सामग्री पर जाएँ

पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २१२ )
रघुवंशे

चेष्टारहितस्यापि हतद्विषः शत्रुघातिनो जागरूकस्य सर्वसाक्षितया नित्यप्रबुद्धस्यापि स्वपतो योगनिद्रामनुभवतः । इत्थं विरुद्धचेष्टस्य तव याथार्थ्यं को वेद वेति ॥ “विदो लटो वा” इति णलादेशः ॥

  शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः ।
  पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम् ॥ २५ ॥

 शब्देति ॥ किंच । कृष्णादिरूपेण शब्दादीन्विषयान्भोक्तुम् । नरनारायणादिरूपेण दुश्चरं तपश्चरितुम् । तथा दैत्यमर्दनेन प्रजाः पातुम् । औदासीन्येन ताटस्थ्येन वर्तितुं च पर्याप्तः समर्थोऽसि ॥ भोगतपसोः पालनौदासीन्ययोश्च परस्परविरुद्धयोराचरणे त्वदन्यः कः समर्थ इत्यर्थः ॥

  बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः ।
  त्वय्येव निपतन्त्योघा जाह्नवीया इवार्णवे ॥ २६ ॥

 बहुधेति ॥ आगमैस्त्रयीसांख्यादिभिर्दर्शनैर्बहुधा भिन्ना अपि सिद्धिहेतवः पुरुषार्थसाधकाः पन्थान उपायाः। जाह्नव्या इमे जाह्नवीया गाङ्गाः ॥ “वृद्धाच्छः” इति छप्रत्ययः ॥ ओघाः प्रवाहाः। तेऽप्यागमैरागतिभिर्बहुधा भिन्नाः सिद्धिहेतवश्च । अर्णव इव । त्वय्येव निपतन्ति प्रविशन्ति । येन केनापि रूपेण त्वामेवोपयान्तीत्यर्थः । यथाहुराचार्याः‌-“किं बहुना कारवोऽपि विश्वकर्मेत्युपासते” इति ॥

  त्व[]य्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् ।
  गतिस्त्वं वीतरागाणामभूयःसंनिवृत्तये ॥ २७ ॥

 त्वयीति ॥ त्वय्यावेशितं निवेशितं चित्तं यैस्तेषाम् । तुभ्यं समर्पितानि कर्माणि यैस्तेषाम् ॥ “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि कौन्तेय प्रतिजाने प्रियोऽसि मे” इति भगवद्वचनात् ॥ वीतरागाणां विरक्तानामभूयःसंनिवृत्तयेऽपुनरावृत्तये । मोक्षायेत्यर्थः । त्वमेव गतिः साधनम् । “तमेवं विदित्वातिमृत्युमेति । नान्यः पन्था विद्यतेऽयनाय” इति श्रुतेरित्यर्थः ।

  प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव ।
  आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥ २८ ॥

 प्रत्यक्ष इति ॥ प्रत्यक्षः प्रत्यक्षप्रमाणगम्योऽपि तव मह्यादिः पृथिव्यादिर्महिमैश्वर्यमपरिच्छेद्यः । इयत्तया नावधार्यः । आप्तवाग्वेदः । “यतो वा इमानि भूतानि जायन्ते” इत्यादिश्रुतेः ॥ अनुमानं क्षित्यादिकं सकर्तृकं कार्यत्वाद्घटवदित्यादिकम् । ताभ्यां साध्यं गम्यं त्वां पति का कथा ॥ प्रत्यक्षमपि त्वत्कृतं जगदपरिच्छेद्यम् । तत्कारणमप्रत्यक्षस्त्वमपरिच्छेद्य इति किमु वक्तव्यमित्यर्थः ॥


  1. त्वदावेशित.