तस्मिन्निति ॥ तस्मिन्वज्रणाभे सुकृतोपलब्धां सुधर्मार्जितां द्यां स्वर्गं गते सति । उत्खातशत्रुमुद्धृतशत्रुं शङ्खणं नाम तत्संभवं तदात्मजमर्णवान्ता वसुधा खनिभ्य आकरेभ्य उदितैरुत्पन्नै रत्नोपहारैरुत्कृष्टवस्तुसमर्पणैरुपतस्थे सिषेवे ॥ "जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते" इति भरतविश्वौ ॥
तस्येति ॥ तस्य शङ्खणस्यावसानेऽन्ते हरिदश्वधामा सूर्यतेजाः । अश्विनोरिव रूपमस्येत्यश्विरूपोऽतिसुन्दरः । तत्पुत्र इति शेषः । पित्र्यमिति संबन्धिपदसामर्थ्यात् । पित्र्यं पदं प्रपेदे ॥ वेलातटेषूषिता निविष्टाः सैनिका अश्वाश्च यस्य तम् । अन्वर्थनामानमियर्थः । यं पुत्रं पुराविदो वृद्धा व्युषिताश्वमाहुः ॥
आराध्येति॥तेन क्षितेरीश्वरेण व्युषिताश्वेन विश्वेश्वरं काशीपतिमाराध्योपास्य विश्वसहो नाम विश्वसखः समग्रां सर्वां विश्वंभरां भुवं पातुं रक्षितुं सहत इति सहः क्षमः ॥ पचाद्यच् ॥ आत्मजमूर्तिः पुत्ररूप्यात्मा स्वयमेव ॥ "आत्मा वै पुत्रनामासि" इति श्रुतेः ॥ विजज्ञे सुषुवे ॥ विपूर्वो जनिर्गर्भविमोचने वर्तते ॥ यथाह भगवान्पाणिनिः--"समां समां विजायते" इति ॥
अंशे हिरण्याक्षरिपोः स[११] जाते हिरण्यनाभे तनये नयज्ञः ।
द्विषामसह्यः सुतरां तरूणां हिरण्यरेता इव सानिलोऽभूत् ॥ २५ ॥
अंश इति ॥ नयज्ञो नीतिज्ञः स विश्वसहः । हिरण्याक्षरिपोर्विष्णोरंशे हिरण्यनाभे नाम्नि तनये जाते सति । तरूणां सानिलो हिरण्यरेता हुतभुगिव । द्विषां सुतरामसह्योऽभूत् ॥
पिता पितॄणामनृणस्तमन्ते वयस्यनन्तानि सुखानि लिप्सुः ।
राजानमाजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव ॥२६ ॥
पितेति ॥ पितॄणामनृणः । निवृत्तपितृऋण इत्यर्थः ॥ "प्रजया पितृभ्यः"