हकण्टककीलितयष्टिविशेषाम् ॥ “शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता । यष्टिः" इति केशवः ॥ हृतां विजयलब्धाम् । वैवस्वतस्यान्तकस्य कूटशाल्मलिमिव । शत्रवे राघवायाक्षिपत्क्षिप्तवान् ॥ कूटशात्मलिरिव कूटशाल्मलिरिति व्युत्पत्त्या वैवस्वतगदाया गौणी संज्ञा ॥ कूटशाल्मलिर्नामैकमूलप्रकृतिः कण्टकी वृक्षविशेषः॥ "रोचनः कूटशाल्मलिः" इत्यमरः ॥ तत्सादृश्यं च गदाया अयःशङ्कुचितत्वादनुसंधेयम् ॥
राघव इति ॥ राघवो रथमप्राप्तां तां शतघ्नीं सुरद्विषां रक्षसामाशां विजयतृष्णां च ॥ “आशा तृष्णादिशोः प्रोक्ता" इति विश्वः ॥ अर्धचन्द्र इव मुखं येषां तैर्बाणैः कदलीवत्सुखं यथा तथा चिच्छेद ॥ अथवा कदल्यामिव सुखमक्लेशो यस्मिन्कर्मणि तदिति विग्रहः ।।
अमोघं संदधे चास्मै धनुष्येकधनुर्धरः।
ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥ ९७ ॥
अमोघमिति ॥ एकोऽद्वितीयो धनुर्धरो रामः प्रियायाः शोक एव शल्यं तस्य निष्कर्षणमुद्धारकं यदौषधं तदमोघं ब्राह्मं ब्रह्मदेवताकमस्त्रमभिमन्त्रितं बाणमस्मै रावणाय च । तद्वधार्थमित्यर्थः । धनुषि संदधे ॥
तद्व्योम्नि श[३]तधा भिन्नं ददृशे दीप्तिमन्मुखम् ।
वपुर्महोरगस्येव करालफणमण्डलम् ॥ ९८ ॥
तदिति ॥ व्योम्नि शतधा भिन्नं प्रसृतं दीप्तिमन्ति मुखानि यस्य तद्ब्रह्मास्त्रम् । करालं भीषणं तुङ्गं वा फणमण्डलं यस्य तत्तथोक्तम् ॥ “करालो दन्तुरे तुङ्गे करालो भीषणेऽपि च" इति विश्वः ॥ महोरगस्य शेषस्य वपुरिव । ददृशे दृष्टम् ॥
तेन मन्त्रप्रयुक्तेन निभेषार्धादपातयत् ।
स[४] रावणशिरःपङ्क्तिमज्ञातव्रणवेदनाम् ॥ ९९ ॥
तेनेति ॥ स रामो मन्त्रप्रयुक्तेन तेनास्त्रेणाज्ञातव्रणवेदनामतिशैघ्र्यादननुभूतव्रणदुःखां रावणशिरःपङ्क्तिं निमेषार्धादपातयत्पातयामास ॥
बाला[५]र्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः ।
रराज रक्षःकायस्य कण्ठच्छेदपरंपरा ॥ १०० ॥