प्रवाहे संसर्पन्त्या संक्रामन्त्या भवतश्छायया प्रतिबिम्बेनासौ गङ्गा अस्थाने प्रयागादन्यत्रोपगतः प्राप्तो यमुनासंगमो यया सा तथाभूतेवा- भिरामा स्यात् ॥
आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः
शोभां शुभ्रत्रियनवृषोत्खातपङ्कोपमेयाम् ॥५२॥
आसीनानामिति ॥ आसीनानामुपविष्टानां मृगाणां कस्तूरिकामृगाणाम । अन्यथा नाभिगन्धानुपपत्तेः ॥ नाभिगन्धैः कस्तूरीगन्धैस्तेषां तदुद्भवत्वात् । अत एव मृगनाभिसंज्ञा च ॥ "मृगनाभिर्मृगमदः कस्तूरी च" इत्यमरः ॥ अथ वा नाभयः कस्तूर्यः ॥ "नाभिः प्रधाने कस्तूरीमदे च क्वचिदीरितः” इति विश्वः ॥ तासां गन्धैः सुरभिताः सुरभीकृताः शिला यस्य तं तस्या गङ्गाया एव प्रभवत्यस्मादिति प्रभवः कारणम । तुषारैर्गौरं सितम् ।। “अवदातः सितो गौरः' इत्यमरः ॥ अचलं प्राप्य । विनीयतेऽनेनेति विनयनम् ॥ करणे ल्युट् । अध्वश्रमस्य विनयनेऽपनोदके तस्य हिमाद्रेः शृङ्गे निषण्णः सन् । शुभ्रो यस्मिनयनस्य त्र्यम्बकस्य वृषो वृषभः ।। "सुकृतं वृषभे वृषः" इत्यमरः ॥ तेनोत्खातेन विदारितेन षङ्केन सहोपमेयामुपमातुमर्हा शोभां वक्ष्यसि वोढासि । वहतेर्लृट् ।। "त्रिनयन-" इत्यत्र “पूर्वपदात्संज्ञायामगः” इति णत्वं न भवति "क्षुभ्नादिषु च" इति निषेधात् ॥ तस्याः प्रभवमित्यादिना हिमाद्रौ मेघस्य वैवाहिको गृहविहारो ध्वन्यते ।।
तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा
बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः ।
अर्हस्येनं शमयितुमलं वारिधारासहस्रै-
रापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥५३॥
(५२) हे मेघ ! मार्गस्वेदापनोदनाय शुभ्रं हिमाद्रिशिखरमुपविष्टस्वमुत्खातपङ्को हरवृषभ इव शोभिष्यस इति भावः ।
(५३) हे मेघ ! वनवायुवर्दितेन वनाग्निना हिमाद्रौ बाधिते सति तं धारासम्पातै: शमयेति भावः ।
१ शुभ्राम; रम्याम्.