्य गाढत्वेन रहितैव प्रसादगुणोपपन्ना प्रसन्नतरा प्रवहतीति समेषां चर्वणाजुषां विदुषामनुभवो विश्वजनीनः खलु । कविवरेण दण्डिना कालिदासस्य प्रबन्धेषु सर्वत्र वैदर्भी रीतिरेव प्राचुर्येण वरीवर्तत इति यथोचितमेवोक्तम् । कालिदासीयकृतिषु सर्वत्र शब्दानां सौष्ठवं, वर्णानां रसानुगुण्यं, श्रुतिकटुवर्णसंयोगहीनत्वं, पदानामनिहितार्थत्वं, वृत्तानां भावाभिव्यञ्जकत्वमनल्पं सर्वत्र शोभतेतराम् । विशेषतश्च महाकवेर्विविधानामलङ्काराणां प्रयोगो नितरामुत्कर्षशाल्येव, ततोऽपि कालिदासस्योपमालङ्कारप्रयोगस्तु अद्वितीय एव । यद्यपि परेषामलङ्काराणामुपयोगो महाकविना स्थाने प्राचुर्येण विहितः, परैश्च कविवरैरप्युपमालङ्कृतेर्बहुशो बहुधा प्रयोगोऽङ्गीकृतस्तथापि कालिदासस्य उपमानान्वेषणे यादृशी कला समुपलभ्यते तादृशी तु इतरेषु दुर्लभैव । यथा हि महाकविर्वर्ण्यस्य वस्तुनः सम्यक् चित्रचित्रणायैवोपलङ्करणं प्रयुनक्ति येन सहृदयानां हृदि वस्तुनः स्फुरणं तथाङ्कितं भवति यथाऽदृष्टमपि वस्तु प्रत्यक्षमिव भायात् प्रतीतं च तत्स्यादतीव चमत्कारि भूरि च मनोहारि; अत एवायमाभाणको विद्याचणानां सुतरां परिचित एव “यदुपमा कालिदासस्येति ।"
सकलशास्त्राकूपारपारीणत्वेनास्य कविकुलगुरोः कृतिषु यथाप्रस्तावं तत्तच्छास्त्रविषयिणः सन्दर्भास्तस्य वाचि प्रसादगुणस्य वैदर्भीरीतेः प्रथिताया वाक्सरणेश्च पूर्वोक्तानां समेषामेव गुणानां निदर्शनानि सर्वत्रैव दृश्यन्ते । ते च सुधीभिरालोचकैस्तत्र तत्र द्रष्टव्याः इति विस्तरभिया असौ विषयो नात्र प्रतन्यते।