जीवितं जानीथाः । जीविततुल्यां मत्प्रेयसीमवगच्छेरित्यर्थः ॥ "तन्वी" इत्यादिपूर्वलक्षणैरिति शेषः । लक्षणानामन्यथाभावभ्रमाशङ्कयाहगाढेति । गाढोत्कण्ठां प्रबलविरहवेदनाम् । “रागेत्वलब्धविषये वेदना महती तु या । संशोषणी तु गात्राणां तामुत्कण्ठां विदुर्बुधाः ॥” इत्यभिधानात् । बालां गुरुषु विरहमहत्स्वेषु वर्तमानेषु दिवसेषु गच्छत्सु सत्सु शिशिरेण शिशिरकालेन मथितां पद्मिनीं वा पद्मिनीमिव । "इववद्वायथाशब्दौ” इति दण्डी, अन्यरूपां पूर्वविपरीताकारां जातां मन्ये । हिमहतपद्मिनीव विरहेणान्यादृशी जातेति तर्कयामीत्यर्थः । एतावता नेयमन्येति भ्रमितव्यमिति भावः ।
नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया-
निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-
दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥२१॥
नूनमिति ॥ प्रबलरुदितेनोच्छूने उच्छ्वसिते नेत्रे यस्य तत् । उच्छूनेति श्वयतेः कर्तरि क्त । “ओदितश्च” इति निष्ठानत्वम् "वचिस्वपि-" इत्यादिना संप्रसारणम् । 'संप्रसारणाच्च” इति पूर्वरूपत्वम् । “हल." इति दीर्घः। "छ्वोः शूडनुनासिके च" इत्यूठादेश कृते रूपसिद्धिरिति वर्तमानसामीप्यप्रक्रिया प्रामादिकीत्युपेक्ष्या । तथा सति धातोरिकारस्य गत्यभावादूठादेशे च्छ्वोरन्त्यत्वेन विशेषणाच्चेति ॥ एतेन विषादोव्यज्यते । निश्वासानामशिशिरतयाऽन्तस्तापोष्णत्वेन भिन्नवर्णो विच्छायोऽधरोष्ठो यस्य तत् । हस्ते न्यस्तं हस्तन्यस्तम् । एतेन चिन्ता व्यज्यते । लम्बालकत्वात्संस्काराभावाल्लम्बमानकुन्तलत्वादसकलव्यक्त्यसंपूर्णाभिव्यक्ति तस्याः प्रियाया मुखं त्वदनुसरणेन त्वदुपरोधेन । मेघानुसरणेनेति यावत् । क्लिष्टकान्तेःक्षीणकान्तेरिन्दौर्दैन्यं शोच्यतां बिभर्ति । नूनमिति वितर्के "नूनं तर्केऽर्थनिश्चये” इत्यमरः । पूर्ववत्तथापि न भ्रमितव्यमिति भावः"
सर्वविरहिणीसाधारणानि लक्षणानि संभावनयोत्प्रेक्ष्याणीत्याह "आलोके" इत्यादिभिस्त्रिभिः-
(२१) हे मेघ ! सम्प्रति मद्विरहिता प्रिया त्वदावरणक्षीणकान्तेरिन्दौर्दैदन्यं बिभर्तीति तर्कयामीति भावः ।
१ बहूनाम्. २ हस्ते न्यस्तम्. ३ त्वदुपसरण.