६
तिरस्करिणीं अपनोदते। सम्भ्रमात् तस्याः स्वागतं कृत्वा सखीं विनैकाकिनी त्वं मां तथा न विनोदयसि यथा सङ्गमे दृष्टपूर्वा गङ्गाविरहिता यमुना नात्मानं नन्दयति इति क्व ते सखीति जिज्ञासू राजा चित्रलेखया आदौ मेघराजिनस्तदनु च विद्युदिति- अन्योक्त्या उक्तिविचित्रया प्रत्युक्तः आत्मानमाशाबद्धं कथञ्चिद् विधाय इदमासनमास्यतामिति उपचारं विदधाति । विदूषकश्चानुपमसौन्दर्यामिमां चित्रलेखामेवोर्वशीं विचिन्तयन् नेयमुर्वशी तत्सहचरी एव, तदा सा कीदृशी सौन्दर्यसारनिकेतनं भवेदिति विस्मयेनापहृतात्मा बभूव । चित्रलेखा च राजानमाह यदुवंशी विज्ञापयति यथाहं महाराजेनैव असुरावलेपाद्हृतास्मीदानीं च बलवन्मदनेन बाध्यमाना भवतैवानुकम्प्यास्मीति । राजा च तत्कारणां स्वावस्थां दर्शयन् उभयोः पारस्परिकप्रीतिप्रवाहस्यानुवाहात् अभ्यर्थयते चित्रलेखां उभयोः समागमम् । चित्रलेखया प्रेरिता उर्वशी ससाध्वसमुपसृत्य सव्रीडम् जयतु जयतु महाराज इति विजयमाशंसते । राजा च हर्षपरिप्लुतमानसः अयि सुन्दरि यस्य त्वया जयः अद्योदीर्यते एतादृशोऽहं सत्यमेव विजयीति ससम्मानमुक्त्वा स्वहस्तेनासने उपवेशयति । तामुपविष्टाञ्चोर्वशी विदूषकः अनभिवादनादुपालभते । सा च सलज्जं प्रणमति । अनन्तरं कश्चन देवदूतः आकाशे घोषयति "चित्रलेखे त्वरयोर्वशी यतः महेन्द्रः भरताचार्येणोपदिष्टं ललिताभिनयं प्रयोगं द्रष्टुं कामयते” इति एवं अतिकठोरं वियोगजनकं शब्दं निशम्योर्वशी विषादं रूपयन्ती चित्रलेखामुखेन महाराजमनुज्ञामभ्यर्थयते । राजा च कथमपि विसर्जितवाग् नास्म्यहमीश्वरनियोगपरिपन्थी, किन्तु स्मर्तव्योऽयं जन इति प्रार्थनापरायणो भूत्वा तां गन्तुमनुमेने । गतायां च तस्यां चक्षुषः अगोचरतां स्वनयननिर्माणवैफल्यं अनुभवन् परं खिन्नो बभूव । विदूषकश्च भावानुबन्धा सा इतो गत्वा न त्वां विस्मरिष्यतीति बहुशः महाराजं विश्रम्भयति । राजा च वारं वारं तस्याः प्रस्थानसामयिकाननुभावान् स्मारं स्मारं उन्मनसमात्मानं विनोदयितुं किञ्चिदपि अलभमानो भूर्जपत्रं स्मरति । विदूषकश्च उर्वशीदर्शनेन विस्मृतात्मा कुत्र प्रभ्रष्टं तदित्यजानन् विषादमुपगच्छति राजानं च विज्ञापयति यद्दिव्यं तत् पत्रमुर्वशीमनुगतमिति । अन्वेषितुं च यतते ।
ततः औशीनरी काशिराजतनया महाराजस्य परिणीता महिषी प्रविशति विभवतः परिवारेणानुगम्यमाना । सा च निपुणिकां स्वचेटीं प्रमदवनमलङ्कुर्वाणं समाणवकं महाराजं सत्यमेव दृष्टवतीति पृच्छति। नालीकं मया निवेदितमिति विज्ञापिता लतान्तरालेऽन्तरितमूर्तिः देवी श्रोतुं कामयते राज्ञः वयस्येन सह रहसि मन्त्रणम् । अत्रान्तरे वायुना नीयमानं भूर्जपत्रं देव्या दर्शनपथमवगाहते। निपुणिकयानीतं च तत् पत्रं तया पठितम् च । चेटी महाराजमुद्दिश्योर्वश्याः काव्यबन्धोऽस्तीति तर्कयामि इति विज्ञापयन्ती, गृहीतार्था भवेति देव्या समाज्ञप्ता तथा करोति । लतागृहे श्रुत्वा चार्थं पत्रस्य, महिषी परिक्रामन्ती अप्सरःकामुकं प्रेक्षितुं मनश्चक्रे । राजा च वसन्तसखायं मलयानिलं सम्बोध्द्य लतानां त्वं पौष्पं रजः सौरभ्यायाहरसीति युक्तम् किन्तु कामार्तस्य मे विनोदनैकहेतुं