शिवा भूरिमायुगोमायुमृगधूर्तकाः" इत्यमरः ॥क्षत्रशोणितेन या पितृक्रिया पितृतर्पणं तत्रोचितं परिचितं भार्गवं चोदयन्त्य इव प्रतिभयं भयंकरं ववासिरे रुरुवुः॥ वासृ शब्दे " इति धातोर्लिट् ॥ “ तिरश्वां वासितं रुतम्" इत्यमरः॥
तदिति ॥ तत्पतीपपवनादि वैकृतं दुर्निमित्तं प्रेक्ष्य कृत्यवित्कार्यतः क्षितेरीश्वरः शान्तिमनर्थनिवृत्तिमधिकृत्योद्दिश्य गुरुं वसिष्ठमन्वयुङ्गापृच्छत् ।। ऽनुयोगः पृच्छा च " इत्यमरः ॥ स गुरुः स्वन्तं शुभोदकं भावीति तस्य राज्ञो व्यथामलघयल्लघुकृतवान् ।
तेजसः सपदि राशिरु[३]त्थितः प्रादुरास किल वाहिनीमुखे ।
यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात् ॥६३॥
तेजस इति ॥ सपद्युत्थितस्तेजसो राशिर्वाहिनीमुखे सेनाग्रे प्रादुरास किल खलु । यः सैनिकैर्नयनानि प्रमृज्य चिराल्लक्षणीया भावनीया पुरुषाकृतिर्यस्य स तथोक्तः। अभूदिति शेषः ॥
पि[४]त्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् ।
यः ससोम इव धर्मदीधितिः सद्विजित इव चन्दनद्रुमः ॥ ६४॥
पित्र्यमिति ॥ उपवीतं लक्षणं चिह्नं यस्य तम् । पितुरयं पित्र्यः॥ य्वृतुपित्रुषसो यत्" इति यत्प्रत्ययः ॥ तमंशम् । धनुषोर्जितं धनुरूर्जितम् । मातुरयं मातृकः ॥ “ऋतष्ठन्" इति ठञ्प्रत्ययः ॥ तमंशं च दधद्यो भार्गवः । ससोमश्चन्द्रयुक्तो धर्मदीधितिः सूर्य इव । मद्विजिहः ससर्पश्चन्दन दुम इव । स्थितः ।।
येन रोषपरुषात्मनः पितुः शासने स्थितिभिदोऽपि तस्थुषा ।
वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो म[५]ही ॥६५॥
येनेति ॥ रोषपरुष आत्मा बुद्धिर्यस्य सः॥ "आत्मा जीवो धृतिर्बुद्धिः इत्यमरः ॥ तस्य रोषपरुपात्मनः स्थितिभिदोऽअपि मर्यादालङ्घिनोऽपि पितुः शासने
तस्थुषा स्थितेन वेपमानजननीशिरश्छिदा येन प्राग्घृणाजीयत । ततोऽनन्तरं महाजीयत ॥ मातृहन्तुः क्षत्रवधात्कृतो जुगुप्सेति भावः ॥