सामग्री पर जाएँ

पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २७९ )
त्रयोदशः सर्गः ।

 छायेति। अधुनास्मिन्काले तस्य शरभङ्गस्य संबन्धिन्यतिथीनां सपर्यातिथिपूजा ॥ “पूजा नमस्यापचितिः सपर्याचार्हणाः समाः" इत्यमरः ॥ छायाभिर्विनीतोऽपनीतोऽध्वपरिश्रमो यैस्तेषु भूयिष्ठानि बहुतमानि संभाव्यानि श्लाघ्यानि फलानि येषां तेष्वमीषु पादपेष्वाश्रमवृक्षेषु सुपुत्रेष्विव स्थिता । तत्पुत्रइरिव पादपैरनुष्ठीयत इत्यर्थः ॥

  धारास्वनोद्गारिदरीमुखोऽसौ शृङ्गाग्रलग्नाम्बुदप्रपङ्कः ।
  बध्नाति मे बन्धुरगात्रि चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः॥४७॥

 धारेति ॥ धारा निर्झरधाराः । यद्वा धारया सातत्येन स्वनोद्गारिदर्येव मुखं यस्य सः। शृङ्गं शिखरं विषाणं च । तस्याग्रे लग्नोऽम्बुद एव वप्रपङ्को वप्रक्रीडासक्तपङ्को यस्य सः । असौ चित्रकूटो हे बन्धुरगात्रि उन्नतानताङ्गि ॥ “बन्धुरं तूनतानतम्" इत्यमरः ॥ दृप्तः ककुद्मान्वृषभः इव । मे चक्षुर्बध्नात्यनन्यासक्तं करोति ॥

  एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी ।
  मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः।।४८।।

 एषेति ॥ प्रसन्नो निर्मलः स्तिमितो निःस्पन्दःप्रवाहो यस्याः सा विदूरस्यान्तरस्य मध्यवर्त्यवकाशस्य भावात्तन्वी दूरदेशवर्तित्वात्तनुत्वेनावभासमाना मन्दाकिनी नाम काचिच्चित्रकूटनिकटगैषा सरिन्नगोपकण्ठे । भूमेः कण्ठगता मुक्तावलीव । भाति ॥ अत्र नगस्य शिरस्त्वं तदुपकण्ठस्य कण्ठत्वं च गम्यते ॥

  अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य ।
  यवाङ्करापाण्डुकपोलशोभी मयावतंसः परिकल्पितस्ते ॥४९॥

अयमिति ॥ गिरेः समीपेऽनुगिरम् ॥ “गिरेश्च सेनकस्य” इति समासान्तष्टप्रत्ययः ॥ सुजातः स तमालोऽयं दृश्यते । यस्य तमालस्य । शोभनो गन्धो यस्य तत्सुगन्धि ॥ गन्धस्य-" इत्यादिनेकारः समासान्तः ॥ प्रवालं पल्लवमादाय मया ते यवाङ्कुरवदापाण्डौ कपोले शोभी शोभते यः सोऽवतंसः परिकल्पितः ॥

  अनिग्रहत्रासविनीतसत्त्वम[]पुष्पलिङ्गालबन्धिवृक्षम् ।
  वनं तपःसाधनमेतदत्रेविष्कृतोदनतरप्र[]भावम् ॥५०॥

 अनिग्रहेति ॥ अनिग्रहत्रासा दण्डभयरहिता अपि विनीताः सत्त्वा जन्तवोयस्मिंस्तत् । अपुष्पलिङ्गात्पुष्परूपनिमित्तं विनैव फलबन्धिनः फलग्राहिणो वृक्षा

यस्मिंस्तत् । अतएवाविष्कृतोदग्रतरप्रभावमत्रेर्मुनेस्तपसः साधनं वनमेतत् ।।


  1. अपुण्यलिङ्गाप्तमपुण्यवृक्षम्.
  2. प्रवाहम्.