इति श्रुतेः ॥ अत एव कृती । कृतकृत्य इत्यर्थः । पिता विश्वसहोऽन्ते वयसि वार्द्धकेऽनन्तान्यविनाशानि मुखानि लिप्सुः । मुमुक्षुरित्यर्थः । आजानुविलम्बिबा- हुं दीर्घबाहुम् । भाग्यसंपन्न मिति भावः । तं हिरण्यनाभं राजानं कृत्वा वल्कलवा- न्बभूव । वनं गत इत्यर्थः॥
कौसल्य इत्युत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य ।
तस्यौरसः सोमसुतः सुतोऽभून्नेत्रोत्सवः सोम इव द्वितीयः ॥२७
कौसल्य इति ॥ उत्तरकोसलानां पत्युः पतझान्वयभूषणस्य सूर्यवंशाभरण- स्य सोमसुतः सोमं सुतवतः । यज्वन इयर्थः । “सोमे सुत्रः" इति किप ॥ तस्य हिरण्यनाभस्य । द्वितीयः सोमश्चन्द्र इव । नेत्रोत्सवो नयनानन्दकरः कौसल्य इति प्रसिद्ध औरसो धर्मपत्नीजः सुतोऽभूत् ॥
यशोभिराब्रह्मसभं प्रकाशः स ब्र[१]ह्मभूयं गतिमाजगाम ।
अमिष्ठमाधाय निजेऽधिकारे ब्रमिष्ठमेव स्वतनुप्रसूतम् ॥ २८ ॥
यशोभिरिति ॥ आ ब्रह्मसभाया आब्रह्मसभं ब्रह्मसदनपर्यन्तम् ॥ अभि- विधावव्ययीभावः ॥ यशोभिः प्रकाशः प्रसिद्धः स कौसल्योऽतिशयेन ब्रह्मवन्तं ब्रह्मिष्ठम् । ब्रह्मविदमित्यर्थः ॥ ब्रह्मशब्दान्मतुवन्तादिष्ठन्प्रत्यये “विन्मतोलक" इति मतुपो लुक् । “नस्तद्धिते" इति टिलोपः ॥ ब्रह्मिष्ठं ब्रह्मिष्ठाख्यं स्वतनुप- सूतं स्वात्मजमेव निजे स्वकीयेऽधिकारे प्रजापालनकृस आधाय निधाय । ब्रह्मणो भावो ब्रह्मभूयं ब्रह्मत्वं तदेव गतिस्तामाजगाम ॥ मुक्तोऽभूदिसर्थः॥ स्या- ब्रह्मभूयं ब्रह्मखम्" इत्यमरः ॥ भुवो भावे क्यप् ॥
तस्मिन्निति ॥ कुलापीडनिभे कुलशेखरतुल्ये ॥ “वैकक्षकं तु तत् । यत्ति- यक्षिप्तमुरसि शिखास्वापाडशेखरौ इत्यमरः ॥ सुप्रसि सत्संतानवति ॥ "नित्यसिमजामेधयोः" इत्यसिप्रत्ययः ॥ तस्मिन्प्रजेशे प्रजेश्वरे ब्रह्मिष्ठे शा- सनाको शासनचिह्नां महीं विपीडं निर्वाधं यथा तथा सम्यक्शासति सति । आ- नन्दजलाविलाक्ष्य आनन्दबाप्पाकुलनेत्राः प्रजाश्चिरं ननन्दुः ॥
पात्रीकृतात्मा गुरुसेवनेन स्प[५]ष्टाकृतिः पत्ररथेन्द्रकेतोः ।
तं पुत्रिणां पुष्करपत्रनेत्रः पुत्रः समारोपयदप्रसंख्याम् ॥३०॥