परितोऽभितः॥ “अभितःपरितः समयानिकषाहाप्रतियोगेषु दृश्यते" इति द्वितीया ॥ विसारिणा। सुजन्मनः शोभनोत्पत्तेः ॥ "जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः" इत्यमरः ॥ तस्य शिशोर्निजेन नैसर्गिकेण तेजसा सहसा हतत्विषः क्षीणकान्तयो निशीथदीपा अर्धरात्रप्रदीपाः ॥ “अर्धरात्रनिशीथौ द्वौ" इत्यमरः॥ आलेख्यसमर्पिताश्चित्रार्पिता इव बभूवुः ॥ निशीथशब्दो दीपानां प्रभाधिक्यसंभावनार्थः ॥
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् ।
अदेयमासीच्चयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे ॥१६॥
जनायेति ॥ भूपतेर्दिलीपस्यामृतसंमिताक्षरममृतसमानाक्षरम् ॥ “सरूपसमसंमिताः" इत्याह दण्डी॥ कुमारजन्म पुत्रोत्पत्तिं शंसते कथयते शुद्धान्तचरायान्तःपुरचारिणे जनाय त्रयमेवादेयमासीत् । किं तत् । शशिप्रभमुज्ज्वलं छत्रम् । उभे चामरे च ॥ छत्रादीनां राज्ञः प्रधानाङ्गत्वादिति भावः ॥
निवातेति ॥ निवातो निर्वातप्रदेशः ॥ "निवातावाश्रयावातौ" इत्यमरः ॥ तत्र यत्पद्मं तद्वत्स्तिमितेन निष्पन्देन चक्षुषा नेत्रेण कान्तं सुन्दरं सुताननं पुत्रमुखं पिबतस्तृष्णया पश्यतो नृपस्य गुरुरुत्कटः प्रहर्षः ॥ कर्ता ॥ इन्दुदर्शनाद्गुरुर्महोदधेः पूरो जलौघ इव । आत्मनि शरीरे न प्रबभूव स्थातुं न शशाक । अन्तर्न माति स्मेति यावत् । नह्यल्पाधारेऽधिकं मीयत इति भावः॥ यद्वा हर्ष आत्मनि स्वस्मिन्विषये न प्रबभूव । आत्मानं नियन्तुं न शशाक । किंतु बहिर्निर्जगामेत्यर्थः ॥
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते ।
दिलीपसूनुर्मणिराकरोद्भवः प्रत्युक्तसंस्कार इवाधिकं बभौ।।१८॥
स इति ॥ स दिलीपसूनुः । तपस्विना पुरोधसा पुरोहितेन ॥ "पुरोधास्तु पुरोहितः" इत्यमरः ॥ वशिष्ठेन । तपस्वित्वात्तदनुष्ठितं कर्म सवीर्यं स्यादिति भावः। तपोवनादेत्यागत्य । अखिले समग्रे जातकर्मणि जातस्य कर्तव्यसंस्कारविशेषे कृते सति । प्रयुक्तः संस्कारः शाणोल्लेखनादिर्यस्य स तथोक्तः। आकरोद्भवः
खनिप्रभवः ॥ "खनिः स्त्रियामाकरः स्यात्" इत्यमरः ॥ मणिरिव । अधिकं बभौ ॥