निःश्वासेन विक्षिपन्तीं चालयन्तीम् । तथा स्वप्नजोऽपि स्वप्नावस्थाजन्योऽपि । साक्षात्संभोगासंभवादिति भावः । मत्संभोगः कथं केनापि प्रकारेणोपनयेदागच्छेत् । इत्याशयेनेति शेषः । इति नैवोक्तार्थत्वादप्रयोगः। "प्रयोगे चापौनरुक्त्यम्" इत्यालंकारिकाः ॥ प्राथनायां लिङ् ॥ नयनसलिलोत्पीडेनाश्रुप्रवृत्त्या रुद्धावकाशामाक्रान्तस्थानाम् । दुर्लभामित्यर्थः । निद्रामाकाङ्क्षन्तीम् । स्नेहातुरत्वादिति भावः ॥ अत्राश्रुविसर्जनेन लज्जाक्ष्यागो व्यज्यते ॥
आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयां
स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं
गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥२९॥
आद्य इति ॥ आद्ये विरहदिवसे दाम मालां हित्वा त्यक्त्वा या शिखा बद्धा ग्रथिता शापस्यान्ते विगलितशुचा वीतशोकेन मयोद्वेष्टनीयां मोचनीयां स्पर्शक्लिष्टाम् । स्पर्शे सति मूलकेशेषु सव्यथामित्यर्थः । कठिना च सा विषमा निम्नोन्नता च ताम् । खञ्जकुब्जादिवदन्यतरम्य प्राधान्यविवक्षया "विशेषणं विशेष्येण (ब)चहुलम्" इति समासः ॥ एकवेणीमेकीभूतवेणीम् ॥ "पूर्वकाल-" इत्यादिना तत्पुरुषः तां शिखाम् । अयमिता अकर्तितोपान्ता नखा यस्याः तेन करेण गण्डाभोगात्कपोलविस्तारादसकृन्मुहुर्मुहुः सारयन्तीमपसारयन्तीम् । "तां पश्य" इति पूर्वेण संबन्धः । असकृत्सारणाच्चित्तविभ्रमदशा सूचिता ॥
सा संन्यस्ताभरणमबला पेशलं धारयन्ती
शय्योत्सङ्गे निहितमसकृदुःखदुःखेन गात्रम् ।
(२९) हे मेघ ! आद्यविरहदिवशमारभ्य विरहान्तदिवसं यावदसंस्कृतामेकवेणीमेकरेण कपोलप्रदेशान्मुहुर्मुहुरपसारयन्तीं मत्प्रियां सुखयितुं पश्येत्यर्थः ।
१ या, २ उद्वेष्टनीया, उन्मोचनीया, ३ अपमित, ४ विषमात्, ५ पेलवम् ; कोमलम् .