कथं भक्तिरेव श्राद्धादिफलप्रेप्सापि कस्मान्नाभूदित्याशङ्क्याह-नहीति । तेन
पथा योगरूपेण मार्गेण तनुत्यजः शरीरत्यागिनः पुरुषास्तनयेनावर्जितं दत्तं पिण्डं
काङ्क्षन्तीति तथोक्ता न हि भवन्ति ॥
स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः ।
शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ॥ २७॥
स इति ॥ परार्घ्यगतेः प्रशस्तगतेः प्राप्तमोक्षस्य पितुरशोच्यतामशोचनीयत्वमुद्दिश्याभिसंधाय । शोको न कर्तव्य इत्युपदिश्यत्यर्थः । सदर्थवेदिभिः परमार्थज्ञैर्विद्वद्भिः शमिताधिर्निवारितमनोव्यथः ।। "पुंस्याधिर्मानसी व्यथा" इत्यमरः॥सोजोऽधिज्यकार्मुकः । अधिज्यमारोपितमौर्वीकं कार्मुकं यस्य स तथोक्तः सन् जगत्कर्मभूतमप्रतिशासनं द्वितीयाज्ञारहितम् । आत्माज्ञाविधेयमित्यर्थः । कृतवांश्चकार ॥
क्षितिरिति ॥ क्षितिर्मही भामिनी कामिनीन्दुमती च ॥ “भामिनी कामिनी च" इति हलायुधः ॥ अग्र्यपौरुषं महापराक्रममुत्कृष्टभोगशक्तिं च तमजं पतिमासाध प्राप्य । तत्र प्रथमा क्षितिः । बहूनि रत्नानि श्रेष्ठवस्तूनि सूत इति बहुरत्नसूरभूत् ॥ " रत्नं खजातिश्रेष्ठेऽपि" इत्यमरः ॥ अपरेन्दुमती वीरं सुतमजीजनज्जनयति स्म । जायतेर्णौ लुङिरुपम्॥ सहोक्त्या सादृश्यमुच्यते ॥ किनामकोऽसावत आह-
दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।
दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥ २९ ॥
दशेति ॥ दश रश्मिशतानि यस्य स दशरश्मिशतः सूर्यः । स उपमा यस्याः सा दशरश्मिशतोपमा द्युतिर्यस्य तम् । यशसा । करणेन । दशस्वपि दिक्ष्वाशासु श्रुतं प्रसिद्धम् । दशकण्ठारे रावणारे रामस्य गुरुं पितरं यं सुतम् ॥ आख्यया नाम्ना दशपूर्वो दशशब्दपूर्वो रथो रथशब्दस्तम् । दशरथमित्यर्थः । बुधा विद्वांसो विदुर्वदन्ति ॥ “ विदो लटो वा" इति झेर्जुसादेशः ॥
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः ।
अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः॥३०॥
ऋषीति ॥ श्रुतयागप्रसवैरध्ययनयज्ञसंतानैः । करणैः । यथासंख्यमृषीणां