२७
अभिसारिकावेषः" इति पृच्छन्त्यै उर्वश्यै "नास्ति मे वाग्विभवः प्रशंसितु"मितिः ब्रुवाणा चित्रलेखा स्वां विनोदवृत्तिं शंसति । तृतीयाङ्के च "क्रीडिष्ये तावदेतया सह" अनेन तस्याः सखेलत्वं सदैव प्रसन्नचित्तत्वम् स्फुटमेव । तथा च तत्रैव सम्भोगयोग्यं विक्रमोर्वश्योः सम्मेलनं घटयित्वा अपसरणेन सा समयानुसाराचारं ज्ञापितवती । उर्वश्या विक्रमेण सह सति विप्रयोगे, तस्या अपि पीडितत्वप्रकाशनेन प्रियसखीसमुचितं सहानुभूतिमत्त्वं, सुखदुःखसहभागित्वं प्रीतिलतापोषकत्वं च स्फुटमवगम्यते । सा च प्रियसखीसमुचितसकलगुणगणसंयुता बभूवेति स्पष्टतरं लक्ष्यते सहृदयैः त्रोटकस्यास्य पर्यालोचनेनेति ।
कुमार:-
आयुः जनकस्य स्पर्शमेव सम्भाव्य "उत्सङ्गे वृद्धानां गुरुषु भवेत्कीदृशः स्नेहः" इति वचनेन स्वाभाविकीमेव प्रीतिसन्ततिमनुभवति । "तात वन्दे” इत्यनेन तस्य विनयित्वं प्रकाश्यते । च्यवनाश्रमं प्रति गच्छन्त्यै तापस्यै, तामेवाम्बां मन्वानेन कुमारेण “इतो मामपि नेतुमर्हसीति” बालभावस्य सदृशमेव प्रोक्तम् । शिखण्डिनं प्रेषयेत्यनेन स्वीयं आरण्यकोचितं चित्तं तेन प्रकटीकृतम् । कुमारं राज्येऽभिषेचयते' राज्ञे"नार्हति तातः नृपपुङ्गवधारितायां धुरि दम्यं नियोजयितुमिति” सविनयं निवेदयता कुमारेण स्वीयं बुद्धिमत्त्वं, नयवत्त्वं, विनयवत्त्वं च सममेव प्रकाशितम् । शेषाणां गौणानां पात्राणां चारित्र्यन्तु नातीव चित्रं, तथा च सौकर्येणैव भावयितुं शक्यमतः ग्रन्थगौरवभिया नेह विवेचितम् सहृदयैश्च यथापेक्षमूह्यम् ॥
समालोचना।
विक्रमोर्वशीयं नाम त्रोटकं तत्रभवता श्रीमन्महाकविकालिदासेन विरचितम् । अस्य कथासन्दर्भादिकाव्यवैभवमतिमात्रं रमणीयम् । काव्येऽस्मिन् सहृदयहृदय द्रावीणि सन्ति प्रभूतानि ललितमधुराणि पद्यानि। विशेषतश्च तुरीयाङ्के विरहविधुरस्य राज्ञः असन्निहितप्रेयसीसमन्वेषणप्रकारस्तु सचेतसां मनसां सम्मोहनमेव । स्वाभाविकवर्णनापाटवं तु कविवरेण्यस्य सुतरां श्लाघ्यम् । यथा हि प्रियप्रसादनार्थमेष्यन्त्यां तत्रभवत्यामौशीनर्यां विदूषकवचनं निशम्य दिशमैन्द्रीं विलोक्य राज्ञः उक्तिः
"उदयगूढशशाङ्कमरीचिभिस्तमसि दूरतरं प्रतिसारिते।
अलकसंयमनादिव लोचने हरति मे हरिवाहनदिङ्मुखम् ॥"
अत्र हि उदयगिरि समारुरुक्षोः शीतकिरणस्याभिख्यां वीक्ष्य संयमितालकजालाया अनवद्याङ्गनायाः मुखसुषुमां मनोहरायाः दिशः उपरि नायिकात्वेनारोपयतः सुकवेरुक्तिः प्रत्यक्षमेव कविताविलाससमास्वादसमुल्लसितानां मनांसि प्रीणयति, एतद्धि एतादृशकल्पनाकुञ्जकोकिलस्य कवयितुर्लेखिनीमृते नान्यत्र सुलभमिति स्वयमध्येतारः प्रमाणम्
इह हि प्रथमाङ्क एवादौ उर्वशीपुरूरवसोः परिचयसमये यदुवंशी चन्द्रवंशावतंसस्य महाराजपुरूरवसः स्वर्लोकालभ्यविक्रमशालित्वात् , केशिदानवोद्धरणोपकारित्वाद्वा परिहसितमारसुकुमाराभिरामरूपवैभवाद्वा दिव्योपभोगपरितृप्ताप्सरा सत्यपि.