सामग्री पर जाएँ

पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( १०१ )
पञ्चमः सर्गः ।

  ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।
  वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥ १९॥

 तत इति ॥ ततो यथावद्यथार्हम् ॥ अर्हार्थे वतिः ॥ विहिताध्वराय विधिवदनुष्ठितयज्ञाय । सदाचारायेत्यर्थः । स्मयावेशविवर्जिताय गर्वाभिनिवेशशून्याय । अनुद्धतायेत्यर्थः । वर्णानां ब्राह्मणादीनामाश्रमाणां ब्रह्मचर्यादीनां च गुरवे नियामकाय ॥ “वर्णाः स्युर्ब्राह्मणादयः" इति । " ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये । आश्रमोऽस्त्री" इति चामरः ॥ सर्वकार्यनिर्वाहकायेत्यर्थः । तस्मै रघवे विचक्षणो विद्वान्वर्णो ब्रह्मचारी ॥ “वर्णिनो ब्रह्मचारिणः "इत्यमरः ॥ "वर्णाद्ब्रह्मचारिणि" इतीनिप्रत्ययः ॥ स कौत्सः प्रस्तुतं प्रकृतमाचचक्षे ।।

  []माप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै ।
  स मे चिरायास्वलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् २०

 समाप्तेति ॥ समाप्तविद्येन मया महर्षिर्गुरुदक्षिणायै गुरुदक्षिणास्वीकारार्थं विज्ञापितोऽभूत् । स च गुरुश्चिरायास्खलितोपचारां तां दुष्करां मे भक्तिमेव पुरस्तात्प्रथममगणयत्संख्यातवान् । भक्त्यैव संतुष्टः किं दक्षिणयेत्युक्तवानित्यर्थः । अथवा भक्तिमेव तां दक्षिणामगणयदिति योज्यम् ॥

  निर्बन्धसंजातरुषार्थकर्श्यमचिन्तयित्वा गुरुणाहमुक्तः।
  वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ॥२१॥

 निर्बन्धेति ॥ निर्बन्धेन प्रार्थनातिशयेन संजातरुषा संजातक्रोधेन गुरुणा । अर्थकार्श्यं दारिद्र्यमचिन्तयित्वाविचार्याहम् । वित्तस्य धनस्य चतस्रो दश च कोटीश्चतुर्दशकोटीर्में मह्यमाहरानयेति विद्यापरिसंख्यया विद्यापरिसंख्यानुसारेणैवोक्तः । अत्र मनु:-"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश" इति ।।

  सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् ।
  अभ्युत्सहे संप्रति नोपरोद्धुंमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥२२॥

 सोऽहमिति ॥ सोऽहं सपर्याविधिभाजनेनार्ध्यपात्रेण भवन्तं प्रभुशब्द एव शेषो यस्य तं मत्वा । निःखं निश्चित्येत्यर्थः । श्रुतनिष्क्रयस्य विद्यामूल्यस्याल्पेतरत्वादतिमहत्वात्संप्रत्युपरोद्धुं, निर्बन्धुं नाभ्युत्सहे ॥


  1. अवाप्तविद्येन.